पाणिनीय-व्याकरणम्‌— नवीना दृष्टिः

                माहेश्वराणि सूत्राणि

ये माहेश्वरसूत्राणां प्रसङ्गे न जानन्ति, सर्वप्रथमं भीतिः मास्तु ! अस्मिन्‌ सारल्यम्‌ अस्ति, अपि च सौन्दर्यम्‌ | अधुना यत्‌ अधः लिखितम्‌ अस्ति तत्‌ पठित्वा यावत्‌ शक्यम्‌ अवगच्छतु; अग्रे गत्वा पाठेषु एषां सूत्राणां महत्त्वं प्रकटं भविष्यति | इमानि चतुर्दश माहेश्वराणि सूत्राणि—

अ इ उण्‌ | ऋ ऌक्‌ | ए ओङ्‌ | ऐ औच्‌ | ह य व रट्‌ | लण्‌ | ञ म ङ ण नम्‌ | झ भञ्‌ | घ ढ धष्‌ | ज ब ग ड दश्‌ | ख फ छ ठ थ च ट तव्‌ | क पय्‌ | श ष सर्‍ | हल्‌ |

उपरि चतुर्दश "वाक्यानि" लिखितानि; प्रत्येकं वाक्यम्‌ एकं सूत्रम्‌ |

सर्वे वर्णमालां जानीयुः | अत्र वर्णमालायाः नूतनम्‌ आयोजनम्‌ इति चिन्तयन्तु | आयोजनस्य आधारः प्रत्याहारः |

प्रत्याहारः इत्युक्तौ वर्णानां समूहः | प्रत्येकं प्रत्याहारस्य अन्ते इत्‌-संज्ञक-वर्णः स्थितः | अयम्‌ इत्‌-संज्ञक-वर्णः प्रत्याहारस्य सीमारेखा भवति | प्रत्याहारः नाम सङ्ग्रहः; अस्मिन्‌ सङ्ग्रहे इत्‌-संज्ञकाः वर्णाः नान्तर्भूताः इति अवधेयम्‌ | ते केवलं प्रत्याहारस्य सीमां कुर्वन्ति | तदा अपगच्छन्ति |

यथा—
अण्‌ = अ, इ, उ
ऋक्‌ = ऋ, ऌ
अक्‌ = अ, इ, उ, ऋ, ऌ
एङ्‌ = ए, ओ
एच्‌ = ए, ओ, ऐ, औ
झष्‌ = झ, भ, घ, ढ, ध
जश्‌ = ज, ब, ग, ड, द
अच्‌ = अ, इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ (सर्वे स्वराः)
हल्‌ = सर्वाणि व्यञ्जनानि
अल्‌ = सर्वे वर्णाः (सर्वे स्वराः + सर्वाणि व्यञ्जनानि)

अवधेयम्—
१. स्वराः
अ, इ, उ, ऋ = एषु प्रत्येकम्‌ अष्टादशानां वर्णानां प्रतिनिधिः (ह्रस्वः, दीर्घः, प्लुतः; उदात्तः, अनुदात्तः, स्वरितः; अनुनासिकः, अननुनासिकः च | 3 x 3 x 2 = 18 |) यथा अनुनासिक-उदात्त-ह्रस्व-अकारः, अननुनासिक-उदात्त-ह्रस्व-अकारः, अनुनासिक-अनुदात्त-ह्रस्व-अकारः, अननुनासिक-अनुदात्त-ह्रस्व-उकारः, अनुनासिक-स्वरित-ह्रस्व-कारः, इत्यादीनि रूपाणि |
ऌ = अयं द्वादशानां प्रतिनिधिः (यतः अस्य वर्णस्य दीर्घरूपं नास्ति | 2 x 3 x 2 = 12 |)
ए, ओ, ऐ, औ = एषु प्रत्येकम्‌ द्वादशानां वर्णानां प्रतिनिधिः (यतः एषां ह्रस्वरूपं नास्ति | 2 x 3 x 2 = 12 |)

२. व्यञ्जनानि
उच्चारणार्थं‌ सर्वेषु एव हल्‌-वर्णेषु अकारः योजितः वर्तते | माहेश्वरसूत्रेषु वस्तुतः "य" इत्युक्ते "य्‌", “ब" इत्युक्ते "ब्‌", एवं च सर्वे हल्‌-वर्णाः तथा |

अभ्यासः
अस्माकं सर्वेषां कृते अस्मिन्‌ विषये अभ्यासः अपेक्षितः | यतोहि माहेश्वराणि सूत्राणि च प्रमुखाः प्रत्याहाराश्च मनसि सन्ति चेत्‌ महान्‌ लाभः | 
                                                          
संस्कृतसेवकः 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

प्रवेश सूचना