संस्कृतकाव्यशास्त्रे
षड्सम्प्रदायास्सन्ति । रस-अलङ्कार-रीति-वक्रोति-ध्वनि-औचित्याः इति । तेषु
अलङ्कारस्योद्भवं भामहेन कृतम् । अलङ्कार विषये
मम्मट वक्ति-
उपकुर्वन्ति तं सन्त[i]
न
कान्तमपि निर्भूषं विन कान्तमपि निर्भूषं विभाति वनिताननम् ।।[ii]
अर्थात सुन्दरमपि ललनामुखं
भूषणैर्विना यथा न शोभते, तथैव सरसकाव्यस्य शोभा
अलङ्काररैव सम्पाद्यते । रसभावादीनामन्तर्भावोऽलङ्कारेषु एव स्वीकृत्य असौ
काव्येषु अलङ्काराणामङ्गित्वं रसानाञ्च अङ्गभावं प्रतिपदितवान् ।भामहान्तर प्रायशः कर्वे आचार्यः काव्येषु अलङकारतत्वस्य
प्राधान्यं तावतकालपर्यन्तं स्वीकुर्वन्तो
दरीदृश्यते यावद् आनन्दवर्धनो ध्वनितत्वं सहित्यशास्त्रे प्रतिष्ठाप्य तं ध्वनिं
काव्यास्याऽऽत्मत्वेन संस्थापितम् । इत्थमलङ्कारवादिभिराचार्यैः काव्येषु
अलङ्कारतत्वस्य प्राधान्यं
प्रतिपादितं । काव्येषु सौन्दर्यस्य रमणीयताय़ाश्त
सर्वाण्येव तत्वानि अलङ्कारपदवाचकानि भवन्तीति तेषां मतम् । अत एव काव्यशास्त्रस्य
विवेच्यतत्वेषु अलङ्कारतत्वमतिमहत्वपूर्णमस्ति ।
काव्यसमालोचनोपक्रमोऽलङ्कारविवेचनप्रभवः । अलङ्काराश्च काव्यस्याऽनिवार्योपकरणानि तत्र च प्रमुखानि सौन्दर्याधायकतत्वानि
परिगणितानि । अलङ्काराणां समुचितगहनमीमांसाकरणाद् वक्रोक्त्यलङ्कारस्य समुद्भवो
बभूव । तस्माच्च वक्रोक्तिसम्प्रदायः
प्रावर्तते । अनेकेलङ्कारा वाच्यादतिरिक्तं कञ्चिदन्यमर्थमपि बोधयन्ति । यथा
दीपकपर्यायोक्ततुल्ययोगितासमासोक्त्यप्रस्तुतप्रशंसादयोऽलङ्काराः ।
अयमन्योऽर्थः प्रतीमान एव यस्माच्च ध्वनिसम्प्रदायः प्रावर्तेत । एवञ्च
काव्यसमालोचनसिद्धान्तानां मूलकारणमलङ्कारः एव
अतः समालोचनविद्यायाः शास्त्रस्य चाऽलङ्कारशास्त्रमिति नामकरणं समुचितमेव ।
अलङ्कारशास्त्रस्य लक्ष्यमानेषु ग्रन्थेषु
भरतमुनेर्नाट्यशास्त्र प्रथमम् । तत्र नाट्ये
प्रयोज्यानि भूषणाक्षसंघातादीनि षटित्रंशल्लक्षणानि आशीराक्रन्दकपटप्रभृतयः
त्रयस्त्रिंशन्नाट्याकृतयश्च प्रतिपादिताः । भूषणाक्षरसंघातौ शोभोदाहरणे तथा ।
षटित्रंशल्लक्षणान्येवं काव्यबन्धेषु
निर्दिशेत[iii] इति । अत्र काव्यशब्दो परममीति
लक्षणानि नाट्यालङ्कतीश्च गुणालङ्कारयोरन्तर्भावं प्रतिपादयतः
साहित्यदर्पणकारस्य विश्वनाथस्य एषां च
लक्षणनाट्यकाराणां समान्यत एकत्वेऽपि भेदेन व्यपदेशो गङ्ङलिकाप्रवाहेण । एषु च
केषाच्चिद् गुणालङ्कारभानवसन्ध्यङ्ग विशेषान्तर्भावेऽपि नाट्ये प्रयत्नतः कर्तव्यत्वाद् विशेषोक्तिः । इति
वचनेन प्रतीयते । भरतेन पुनः उपमा रुपकं चैव दीपकं यमकं तथा इत्युपमादयः स्पष्टोऽलङ्कारशब्देनाभिहिताः । एवं नाट्यशास्त्रे चतुर्णामेवोल्लेखः । तत्रोपमारुपकदीपकानि
सादृश्याभेदेप्रधानानां पश्चाद् विकसतामर्थालङ्काराणां यमकं च शब्दालङ्काराणां बीजन्युपलक्षणानि वा
मन्तु शक्यन्ते । किञ्च भूषणादिलक्षणेभ्योपि पश्चान्तनाम् अलङ्काराणं विकासो
मन्यते । भारतादर्वाचीनैराङ्कारिकैः पश्चाद्
हेतू-संशय-दृष्टान्त-निदर्शन-गुणातिशयार्थापत्ति लेशप्रभृतीना लक्षणानि
तत्तन्नामभिरलङ्कारत्वेन स्वीकृतानि ।
भूषणार्थक “ अलं पूर्वकात् कृ धातो “ अलङ्क्रियतेऽनेन अलङ्करोति वेति निर्वचने करणे भावे वाऽर्थे घञ् प्रत्यये सति
अलङ्कारपदं निष्पद्यते । भावे तु अलङ्कृतिरलङ्कारः इति
काव्यसौन्दर्यपदवाचकमेव । अस्मिन्नर्थे शब्दोऽयं व्यापकत्वं धारयति । यथोक्तं
वामनाचार्येण- ‘’अलङ्कृतिरलङ्कारः
‘’ करणव्युत्पत्यापुनरलङ्कारशब्दोऽयमुपमादिषु वर्तते।[iv] यद्यपि वेद-ब्राह्मणोपनिषद्-निरुक्त-व्याकरणग्रन्थेषु
अलङ्कारनिर्वचनस्य संकेतः प्राप्यते, उदाहरणानि चोपलभ्यन्ते, तथापि तदानीन्तनयुगे
कश्चिदलङ्कारशास्त्रीयो ग्रन्थः आसीदिति निश्चिरुपेण कथयितुं न शक्यते ।
साहित्यशास्त्रीयग्रन्थेषु सौन्दर्याभिधायकतत्वरुपेण अलङ्कारपदप्रयोगः
सुस्पष्टरुपेण भरतमुनिविरचिते नाट्यशास्त्रग्रन्थे दृश्यते। भरतकृतनाट्यशास्त्रमेव
प्राचीनतमो ग्रन्थो यत्र अलङ्काराणां शास्त्रीय विवेचनं विद्यते । तत्र
चत्वारोऽङकारा निरुपिताः । यथा-
उपमारुपकं चैव दीपकं यमकं तथा ।
अलङ्कारास्तु विज्ञेयश्चत्वारो
नटकाश्रयाः।।[v]
भामहमारभ्यालङ्काराणां संख्या
वर्धते । भामहस्य काव्यालङ्कारे ३९ अलङ्काराः स्वीकृताः, रसादयो
रसवदाद्यलङ्कारत्वेनैव मताः । दण्डिनः
कव्यादर्शे
चित्रानुप्रासयमकादिशब्दालङ्कारेभ्योऽतिरिक्ताः ३५ अर्थालङ्कारा निरुपिताः । उद्भटस्य
काव्यालङ्कारसंग्रहे षटसु वर्गेषु ४१ अलङ्कारा प्रतिपदिताः । भोजेन श्रृंगारप्रकाशस्य दशमें प्रकाशे ७२
अलङ्काराः कथिताः तत्र ‘’ये शब्दमेव व्युत्पत्या भूषयन्ति ये
शब्दालङ्काराः’’[vi] इति लक्षणं विधाय
जाति-गति-वृत्ति-घटना-मुद्रा-च्छाया-युक्ति-उक्ति-भणिति-पणिति-श्रव्यत्व-प्रेक्ष्तव-अभिनेयत्व-अध्येत्व-वाकोवाक्य-प्रश्नोत्तर-प्रहेलिका-गूढ-चित्र-श्लेष—यमक-अनुप्रासरुपाः
चतुर्विशतिः शब्दालङ्काराः ‘’अर्थमेव
ये व्युत्पत्या भूषयन्ति तेऽर्थालङ्काराः’’[vii] इति लक्षणं निर्माय- जाति
सूक्ष्म-सार-समाहितभाव-विभावना-हेतू-अहेतु-सम्भव-विरोध-दृश्टान्त-व्यतिरेक-अन्योन्य-परिवृत्ति-मीलित-वितर्क-स्मरण-भ्रान्ति-उपमान-अनुमान-अर्थापत्ति—अभाव-आगम-प्रत्यक्षरुपाः
चतुर्विशतिरर्थालङ्काराः ‘’शब्दविशेषद्वारकोऽर्थविशेषो
येषु प्रतीयते ते उभयालङ्काराः[viii]
‘’ इति लक्षणं कृत्वा
उपमा-रुपक-साम्य-संशय-समाधि-समासोक्ति-सहोक्ति-समुच्चय-तुल्ययोगिता-लेश-अपह्नुति-अप्रस्तुतप्रसंशा-उत्प्रेक्षा-अर्थान्तरन्यास-दीपक-परिकर-क्रम-पर्याय-अतिशय-आक्षेप-विशेष-श्लेष-भाविक-
संसृष्टिरुपाश्चतुर्विशंतिरुभयालङ्काराश्च भोजेन निरुपिताः । ततो मम्मटः
काव्यप्रकाशे अनुप्रास-यमक-पुनरुक्तवदाभास- वक्रोक्ति-चित्ररुपान, शब्दालङ्कारान
निरुप्योपमाप्रभृतीन् एकषष्टिम् अर्थालङ्कारान् न्यरुपयद् यत्र संसृष्टिसंकरावपि
वर्तते । एवमपप्यदीक्षितं यावदर्थालङ्काराणां संख्या शताधिका जाता । पण्डितराजेन
सप्ततिरेवार्थालङ्काराः स्वीकृताः । नागेशभट्टेन
काव्यप्रकाशनिरुपितेषु एकषष्टावेव
अर्थालङ्कारेषु तदतिरिक्तानामलङ्काराणां यथा संभवमन्तर्भावः साधितः ।
एवमर्थालङ्कारसंख्यास्वेव भूयान् विकासः
काव्यशास्त्रे परिलक्ष्यते शब्दालङ्कारारास्तु
पुनरुक्तवदाभास-अनुप्रास-यमक-श्लेष-वक्रोक्ति-भषासम-चित्रप्रहेलिकारुपेण परिगणिता
एव भेदा विकसिताः ।
तत्रापि चित्रप्रहेलिकयोः अलङ्कारत्वमेव ध्वनि-वदिभिर्निरस्तम् ।
वस्तुतोऽर्थालङ्काराणामनन्ता भेदाः संभवन्ति । उक्तिवैचित्ररुपा अलङ्कारा भवन्ति ।
अतएव ध्वन्वालोके ध्वन्यालोके
ध्वन्यभाववादिनां मतस्य प्रतिपादने
ध्वनिकृता वाग्विकल्पामानन्त्येनालङ्काराणाम् आनन्त्यं सूचितम् ।
‘’ मुखं चन्द्र इव ’’ इत्यत्रोपमा, मुखं चन्द्रः इत्यत्र रुपकं मुख
चन्द्रश्च प्रकाशते इत्यत्र मुखचन्द्रयोः प्रस्तुतत्वे प्रकाशनरुपेनैकेन धर्मेण
सम्बन्धात् तुल्ययोगिततेत्यादिरुपेणोक्ति प्रकाराणां भेदेनाङ्कारभेदः स्फुट एव ।
भामहमनुसृत्य अन्येऽपि अलङ्कारपक्षपातिन आचार्याः स्व-स्व ग्रन्थे अलङ्काराणां
विशदं विवेचनं कृतवन्तः, अथ च काव्येषु अलङ्काराणां अनिवार्यतया स्थितिः तैः प्रतिपादिता । रुद्रटेन भावनाम्नि अलङ्कारे
सर्वस्यापि प्रतीयमानार्थस्यान्तर्भावं विधाय अलङ्कार एव काव्यस्य प्राणत्वेन निर्धारितः । अत एव आचार्यरुय्यकः ‘’अलङ्कारसर्वस्य ‘’ इत्यस्मिन् ग्रन्थे कथयति-
‘’ इह तावद्
भामहोद्भटप्रभृतयश्चिचरन्तनालङ्कारिकाः प्रतीयमानार्थं
वाच्योपस्कारक-तयालङ्कारपक्षनिक्षिप्तं मन्यते । रुद्रटेन तु भावालङ्कारो वाच्योपस्कारत्वेननोक्तः ।
उत्प्रेक्षा तु स्वमेव प्रतीयमाना कथिता । रसत्प्रेयः प्रभृतौ तु
रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः । तदित्थं त्रिविधमपि प्रतीयमानमलङ्कारतया
ख्यापितमेव । वामनेन तु सादृष्यनिबन्धनाया लक्षणाया वक्रकोक्तियलङ्कारत्वे ब्रुवता
कश्चित् ध्वनिभेदोऽलङ्कारतयैयोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः
काव्यत्मत्वेनोक्ता । उद्भटादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम् ।
तदेवमलङ्कारा एव काव्ये प्राधानमिति प्राच्यानां मतम्[ix]
‘’ ।
उपर्युक्तविवेचनेन निष्पद्यते
यदलङ्कारवादिभाराचार्यैः काव्येषु अलङ्कारस्यैव प्राधान्यं स्वीकृतम् । ते
काव्येषु अलङ्कारनमेवाङ्गिनं प्रतिपाद्य तं
महत्तमं तत्वं प्रत्यपादयन् ।भामह-दण्डयुदभट-रुद्रट-वामनादय आचार्या
रसस्य प्राधान्यमुपेक्ष्य अलङ्काराणां
प्रामुख्यमङ्गीकृतवन्तः । तैरलङ्कारा एव काव्यसर्वस्वमित्यपि उद्घोषितम् ।
काव्यशरीरमलङ्कारैरेव अलङ्क्रियते ।
अलङकाराः काव्यसौन्दर्यस्योत्कर्षहेतवः काव्यशोभादायकधर्माश्च सन्ति ।
इत्यलम्
शिव त्रिपाठी
शोध्रछात्र (व्याकरणविभाग)
[i] काव्यप्रकाश (प्र.उ.)
[ii] काव्यालंकार
[iii] ना.शा १७अ.१-५
[vi] श्रृंगारप्रकाश (द.प्र)
[vii] श्रंगारप्रकाश (द.प्र.)
[viii]
श्रृंगारप्रकाश (द.प्र.)