पाणिनीय-व्याकरणम्‌— नवीना दृष्टिः

                माहेश्वराणि सूत्राणि

ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्तिसर्वप्रथमं भीतिः मास्तु अस्मिन्‌ सारल्यम्‌ अस्तिअपि च सौन्दर्यम्‌ अधुना यत्‌ अधः लिखितम्‌ अस्ति तत्‌ पठित्वा यावत्‌ शक्यम्‌ अवगच्छतुअग्रे गत्वा पाठेषु एषां सूत्राणां महत्त्वं प्रकटं भविष्यति इमानि चतुर्दश माहेश्वराणि सूत्राणि—

अ इ उण्‌ ऋ ऌक्‌ ए ओङ्‌ ऐ औच्‌ ह य व रट्‌ लण्‌ ञ म ङ ण नम्‌ झ भञ्‌ घ ढ धष्‌ ज ब ग ड दश्‌ ख फ छ ठ थ च ट तव्‌ क पय्‌ श ष सर्‍ हल्‌ |

उपरि चतुर्दश "वाक्यानिलिखितानिप्रत्येकं वाक्यम्‌ एकं सूत्रम्‌ |

सर्वे वर्णमालां जानीयुः अत्र वर्णमालायाः नूतनम्‌ आयोजनम्‌ इति चिन्तयन्तु आयोजनस्य आधारः प्रत्याहारः |

प्रत्याहारः इत्युक्तौ वर्णानां समूहः प्रत्येकं प्रत्याहारस्य अन्ते इत्‌-संज्ञक-वर्णः स्थितः अयम्‌ इत्‌-संज्ञक-वर्णः प्रत्याहारस्य सीमारेखा भवति प्रत्याहारः नाम सङ्ग्रहःअस्मिन्‌ सङ्ग्रहे इत्‌-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम्‌ ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति तदा अपगच्छन्ति |

यथा—
अण्‌ 
ऋक्‌ 
अक्‌ 
एङ्‌ 
एच्‌ 
झष्‌ 
जश्‌ 
अच्‌ औ (सर्वे स्वराः)
हल्‌ सर्वाणि व्यञ्जनानि
अल्‌ सर्वे वर्णाः (सर्वे स्वराः सर्वाणि व्यञ्जनानि)

अवधेयम्—
स्वराः
ऋ एषु प्रत्येकम्‌ अष्टादशानां वर्णानां प्रतिनिधिः (ह्रस्वःदीर्घःप्लुतःउदात्तःअनुदात्तःस्वरितःअनुनासिकःअननुनासिकः च | 3 x 3 x 2 = 18 |) यथा अनुनासिक-उदात्त-ह्रस्व-अकारःअननुनासिक-उदात्त-ह्रस्व-अकारःअनुनासिक-अनुदात्त-ह्रस्व-अकारःअननुनासिक-अनुदात्त-ह्रस्व-उकारःअनुनासिक-स्वरित-ह्रस्व-कारःइत्यादीनि रूपाणि |
ऌ अयं द्वादशानां प्रतिनिधिः (यतः अस्य वर्णस्य दीर्घरूपं नास्ति | 2 x 3 x 2 = 12 |)
औ एषु प्रत्येकम्‌ द्वादशानां वर्णानां प्रतिनिधिः (यतः एषां ह्रस्वरूपं नास्ति | 2 x 3 x 2 = 12 |)

व्यञ्जनानि
उच्चारणार्थं‌ सर्वेषु एव हल्‌-वर्णेषु अकारः योजितः वर्तते माहेश्वरसूत्रेषु वस्तुतः "इत्युक्ते "य्‌", “इत्युक्ते "ब्‌", एवं च सर्वे हल्‌-वर्णाः तथा |

अभ्यासः
अस्माकं सर्वेषां कृते अस्मिन्‌ विषये अभ्यासः अपेक्षितः | यतोहि माहेश्वराणि सूत्राणि च प्रमुखाः प्रत्याहाराश्च मनसि सन्ति चेत्‌ महान्‌ लाभः | 
                                                          
संस्कृतसेवकः 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं   वा पदत्रयं   वा परस्परं समस्यते स   सम ु दायः   समासः    इति । प्राक्कडारा समासः [i] - समासस...