मंगलवार, 3 जनवरी 2023


समासशक्तिविमर्शः


यस्मिन् समुदाये पदद्वयं  वा पदत्रयं  वा परस्परं समस्यते स  समदायः  समासः   इति । प्राक्कडारा समासः[i]- समासस्य समासान्ताः[ii]  इत्यादिसूत्रेषु  समासशब्दः  भगवता सूत्रकारेण पाणिनिमहर्षिणा प्रयुक्तः ।  समास इति संज्ञा  अन्वर्था ।  समसनं समासः  संक्षेपः इत्यर्थः । संपूर्वक–असु क्षेपणे धातोः भावार्थे  घञि प्रत्यये सति कुगतिप्रादयः[iii]  इति सूत्रेण गतिसमासे समास इति पदं प्रादुर्भवति । यथा भोजस्य राज्यम् भोजराज्यम् । भोज डस् राज्य सु  इत्येवं स्थितयोः भिन्नशब्दयोः   विभक्तिलोपादीना  संक्षिप्तरुपमेव भगवता  पाणिनिना  दर्शितम् ।  अस्माकं लोकेऽपि  ससासशब्दस्य  संक्षेपकार्थत्वं प्रसिद्धमस्ति । अतः पदानां लाघवेन  बहुपदप्रयोगाय इयं समासप्रक्रिया 99 सूत्रैः  महर्षि पाणिनिः अष्टाध्य्यायीग्रन्थे उपदिदेश । परञ्च  महर्षिपाणिनिना  समासं परिभाषयितुं  सुस्पष्टतया किमपि सूत्रम् अत्र नोक्त्तम् ।

 समर्थः पदविधिः-[iv]   अस्मिन् सूत्रे कृतद्धितसमासैकशेषसनाद्यन्ता पञ्चवृत्तयः । लोके वृत्तिशब्दः सर्वत्र व्यापारबोधकः  एव प्रचलति । तथा च शास्त्रेपि वृत्तिशब्दः  व्यापारबोधक एव परञ्च शास्त्रविषये किञ्चित् मतवैविद्धयं वर्तते । तस्यैव व्यापारस्यैकार्थीभावसामर्थ्यमिति शास्त्रे  व्यवह्यियते ।  एकार्थीभावरुपा वृत्तिः कृदादिपञ्चवृत्तिषु वर्तते  इति । समर्थः पदविधिः इति सूत्रकारेण उपदिष्टम् । तेन  वृत्तिपञ्चकस्य  पदविधिरिति व्यवहारः सिद्धमिति । तत्र  पदविधिर्नाम् विधीयते असाविति विधिः वि पूर्वक  धाञ्धातोः  उपसर्गे घो किः[v]   इति सूत्रेण कर्मणि किप्रत्यये विधिरिति भवति । तदनन्तरं पदानां  विधिरिति शेषषष्ठ्यन्तेन समासः । सम्बन्धास्तु उद्देश्यविधेयरुपः पदोदेश्यविधिरिति यावत् । तथा  च पदानां सतां विधियमानो यः  समाससंज्ञादिः स पदविधिरिति निर्गलितोऽर्थः , सङ्गताश्चासौ अर्थश्च समर्थ इति प्रादिसमासः । सङ्गतशब्दः  एकीभूतार्थबोधकः।सङ्गतं तैलं  सङ्गतं घृतमित्यादौ तथा दर्शनात् । तथा च समर्थः एकीभूतार्थः इति वाच्यार्थे निष्पन्ने लक्षणया एकीभूतार्थबोधकशब्दाश्रित इत्यर्थं  संपद्यते । एवं रीत्या पृथगर्थानामेकोपस्थिति जनकत्वमेकार्थीभावः । सूत्र प्रयोजनं तु पदानां समासव्याप्तिः एवमेव संसृष्टचासौ अर्थश्च  समर्थ  इति ।

                                                            व्यपेक्षारुपसार्थ्यमपि समर्थः पदविधिरिति सूत्रेणैव बोध्यते । व्यपेक्षायां संप्रेक्षितार्थस्समर्थः सम्बद्यार्थः समर्थ इति व्युत्पत्तिः । समासः षड्प्रकारको  भवतीति साधितं कौण्डभट्टेन –

                                                सुपां सुपा तिङां नाम्ना धातुनाऽथ तिङां तिङा ।

                                                सुबन्तेनेति     ज्ञेयः   समासः   षड्विधो    बुधैः ।।[vi] 

 एतद्विवरणं सोदाहरणं  उपस्थाप्यते-

(१)        सुपां सुपा- सुबन्तस्य सुबन्तेन स समासः – राजपुरुषः कृष्णाश्रितः नखभिन्नः इत्यादौ

(२)        सुपां तिङा- सुबन्तस्य तिङ्न्तेन सह समासः । यथा- अनुव्यचलत्, पर्यभूषयत् । अत्र परि इति सुबन्तस्य  अभूषयत्  इति तिङन्तेन सह समासः । उदात्तगतितमा च तिङन्तेनाव्ययं समस्यते इति  वार्तिककार्थः  अव्यस्योदात्तवता तिङन्तेन समासः ।

(३)        सुपां नाम्ना- सुबन्तस्य नाम्ना सह समासः । अत्र नामपदेन प्रातिपदिकस्य ग्रहणं न तु सुबन्तस्य  अन्यथा सह सुपा [vii]  इति सूत्रेणैव समाससिद्धौ नाम्नेति पुनुरुक्तिस्यात् । अतः  प्रातिपदिकेनैव  समासः । यथा कुम्भकारः । अत्र कुम्भम्  इति सुबन्तस्य  कार  इति नाम्ना समासः । अत्र गतिकारकोपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः समासो भवति ।

(४)        सुपां धातुना-  अत्र उत्तरपदं न सुबन्तं नापि तिडन्तम्  ।सुबन्तस्य धातुना सह समासः । यथा कटप्रूः । कटं प्रवते इति विग्रहः कटम्  इति सुबन्तस्य गत्यर्थकप्रङ्धातुना सह समासः । अत्र कर्तरि क्वपि  इति सूत्रेण  क्विपविधानेन प्रयोगः सिद्धयति ।

(५)        तिङां तिङा- अत्र तिङन्तस्य तिङ्न्तेन सह समासः आख्यातमाख्यातेन क्रियासातत्ये इति  इति गणसूत्रम् । क्रियासात्सयं नाम क्रियायाः पौनः पुण्यम् । यथा पिबतखादता  पचतभृज्जतेत्यादिः । पिबतखादतेति सततं यस्यां क्रियायामधिधत्ते , सा पिबतखादतेत्यर्थः ।

(६)        तिङां सुपा- अत्र पूर्वपदं तिङन्तम् उत्तरपदं तु सुबन्तम्  तिङ्न्तस्य सुबन्तेन सह समासः । तथा- जहिस्तम्बः, जहिजोडः इत्यादि । अत्र जहीत्येतत् तिङन्तं, स्तम्बेति सुबन्तेन सह समासः ।

                    एवमेव षड्विधप्रकारको ससासः ग्रन्थकारेण निरुपितः ।  अनन्तरं सामर्थ्यविषये उक्तम् ।  सामर्थ्यं द्विविधं भवतीति ।

(क)   व्यपेक्षालक्षणम्

(ख)   एकार्थीभवलक्षणम्

व्यपेक्षालक्षणम्-  एतत् विषये कैयटेन महाभाष्यप्रदीपे  उक्तम्-  परस्पराकाक्षा रुपा व्यपेक्षा[viii]  । तथा च व्यपेक्षालक्षणमेकार्थीभावलक्षणञ्च सामर्थ्यं विषये परिभाषान्नाह तत्वबोधिनीकारः- स्वार्थपर्यवसायिनां पदानामकाङ्क्षादिवशाद्य परस्परसम्बन्धः स व्यपेक्षा[ix] यथा राज्ञः पुरुष इत्यादिवाक्ये । अस्मिन पक्षे  प्रत्येकं पदं परस्परं साकाक्षं भवति ।

 एकार्थीभावलक्षणम्-  एतत् विषये पूर्वोक्तम्  अत्रैव  एकार्थीभावस्तु- राजपुरुष इत्यादिवृत्यावेव । पृथगर्थानामेकार्थीभाव[x] इति भाष्यप्रदीपे  उक्तम् ।  स चैकार्थीभावः प्रक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थत्वरुपः । विग्रहवाक्ये तत्तपदैः पृथक्तया प्रतिपाद्य  राजाद्यार्थाः पृथगर्थाः समासे पुनस्त एवार्था एकार्थतां लभन्ते । अतएव तदेव यत्किञ्चित्पदजन्यपृथगुपस्थितविषयत्वेन लोकदृष्टानामार्थानां विशिष्टविषयैककशक्त्यधीनोपस्थितिविषयत्वमेवैकार्थीभाव इति फलति ।

                वैयाकरणभूषणसारग्रन्थे ग्रन्थकारेण समसशक्तौप्रकरणे तत्पुरुषादिसमासानां लक्षणनिरुपणप्रसंङ्गे-‘’ पूर्वपदार्थप्रधानोऽव्यीभावः उत्तरप्रधानतत्पुरुषः’’  इत्यादि लक्षणस्यातिव्याप्त्यव्याप्तादिदोषेण दूषितत्वात् तेषां लक्षणामनां प्रायिकत्वमूहितम् ।

                                     समासवृत्तिः जहत्स्वार्थाऽजहत्स्वार्थेति भेदेन द्विविधा । अनयोः वत्योः क्रमशः एकार्थीभावव्यपेक्षारुपयोः पर्यवसानं लभ्यते ।

जहत्स्वार्था जहति स्वानिवृत्तिघटकपदानि समर्थ स जहत्वस्वः, तादृशोऽर्थो   यस्यां सा जहत्स्वार्था । स्वशब्दोऽत्रार्थात्मीयपरः । अर्थस्यत्मीयञ्च पदमेव । तथा च जहत्स्वार्थत्वमेव व्यपेक्षा । राजपुरुषः  इत्यादौ समासशक्तैव राजविशिष्टपुरुषभानसंभवे न राजपुरुषपदयोरपि पुनस्तद्धोधकत्वं कल्प्यम, वृषभयावकादिपदेषु वृषादिपदानामिव ।

                       अजहत्स्वार्था- न जहति पदानि स्वार्था यस्यां साऽजहत्स्वार्था ।  अस्मिन् पक्षे  कल्पनाभावात् राजपुरुषादौ नातिरिक्ता शक्तिः कल्पते ।  अवश्यक्लृन्तिप्रत्येकावयवशक्तैव बोधनिर्वाहे पुनः समुदाये शक्तिकल्पनस्य गौरवेण निरस्तत्वमित्यर्थः । अयमेव व्यपेक्षापक्षो भाष्यकारेण समर्थसूत्रे संसाधितः ।

                           जहत्स्वार्थाऽजहत्स्वार्थरुपे इमे द्वे अपि वृत्ति भेदः , संसर्गः, उभयञ्चेति भेदेन त्रिविधे ।   यथोक्तम् –

                                          जहत्स्वार्थाऽजहत्सवार्थे द्वे वृत्ति ते पुनस्त्रिधा ।

                                          भेदः   संसर्ग   उभयं   वेति  वाच्यव्यवस्थितेः ।।[xi]

तत्र भेदोऽन्योन्यभावः . तथा राजपुरुषः इत्यादावराजकोयभिन्नपुरुष इति बोधः । यद्यत्र भेदो वाच्यो न स्यात्तदा राजपुरुषः सुन्दरः  इत्यस्य यो राजस्वामिकः  पुरुष स देवदेवदत्तस्वामिकोऽपीति बोधः स्यात् ।                  

                                  वस्तुतः राजपुरुषः इत्यनेन प्रथमतः  राजसम्बन्धवान् इत्येव शाब्दं भानं भवति । अराजकीयभिन्न इत्यादिभेदस्तूत्तरकालमुपतिष्ठते । अतः प्रथमोपस्थितरुपान्तरङ्गत्वात् संसर्ग एव वाच्यः , भेदस्तु तात्पर्यग्राहकसापेक्षत्वेन बहिरङ्गत्वान्न वाच्यः, किन्त्वार्थिक  एवेति भावः । संसर्गस्य  भेदाविनाभावित्वात् संसर्गेण हेतुना  भेदोऽनुमीयत इति भावः, तथा च अनुगम्य एव भेदो न तु शाब्दः ।

                    

शिवब्रह्मनारायप्रतापः

प्राचार्य

श्री सदगुरु संकल्प संस्कृत वेदविद्यापीठ आन्नदपुर 464114 

   संदर्भग्रन्थसूची



[i] पा.अ. 02-01-03

[ii] पा.अ.05-04-68

[iii] पा.अ.02-02-18

[iv] पा.अ.02-01-01

[v] पा.अ.03-03-39

[vi] वै.भू. सा.

[vii] पा.अ02-01-04

[viii] महाभाष्यप्रदीपः02-01-01

[ix] वैयाकरणसि.अव्ययीभावः(तत्वबोधिनी) पृ.सं.203

[x] महाभाष्यप्रदीप

[xi] वै.भू.सा. समासशक्तिनिर्णयः-3

समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं   वा पदत्रयं   वा परस्परं समस्यते स   सम ु दायः   समासः    इति । प्राक्कडारा समासः [i] - समासस...