रविवार, 22 जनवरी 2017

धातु गण

                                                 धातु गण    
पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति | एते दश गणाः अधः सूचिताः सन्ति; परन्तु सर्वप्रथमं कानिचन नूतन-नामानि अस्माभिः ज्ञातव्यानि | कर्तरिप्रयोगस्य लट्‌-लकारे, क्रियापदं भागत्रये विभज्यते— 

पठति = पठ्‌ + अ + ति
पठ्‌ – धातुः [अर्थं निर्दिशति]
अ – विकरण-प्रत्ययः [गणं निर्दिशति]
ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |

अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |

१. भ्वादिः (प्रथमः गणः = भू इत्यादयः धातवः; “भवति" इत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्ति, सः भ्वादि-गणः |
विकरण प्रत्ययः शप्‌ → अ
उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)

२. अदादिः (द्वितीयः गणः = अद्‌ इत्यादयः धातवः; “अत्ति" इत्यादीनि क्रियापदानि)
विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]
उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)

३. जुहोत्यादिः (तृतीयः गणः = हु इत्यादयः धातवः; “जुहोति" इत्यादीनि क्रियापदानि)
विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं = धातोः द्वित्वम्‌ |
उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)

४. दिवादिः (चतुर्थः गणः = दिव्‌ इत्यादयः धातवः; “दीव्यति" इत्यादीनि क्रियापदानि)
विकरण प्रत्ययः श्यन्‌ → य
उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)

५. स्वादिः (पञ्चमः गणः = सु इत्यादयः धातवः;“सुनोति" इत्यादीनि क्रियापदानि)
विकरण प्रत्ययः श्नु → नु → नो
उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)

६. तुदादिः (षष्ठः गणः = तुद्‌ इत्यादयः धातवः;“तुदति" इत्यादीनि क्रियापदानि)
विकरण प्रत्ययः श → अ
उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)

७. रुधादिः (सप्तमः गणः = रुध्‌ इत्यादयः धातवः;“रुणद्धि" इत्यादीनि क्रियापदानि)
विकरण प्रत्ययः श्नम्‌ → न
उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)

८. तनादिः (अष्टमः गणः = तन्‌ इत्यादयः धातवः;“तनोति" इत्यादीनि क्रियापदानि)
विकरण प्रत्ययः उ → ओ
उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)

९. क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "क्रीणाति" इत्यादीनि क्रियापदानि)
विकरण प्रत्ययः श्ना → ना
उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), स्तभ्‌ (स्तभ्नाति), बन्ध्‌ (बध्नाति),

१०. चुरादिः (दशमः गणः = चुर्‍ इत्यादयः धातवः; “चोरयति" इत्यादीनि क्रियापदानि)
स्वार्थे णिच्‌ प्रत्ययः, तदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]

उदा-- क्षल्‌ (क्षालयति), प्रेष्‌ (प्रेषयति), कथ्‌ (कथयति), गण्‌ (गणयति), चिन्त्‌ (चिन्तयति), भक्ष्‌ (भक्षयति)

क्रमशः अग्रे पश्यामः |
संस्कृतसेवकः 

शनिवार, 21 जनवरी 2017

कितने सुंदर भाव मे संस्कृत संभाषण इन दोनों बालकों का निश्चित हि आप सभी  को पसंद आएगा धन्यवाद |

विष्णुभक्त स्य प्रह्लादस्य सुतः बलिः । सः असुराणां चक्रवर्ती । सः बाल्ये एव पितामहस्य सभ्रातृकस्य हिरण्यक शिपोः विष्णुना मरणं शुश्राव । सः विद्वेषिणः सुरान्‌ मर्दितुं ससैन्यः अमरावतीं ययौ । भीतः इन्द्रः राज्यं त्यक्त्वा पलायामास । बलिः असुरान्‌ सर्वान्‌ आहूय देवराजधान्यामेव न्यवसत्‌ । तस्य महान्तं यागं कर्तुं अपेक्षा प्रादुरभूत्‌ । इन्द्रः चगद्रक्षकं श्रीविष्णुं गत्वा सर्वपि उदन्तं निवेद्य बलिं निगृह्य अमरावतीं मह्यं प्रयच्छ इति प्रार्थयत । भगवानपि तथेत्यवोचत्‌ । अदितिः भर्तारं प्रार्थयामास ‘भगवन्‌, पुरणपुरुषः यथा मम पुत्रत्वमेति तथा अनुगृह्यताम्‌’ इति । क श्यपस्य वचनं सत्यं क र्तुं भगवान्‌ पुराणपुरुषः बलिनिग्रहाय पृष्णेः अलंचकार । पृष्णिगर्भ इति ख्यातः सः वामनः गुरुणा सकाले उपनयक र्मणा द्विजत्वं प्रापितः । उपेन्द्रः सः यदृच्छया बलेः यागभूमिं जगाम । तत्र ऋ त्विजः राजा च वटोः दिव्येन तेजसा आक र्षिताः क्षणं संभ्रान्ता अभूवन्‌ । चक्र वर्ती तु वटुं उद्दिश्य प्राह ‘हे वटो त्वत्तेजसा अतीव संतुष्टोऽस्मि । वरं वृणीष्व । वाञ्छितं ते ददामि’ इति । संतुष्टः वामनः चक्र वर्तिने आशिषः वाचयित्वा स्वपादेन पादत्रयमितां भूमिं अयाचत । एतत्‌ श्रुत्वा सार्वभौः जहास । पुरोधाः शुक्रः दानं निरुध्य ‘सः मायावी अच्युतः’ इति चक्र वर्तिनं स्मारयामास । तथापि सत्यवाक्‌ राजा तस्मै तस्य वाञ्छितं उदक दानेन प्रायच्छत्‌ । वामनः त्रिविक्र मो बभूव । पादेनैके न भूमिं अन्येन पादेन अन्तरिक्षं च आक्रम्य तृतीयपादक्षेपणाय स्थानं निर्दिश इति अवोचत्‌ । अनिरीक्षितं आगतं विष्णुपादं दृष्टा पितामहः तं संपूज्य यागभूमिं आगच्छत्‌ । चक्रवर्ती देवानां सन्दर्शनेन तुष्टः तृतीयं पादं स्वमूर्धनि निवेशयितुं प्रार्थ्य अवनतशिरा बभूव । भगवान्‌ त्रिविक्र मः बलिं अनुगअह्य रसातले निवेश्य तेन प्रार्थितः तस्य नित्यं सन्दर्शनदानं कुर्वन्‌ तस्य प्रासादस्य गृहपालश्च भूत्वा रक्षति ।

१. चक्रवर्ती राजगोपालाचारी
१९५४
२. सर्‌.सि.वि.रामन्‌
१९५४
३. डा.एस्‌.राधाकृष्णन्
१९५४
४.भगवान्‌ दासः
१९५५
५. सर्‌.एम्‌.विश्वेश्वरय्यः
१९५५
६.जवाहरलालनेहरू
१९५५
७.गोविन्दवल्लभपन्तः
१९५७
८.डि.केशवकर्वे
१९५८
९. बि.सि.राय्‌
१९६१
१०. पुरुषोत्तमदासः टण्डन्‌
१९६१
११.बाबुराजेन्द्रप्रसाद
१९६२
१२.झाकीर् हुसेन्‌
१९६३
१३.पाण्डुरङ्ग वामन काणे
१९६३
१४.लालबहादूरशास्त्री
१९६६
१५. इन्दिरागान्धी
१९७१
१६. वि.वि.गिरिः
१९७५
१७.के.कामराजः
१९७६
१८.मदर्‌थेरेसा
१९८०
१९. विनोबा भावे
१९८३
२०. खान्‌ अब्दुल्‌ गफार् खान्‌
१९८७
२१. एम्‌.जि.रामचन्द्रन्‌
१९८८
२२.बि.आर्‌.अम्बेडकर्
१९९०
२३.नेल्सन्‌ मण्डेल
१९९०
२४.राजीवगान्धी
१९९१
२५.वल्लभभाई पटेलः
१९९१
२६.मोरार्जी देसाई
१९९१
२७.अब्दुल कलाम्‌ आजाद्‌
१९९२
२८. जे.आर्‌.डि.ताता
१९९२
२९. सत्यजितथ राय्‌
१९९२
३०.ए.पि.जे.अब्दुल्‌कलाम्‌
१९९७
३१. गुल्जारिलाल्‌ नन्दः
१९९७
३२. अरुणा असफ अली
१९९७
३३.एम्‌.एस्‌.सुब्बलक्ष्मीः
१९९८
३४.सि.सुब्रमणियम्‌
१९९८
३५.जयप्रकाशनारायण्‌
१९९९
३६.पण्डितरविशङ्करः
१९९९
३७.अमर्त्य सेनः
१९९९
३८. गोपीनाथ बोरदोलै
१९९९
३९. लता मङ्गेशकर्
२००१
४०.बिस्मिल्लाखान्‌
२००१
४१.भीमसेनजोषिः
२००८
४२. सि.एन्‌.आर्‌.राव्‌
२०१३
४३.सचिन्‌ तण्डुल्‌कर्
२०१३
४४.मदनमोहनमालवीय
२०१४
४५. अटलबिहारी वाजपेयी
२०१४

दण्डकारण्ये नर्मदानद्यास्तीरे कश्चन ऋष्याश्रमः। तत्र उतथ्यनामा महर्षिः अवर्तत। सः उग्रतपाः, सत्यवाक्‌, दयापरश्च। एकदा सःनर्मदां गत्वा, स्नानाह्निकादीनि कर्तव्यानि पूरयित्वा, आश्रममागत्य ध्यानपरायणः निमीलितलोचनः उपविशति स्म। तस्य यज्ञवाट्यां ऋत्विजः उच्चैः मंत्रान्‌ घोषयन्तःजुह्नति स्म । तदा उतथ्यस्य महर्षेः ध्यानस्य भंगं कुर्वन्‌कश्चन एणःधावन्‌ आगत्य तं शरणं जगाम, यज्ञवाटीं च प्रविवेश। प्रविशन्तं हरिणं उतथ्यः ददर्श। तस्मिन्नेव क्षणे हरिणमनुसृत्य कश्चन घरोः व्याघ्रः आजगामः। महर्षिं दृष्ट‰ा स भीतः, विनीतवत्‌ पप्रच्छ च । ‘‘महर्षे, मम आहारभूतः मृगाः त्वया दृष्टः किम्‌ । यदि तथा सत्यवाक्‌ भवान्‌ मम कथयतु, तत्‌ कुत्र गत इति’’। सत्यप्रेमी सः किमपि नावदत्‌ । व्याघ्रस्तु पुनः पुनः पप्रच्छ । किंचिदालोच्य सः प्रत्युत्तरमदात्‌ ‘‘व्याघ्र, किमिति त्वा वच्मि । नेत्रे पश्यतः ते वक्तुं न शक्नुतः। जिह्वां वदति । सा न पश्यति ते वक्तुं न शक्नुतः। जिह्वां वदति । सा न पश्यति। त्वया जिह्वा पृच्छ्यते यस्याः दृष्टियोग्यता न। ये अपश्यतां ते न वदतः’’इति। तदुत्तरं श्रुत्वा व्याघ्रः न्यवर्तत। हरिणश्च रक्षितः। महात्मनः तार्किकी एषा प्रतिभा पसिद्धस्य तर्कशास्त्रस्य उद्गमे निदानमभूत्‌  |
⇟

प्रश्नः

प्रश्नः 
"चित्रकारः चित्रं विरच्य प्रदर्शितवान्" उत "चित्रकारः चित्रं विरचय्य प्रदर्शितवान्" - अनयोः कः प्रयोगः साधुः?

उत्तरम् 
"चित्रकारः चित्रं विरचय्य प्रदर्शितवान्" इत्येव साधुः प्रयोगः |

- रच इति चुरादिगणीयः, अदन्तः, सेट् धातुः | सर्वेभ्यः चुरादिगणस्थेभ्यः धातुभ्यः आदौ णिच्-प्रत्ययः विधीयते, यथा रच + णिच् |
- अतः प्रथमतया णिच्-प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति चुरादिगणे | अयं णिच्-प्रत्ययः आर्धधातुकः प्रत्ययः |
- रच इत्यस्मिन् अन्तिमः अकारः इत्संज्ञकः न इत्यतः धातुः अदन्तः, तस्य उपधायां हल्-वर्णः च | अनेन णिचि विहिते उपधावृद्धिः न भवति |
- णिचः आर्धधातुकत्वात् रच + णिच् इत्यस्याम्‌ अवस्थायाम् अतो लोपः (६.४.४८) इत्यनेन रच इत्यस्य ह्रस्व अकारस्य लोपे जाते रच् इति अवशिष्यते |
- अधुना रच् + णिच्  इत्यस्याम् अवस्थायां णिच्-निमित्तीकृत्य अत उपधायाः (७.२.११६) इत्यस्य वृद्धिकार्ये जाते, रच् + णिच् → राच् + इ → राचि इति भवति स्म |
- किन्तु रच-धातोः मूले यः अन्तिम-अकारः आसीत्‌, यस्य च लोपः जातः, णिच्‌ निमित्तीकृत्य अचः परस्मिन्‌ पूर्वविधौ (१.१.५७) इत्यनेन सूत्रेण स च लुप्त-अकारः पुनः दृश्यते अत उपधायाः (७.२.११६) इति सूत्रेण अतः 'रच' इत्येव न तु 'रच्‌'; तस्मात्‌ वृद्धिः न भवति |- (चुरादिगणे अनेके एतादृशाः अदन्तधातवः सन्ति; तेषाम्‌ अन्तिम-अकारस्य प्रयोजनम्‌ इदमेव | यथा चुरादौ गण → गणयति, एवमेव क्षिप, पुट, गृह चेति अदन्तधातवः |) - तर्हि अनने रच् + णिच् → रच् + इ → रचि इति एव प्रक्रियार्थं सिद्धम् |
- णिच्-प्रत्ययस्य योजनेन रचि इति धातु-संज्ञां प्राप्नोति सनाद्यन्ता धातवः (३.१.३२) इत्यनेन | अतः विरचि इति वि-उपसर्गपूर्वकः आतिदेशिकः रचि-धातुः | 
- विरचि इति उपसर्गपूर्वकः इत्यस्मात् समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ (७.१.३७) इत्यनेन ल्यप्-प्रत्ययः विहितः भवति क्त्वा-प्रत्ययस्य स्थाने, विरचि + ल्यप् | 
- विरचि + ल्यप् इत्यस्यां दशायां णेरनिटि (६.४.५१) इत्यनेन णिचः (विरचि इत्यस्मिन् इकारस्य) लोपे जाते, विरच् + य → विरच्य इति ल्यबन्तरूपं स्यात् इति शङ्का उदेति |
- किन्तु अत्र णिचः लोपः न, अपि तु णिचः अय् इति आदेशः |
- विरचि + ल्यप् इत्यस्यां दशायां णेरनिटि इति सूत्रं प्रबाध्य ल्यपि लघुपूर्वात् (६.४.५६) इत्यनेन लघुपूर्वात् परस्य णिच्-प्रत्ययस्य अय्-आदेशः भवति | 
- विरच् + णिच् इत्यत्र वि-उपसर्गपुर्वकः रच्-धातुः लघुपूर्वः यतः अस्य धातोः उपधायां लघुस्वरः वर्तते | अस्मात् लघुपूर्वात् परः अस्ति णिच्-प्रत्ययः | 
- अतः लघुपूर्व-रच्-धातोः परस्य णिच्-प्रत्ययस्य स्थाने अय् इति आदेशः ल्यपि लघुपूर्वात् इत्यनेन | विरच् + णिच् + ल्यप् → विरच् + अय् + ल्यप् |
- आहत्य, वि + रच + णिच् + ल्यप् → वि + रच् + इ + ल्यप् → वि + रच् + अय् + य → विरचय्य इति ल्यबन्तरूपम् ।
- तथैव, चुरादिगणस्य अन्येषाम् अदन्तानां धातूनां ल्यबन्तरूपाणि अपि -- प्रकटय्य, प्रकथय्य, परिगणय्य इत्यादीनि |

महत्वपूर्ण प्रश्न

प्रश्नः
"पुत्री मात्रा प्रशंसिता" उत "पुत्री मात्रा प्रशस्ता" -- अनयोः कः प्रयोगः साधुः ?

उत्तरम्
"पुत्री मात्रा प्रशस्ता" इत्येव साधुः प्रयोगः |
- शंसु स्तुतौ इति भ्वादिगणीयः, सेट्, नोपधः धातुः | उपधायां नकारः यस्य, सः नोपधः | अयं अनिदित् धातुः; इत् इत्संज्ञकः नास्ति यस्य, सः अनिदित् |
- शंसु इत्यस्मिन् उपधायां यः अनुस्वारः दृश्यते सः अनुस्वारः मूले नकारः एव | अतः शंसु इति नोपधः धातुः | अनुबन्धलोपानन्तरं शंस् इति अवशिष्यते |
- सार्वधातुकलकारेषु अस्य प्रशंसति, प्रशंसतु इत्यादीनाम् अनुस्वारघटितरूपाणां प्रसिद्धत्वात् क्तान्तरूपं प्रशंसिता/प्रशंसितः इति भ्रान्तिर्जायेत |
- किन्तु शंस्-धातुतः क्त-प्रत्यये विहिते अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन सूत्रेण शंस्-धातोः उपधायां स्थितस्य अनुस्वारस्य(नकारस्य) लोपः |
- क्त-प्रत्ययः आर्धधातुकः, सेट् च कित् प्रत्ययः | क्तक्तवतू निष्ठा (१.१.२६) इत्यनेन सूत्रेण क्तप्रत्ययस्य क्तवतुप्रत्ययस्य च निष्ठासंज्ञा |
- प्र + शंस् + क्त इत्यस्यां दशयां क्त-प्रत्ययस्य कित्त्वात्, शंस्-धातोः अनिदित्त्वात् अनिदितां हल उपधाया क्ङिति इत्यनेन शंस्-धात्वङ्गे उपधाभूतस्य अनुस्वारस्य लोपः, प्र + शस् + त |
- शस्-धातुः च क्त-प्रत्ययः यद्यपि सेटौ तथापि यस्य विभाषा (७.२.१५) इत्यनेन सूत्रेण निष्ठासंज्ञकस्य क्त-प्रत्ययस्य इडागमः निषिद्धः, प्र + शस् + त → प्रशस्त |
- 
यस्य विभाषा (७.२.१५) इत्यनेन यस्य धातोः इडागमः वैकल्पिकः क्वचित्‌ अपरेषु प्रत्ययेषु, तस्य निष्ठासंज्ञकप्रत्यये परे इडागम-निषेधः | शंस्‌-धातुः तादृशः, अतः निष्ठायाम्‌ इडागमो न भवति |   - आहत्य प्र + शंस् + क्त → प्र + शस् + त  → प्रशस्त इति प्र-उपसर्गपूर्वकस्य शंस्-धातोः क्तान्तरूपं सिद्धम् | स्त्रीलिङ्गे प्रशस्ता, पुंलिङ्गे प्रशस्तः, नपुंसकलिङ्गे प्रशस्तम् |
- अनया एव प्रक्रियया निष्ठासंज्ञके, आर्धधातुके, कित्-क्तवतु-प्रत्यये परे अपि शंस्-धातोः अनुस्वारस्य लोपः, इडागमस्य निषेधः च; प्रशस्तवान्/प्रशस्तवती इति क्तवत्वन्तं रूपम् |
- शस्-धातुतः क्त्वा-प्रत्यये परे न क्त्वा सेट्‌ (१.२.१८) इत्यनेन क्त्वा-प्रत्ययस्य कित्त्वं वैकल्पिकम् इत्यनेन प्रशंसित्वा, प्रशस्त्वा इति रूपद्वयम् अपि साधु |
- अपरेषु कित्-भिन्नेषु स्थलेषु अनुस्वारः नित्यः | यत्र अर्हः तत्र इडागमः अपि | यथा तुमुन्-प्रत्यये परे प्रशंसितुं, ण्वुल्-प्रत्यये परे प्रशंसकः-प्रशंसिका इत्यादीनि रूपाणि शंस्-धातोः |
- लटि, लोटि इत्यदिषु सार्वधातुकलकारेषु शंस्-धातुतः शप्-विकरणप्रत्यये विहिते, शपः अकित्त्वात् अनुस्वारस्य लोपः न जायते, प्रशंसति इत्यादीनि रूपाणि | 

शुक्रवार, 20 जनवरी 2017


यत्र सार्वधातुकलकाराणां आर्धधातुकलकाराणां च विषयः उदेति, केचन पारिभाषिकशब्दाः अवगन्तव्याः |

१. सार्वधातुकलकाराः = लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ च | (किमर्थमिति अधः उच्यते |)

२. सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते-- धातुः + विकरणप्रत्ययः + तिङ्‌प्रत्ययः | यथा भू + शप्‌ + ति |

३. विकरणं नाम किम्‌ इति तु वयं जानीमः एव; प्रथमपाठे (धातुगण-परिचये) विस्तरेण चर्चितम्‌ | तिङ्प्रत्ययः कः इत्यपि प्रायः एतावता किञ्चित्‌ ज्ञातम्‌;अस्मिन्‌ पाठे बहु किमपि वक्ष्यते | भू + शप्‌ + ति इत्यस्मिन्‌ ति "तिङ्‌"-प्रत्ययः इति | सर्वेषां‍ तिङ्प्रत्ययानां मूलरूपाम्‌ अस्ति | 

परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः
तिप्‌    तस्‌    झि
सिप्‌    थस्‌    थ
मिप्‌    वस्‌    मस्‌‍

आत्मनेपदिधातूनां मूल-तिङ्‌प्रत्ययाः
त     आताम्    झ
थास्‌  आथाम्‌   ध्वम्‌
इड्‌    वहि      महिङ्‌

अत्र प्रथमप्रत्ययः तिप्‌ अस्ति अतः सामूहिकरूपेण एते प्रत्ययाः तिबादयः इति उच्यन्ते | अपि च आत्मनेपदे अन्तिमप्रत्ययः महिङ्‌ अतः तिप्‌ इत्यस्मात्‌ आरभ्य महिङ्‌ पर्यन्तं, तिप्‌-तः महिङ्-अन्त्यः‌, आहत्य तिङ्‌ इत्येषां प्रत्ययानां नाम |

क्रियापदानाम्‌ अन्तिमभागः तिङ्‌प्रत्ययः एव, अतः क्रियापदं तिङन्तपदम्‌ इति उच्यते |

४. तिङन्तपदस्य निर्माणसमये यः धातोः "अनन्तरम्" आयाति सः प्रत्ययः इति अवगच्छतु | सूत्रत्रयेण अयं बोधो भवति— धातोः (३.१.९१), प्रत्ययः(३.१.१), परश्च (३.१.२) | धातुः प्रथमः, धातोः 'अनन्तरं' विकरणम्‌ अतः विकरणं प्रत्ययः | तथैव तिङ्‌ अपि; धातोः अनन्तरं तिङ्‌ आयाति अतः तिङ् ‌अपि प्रत्ययः | तर्हि प्रथमं धातुः अस्ति, तदा प्रत्ययस्य आगमनम्‌ | अस्याः आगमनक्रियायाः व्यक्तीकरणार्थं प्रत्ययस्य विधानम्‌ इत्युच्यते | विधानं, विधीयते,विहितः—सर्वं समानम्‌ | प्रत्ययः यदा आगच्छति‌, तदा प्रत्ययस्य विधानम्‌, प्रत्ययः विधीयते, प्रत्ययः विहितः चेत्युच्यते |

५. अङ्ग-शब्दस्य विशेषार्थः व्याकरणे | कस्मात्‌ अपि प्रत्ययात्‌ प्राक्‌ यः भागः अस्ति, सः अङ्गम्‌ इत्युच्यते | अतः विकरणप्रत्ययस्य कृते धातुः इति अङ्गम्‌ | तिङ्‌प्रत्ययस्य कृते धातुः + विकरणप्रत्ययः, तयोः संयुक्तरूपम्‌ इति अङ्गम्‌ | अतः भू + शप्‌ + ति इत्यस्मिन्‌ उदाहरणे शप्‌-प्रत्ययस्य कृते भू-धातुः अङ्गम्‌ अस्ति | ति-प्रत्ययस्य कृते भू + शप्‌ + ति → भव + ति | भू शप्‌ चेत्यनयोः संयुक्तरूपं भव | ति इत्यस्मात्‌ पूर्वं यावत्‌ अस्ति, तत्‌ सर्वम्‌ अङ्गम्‌ अतः ति इत्यस्य कृते अङ्गं भव इति | पुनः वद्‌ + अ + ति इति स्थितौ, अ (शप्‌) इत्यस्य दृष्ट्या वद्‌ इति अङ्गम्‌; ति इत्यस्य दृष्ट्या वद (वद्‌ +अ) इत्यङ्गम्‌ |

परं द्रक्ष्यामः यत्‌ अङ्गं च प्रत्ययः च, द्वयोः कार्य-कारण-सम्बन्धः भवति | आधिक्येन अङ्गे कार्यं क्रियते; तस्य कार्यस्य कारणम्‌ अस्ति परे स्थितः प्रत्ययः | यथा भू + शप्‌ → भू + अ | अत्र भू + अ → भो + अ इति गुणकार्यं भवति | तस्य गुणकार्यस्य कारणं शप्‌-प्रत्ययः | अस्य कार्य-कारण-सम्बन्धस्य कृते निमित्तम्‌ इति उच्यते | अतः भू-धातौ यत्‌ अङ्गकार्यं भवति, तदर्थं शप्‌ निमित्तम्‌ अस्ति, इत्युक्ते शप्‌ कारणम्‌ अस्ति | अपि च अस्मिन्‌ एव अर्थे वदामः यत्‌ भू-धातौ यत्‌ अङ्गकार्यं भवति, तत्‌ शपं निमित्तं मत्वा अङ्गकार्यम्‌, अथवा शप्‌-निमित्तीकृत्य अङ्गकार्यम्‌, अथवा शप्‌-निमित्तकम्‌ अङ्गकार्यम्‌ इति | (कदाचित्‌ प्रत्यये कार्यं क्रियते न तु अङ्गे, यथा इडागमविषये | अग्रे गत्वा तादृशप्रसङ्गोऽपि परिशीलयिष्यते |)

६. तिबादीन्‌ निमित्तीकृत्य धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यते, तस्य अन्तिमः वर्णः अकारः अस्ति चेत्‌, अङ्गम्‌ अदन्तम्‌ इत्युच्यते | (अत्‌ इत्युक्ते ह्रस्वः अकारः; तपरस्तत्कालस्य इति सूत्रेण तकारे परे सति प्राक्‌ यः स्वरः, तस्य एव कालस्य सङ्केतः | अत्‌ + अन्तम्‌ = अदन्तम्‌ |) धातु-विकरणयोः मेलनेन निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत्‌, अङ्गम्‌ अनदन्तम्‌ इत्युच्यते |

७. धातूनां दश गणाः सन्ति इति तु ज्ञातम्‌ | दश धातुगणाः पुनः विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम्‌ | येषु धातुगणेषु अङ्गम्‌ अदन्तं भवति, ते धातुगणाः प्रथमगणसमूहे वर्तन्ते | येषु धातुगणेषु अङ्गम्‌ अनदन्तं भवति, ते धातुगणाः द्वितीयगणसमूहे वर्तन्ते |

प्रथमगणसमूहः = भ्वादिगणः, दिवादिगणः, तुदादिगणः, चुरादिगणः
द्वितीयगणसमूहः = अदादिगणः, जुहोत्यादिगणः, स्वादिगणः, रुधादिगणः, तनादिगणः, क्र्यादिगणः

८. दश लकाराः अपि गणद्वये विभक्ताः—सार्वधातुक-लकाराः आर्धधातुक-लकाराः च |

तयोः भेदः कः ? क्रियापदस्य निर्माण-क्रमे सर्वप्रथमम्‌ अस्माकं विवक्षानुगुणम्‌ धातुः आनीयते | यथा, वद्‌ इति धातुः | तदा पुनः विवक्षानुगुणं लकारः आनीयते, यथा लट्‌-लकारः | वद्‌ + लट्‌ | परं लाटः स्थाने तिबादयः आनीयन्ते यथेच्छम्, यथा प्रथमपुरुषैकवचने तिप्‌ | पकारस्य इत्‌-संज्ञा लोपश्च, ति अवशिष्यते | वद्‌ + ति | अत्र सर्वमहत्त्वपूर्णसिद्धान्तः—वद्‌ ति इत्यनयोः सम्पर्कः अस्ति, स्पर्शः अस्ति यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति |अत्र वदामः यत्‌ वद्‌-धातुना ति-प्रत्ययः "दृश्यते" | दृश्यते यतः तयोः मध्ये बाधा नास्ति, अन्यः कोऽपि प्रत्ययः नास्ति | येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुक-तिङ्‌प्रत्ययः दृश्यते, अपि च सः तिङ्‌प्रत्ययः कर्त्रर्थे अस्ति, तत्र सः लकारः सार्वधातुक-लकारः इति उच्यते | क्रियापदस्य निर्माणक्रमे धातुना तिङ्‌प्रत्ययः न दृश्यते चेत्‌, सः लकारः आर्धधातुक-लकारः |

सार्वधातुक-लकाराः— लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌
आर्धधातुक-लकाराः— लिट्‌, लुट्‌, लृट्‌, आशीर्लिङ्‌, लुङ्‌, लृङ्‌

९. अयं भेदः नितरां महत्त्वपूर्णः यतः धातुना तिङ्प्रत्ययः दृश्यते चेत्‌, तर्हि तेन एव सम्पर्केण विकरणप्रत्ययः विहितः अस्ति | एकैकस्य गणस्य स्वस्य पृथक्‌ विकरणप्रत्ययः (विकरणलोपो वा) इति अस्माभिः प्रथमपाठे दृष्टम् | तेन विकरणभेदेन तिङन्तरूपाणि भिद्यन्ते | तर्हि भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकरणप्रत्ययानां कारणेन | गणस्य लक्षणं प्रत्ययेन ज्ञायते | अतः अत्र अवधेयम्‌—विकरणप्रत्ययाः यत्र आयान्ति, तत्र धातोः तिङन्तरूपस्य ज्ञानार्थम्‌, धातुः कस्मिन्‌ गणे अस्ति इति अवश्यं बोध्यम्‌ | केषु लकारेषु विकरणप्रत्ययाः आयान्ति ? यत्र कर्त्रर्थे धातुना तिङ्प्रत्ययः दृश्यते | तत्‌ कुत्र ?सार्वधातुकलकारेषु इति | आर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यते, अतः विकरणप्रत्ययः नायाति | विकरणप्रत्ययः नायाति अतः तत्र गणभेदेन तिङन्तभेदः न जायते | फलितार्थः एवं यत्‌ सार्वधातुकलकारेषु गणीया चर्चा करणीया; आर्धधातुकलकारेषु गणीया चर्चा नापेक्षिता | तत्र गणस्य विषयः नायाति एव |

उदा--
सार्वधातुक-लकारः लट्‌

* वद्‌ + लट्‌ →
* वद्‌ + ति →
* वद्‌ + शप्‌ + ति →
* वद्‌ + अ + ति →
* वदति

उपरितने क्रमे धातुना तिङ्प्रत्ययः ति "दृश्यते" (वद्‌ + ति) | नाम मध्ये काऽपि बाधा, किमपि व्यवधानं नास्ति | धातुना तिङ्प्रत्ययः दृश्यते इति कारणतः कर्तरि शप् इत्यनेन सूत्रेण मध्ये विकरण-प्रत्ययः शप्‌ विहितः | भ्वादिगणे शप्‌ तिष्ठति; अपरेषु गणेषु शपं प्रबाध्य तत्तत्‌ गणे अन्ये विकरणप्रत्ययाः आयान्ति | एतदर्थं सार्वधातुकलकारेषु धातुः कस्मिन्‌ गणे अस्ति इति ज्ञातव्यम्‌ |

आर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थं नायाति इत्यत्र किञ्चित्‌ पश्येम—

आर्धधातुक-लकारः लृट्‌

* वद्‌ + लृट्‌ →
* वद्‌ + स्य + लृट्‌ →
* वद्‌ + स्यति →
* वद्‌ + इ + स्यति →
* वदिष्यति

उपरितने क्रमे प्रथमं स्य प्रत्ययः आयाति, तदा एव ति आयाति | तत्र धातु-ति इत्यनयोः मध्ये स्य अस्ति इति कारणेन धातुना ति न दृश्यते (वद्‌ + स्यति) | मध्ये स्य अस्ति अतः बाधा अस्ति, व्यवधानम्‌ अस्ति | धातुः तिङ्प्रत्ययं "ति" द्रष्टुं न शक्नोति; धातुः केवलं "स्य" पश्यति | धातुना तिङ्प्रत्ययः ति न दृश्यते इति कारणतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति (यदा हि ति दृश्यते तदा हि कर्तरि शप्), अतः मध्ये विकरण-प्रत्ययः नायाति | विकरण-प्रत्ययः न विहितः इति कारणेन गणीयः विचारः नापेक्षितः | धातुः यस्मिन्‌ कस्मिन्‌ अपि गणे भवतु, कार्यं समानमेव | अतः आर्धधातुकलकारेषु गणस्य ज्ञानं नापेक्षितम्‌ | किन्तु आर्धधातुकलकारेषु अन्यत्‌ कार्यम्‌ अस्ति | पश्यन्तु रूपं कथम्‌ अस्ति— "वदिष्यति" इति | अत्र मध्ये इकारः आगतः अस्ति वद्‌-इ-ष्यति | यद्यपि आर्धधातुकलकारेषु गणीयः विचारः नापेक्षितः, किन्तु इडागमस्य विचारः अपेक्षितः एव | स च विषयः अग्रे आयास्यति |

१०. सार्वधातुकलकारः अस्ति चेत्‌, धातु-विकरणायोः अङ्गं भवति; तच्च अङ्गम्‌ अदन्तम्‌ अनदन्तं वा इत्युक्तम्‌‌ | अस्मिन्‌ पाठे सार्वधातुकलकाराः (लट्‌,लोट्‌, लङ्‌, विधिलिङ्‌) परिशीलयिष्यन्ते यत्र अङ्गम्‌ अदन्तम्‌ अस्ति | अङ्गम्‌ अदन्तं केषु गणेषु ? भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च |यतः एषां चतुर्णां गणानाम्‌ अङ्गम्‌ अदन्तम्‌, अतः एषां सिद्ध-तिङ्प्रत्ययाः समानाः | अस्य पाठस्य तृतीयाध्याये चतुर्थाध्याये च एते सिद्ध-तिङ्प्रत्ययाः निष्पन्नाः भवन्ति | अदन्तम्‌ अङ्गम्‌ + सिद्ध-तिङ्प्रत्ययः = तिङन्तपदं (क्रियापदम् इति) | यथा वद्‌ + शप्‌ → वद्‌ + अ → वद इति अदन्तम्‌ अङ्गम्‌;तिप्‌ → पकारस्य इत्-संज्ञा लोपश्च → ति इति सिद्ध-तिङ्प्रत्ययः; वद + ति → वदति इति तिङन्तपदम्‌ | तथैव वद + तः = वदतः, वद + अन्ति = वदन्ति इति | आहत्य भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च 1700 धातवः सन्ति | एवं च अस्मिन्‌ पाठे कण्ठस्थीकरणेन विना 1700 धातूनां लट्‌, लोट्‌,लङ्‌, विधिलिङ्‌ इत्येषां तिङन्तरूपाणि ज्ञास्यन्ते | अत्र अस्ति मातुः पाठस्य वैलक्षण्यम्‌ !


एवं च दीक्षितपुष्पायाः पाणिनीय-धातुपाठः अत्यन्तं शक्तिशाली | कश्चन बोधोऽस्ति चेत्‌, बहूनि क्रियापदरूपाणि ज्ञातुं शक्नुमः | अग्रे अङ्गं कथं निष्पाद्यते, तिङ्प्रत्ययाः कथं साधनीयाः, अपि च अङ्ग-तिङ्प्रत्यययोः मेलनं कथं कार्यते इत्येषु विषयेषु चर्चयिष्यामः |

प्रवेश सूचना