शिशुपालवध द्वितीय सर्गः
यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम्। अभिचैद्यं प्रतिष्ठासुर्आसीत्कार्यद्वयाकुलः॥2.1॥
अन्वयः - अथ यियक्षमाणेन पार्थेन
आहूतः अभिचैद्यं प्रतिष्ठासुः मुरं द्विखनं कार्यद्वयाकुलः आसीत् ।
पदच्छेदः – यियक्षमाणेन आहूतः पार्थेन अथ द्विषन् मुरम् अभिचैद्यं
प्रतिष्ठासुरः आसीत् कार्यद्वयाकुलः॥
गुरुकाव्यानुगां बिभ्रत्चान्द्रीमभिनभः श्रियम् ।
सार्धमुद्धवसीरिभ्याम् अथासावासदत्सदः॥2.2॥
अन्वयः –अथ असौ अभिनभः गुरुकाव्यानुगां चान्द्रीं श्रियं बिभ्रत्
उद्धनसीरिभ्यां साद्ध सदः आसदत् ।
पदच्छेदः - गुरुकाव्यानुगां बिभ्रच् चान्द्रीं अभिनभः श्रियम् सार्ध उद्धवसीरिभ्याम् अथ सदः आसदत् ।
जाज्वल्यमाना
जगतःशान्तये समुपेयुषी।
व्यद्योतिष्टसभावेद्याम्
असौ नरशिखित्रयी॥2.3॥
अन्वयः – जगतः
शान्तये समुपेयुषी जज्नल्यमाना असौ नरशिखित्रयी समावद्यां ज्योद्योतिष्ट ।
पदच्छेदः – जाज्वल्यमाना जगतः शान्तये
समुपेयुषी ज्योद्योतिष्ट समावद्यां असौ नरः शिखित्रयी
।।
रत्नस्तम्भेषु संक्रान्त
प्रतिमास्ते चकाशिरे।
एकाकिनोऽपि परितः पौरुषेयवृता
इव॥2.4॥
अन्वयः – रत्नस्तभेषु सङ्क्रान्तप्रतिमाः ते एकाकिनः अपि परितः पौरुषेयवृताः
इव चकाशिरे ।
पदच्छेदः – रत्नः स्तम्भेषु संक्रान्त प्रतिमा आस्ते चकाशिरे एकाकिनः अपि परितः पौरुषेयवृताः इव ।।
अध्यासामासुरुत्तुङ्गह्एमपीठानि
यान्यमी।
तैरूहे
केशरिक्रान्तत्रिकूटशिखिरोपमा॥2.5॥
अन्वयः- अमी यानि उत्तुङ्गहेपीठानि अध्यासामासुः तैः
केसरिक्रान्तत्रिकूटशिखरोपमा ऊहे ।
पदच्छेदः- अध्यासामासु उत्तुङ्गहेमपीठानि यानि अमि तैः ऊहे केशरिक्रान्तः त्रिकूटशिखिरम् उपमा ।।
गुरुद्वयाय
गुरुणोरुभयोरथ कार्ययोः।
हरिर्विप्रतिषेधं तम् आचचक्षे
विचक्षणः॥2.6॥
अन्वयः- अथ विचक्षणः हरिः गुरुणोः उभयोः कार्ययोः तं विप्रतिषेधं आचचक्षे ।
पदच्छेदः - गुरुद्वयाय गुरुणो उभयो रथः कार्ययोः हरिः विप्रतिषेधं तं आचचक्षे
विचक्षणः ।।
द्योतितान्तःसभैः कुन्दक्उड्मलाग्रदतः
स्मितैः।
स्नपितेवाभवत्तस्यशुद्धवर्णा
सरस्वती॥2.7॥
अन्वयः –कुन्दकुङ्मलाप्रमदः तस्य सरस्वती द्योतितान्तः सभै स्मितैः स्रपिता इव शुद्धवर्णा अभवत् ।
पदच्छेद—द्योतितान्तः सभैः कुन्दकुङ्मला प्रमदः स्मितैः स्रपिता इव
तस्य अभवत् शुद्धवर्णा सरस्वती ।।
भवद्गिरामवसरप्रदानाय
वचांसि नः।
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य
वस्तुनः॥2.8॥
अन्वयः- भवद्गिरां अवसरप्रदानाय नः वचांसि । पूर्वरङ्गः नाटकीयस्य वस्तुनः
प्रसङ्गाय एव भवति ।
पदच्छेदः- भवद्गिराम् अवसरप्रदानाय वचांसि नः पूर्वरङ्गः प्रसङ्गाय नाटकीय अस्य वस्तुनः ।।
करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम्।
विनाप्यस्मदलंभूष्णुर् इज्यायै
तपसः सुतः॥2.9॥
अन्वयः- दिशां जित्वरैः भ्रातृभिः करदीकृतभूपालः तपसः सुतः अस्मत् विना
इज्यायै अलम्भूष्णुः ।
पदच्छेदः – करदीकृत भूपालः भ्रातृभिः जित्वरैः दिशां विना अपि अस्मत् अलम्भूष्णुः इज्यायै तपसः सुतः ।।
उत्तिष्ठमानस्तु
परोनोपेक्ष्यः पत्यमिच्छता।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः
स च॥2.10॥
अन्वयः- उतिष्ठमानः परः पथ्यं इच्छता
न उपेक्ष्यः हि वव्स्यर्न्तौ आमयः सः च शिष्टैः समौ आग्नातौ ।
पदच्छेदः- उत्तिष्ठमानः अस्तु परः न उपेक्ष्यः पथ्यं इच्छता समौ हि शिष्टै आम्नातौ वर्त्स्यन्तौ आमयः स च ।।
न दूये
सात्वतीसूनुर्यन्मह्यमपराध्यति।
यत्तु दन्दह्यन्ते लोकम्
अदो दुःखाकरोतिमाम्॥2.11॥
अन्वयः- सात्वतीसूनुः मह्यं अपराध्यति यत् न दूये । तु लोकं दन्दह्यते अदः मां दुःखाकरोति ।
पदच्छेदः - न दूये सात्वतीसूनुः मह्यं अपराध्यति यत् तु दन्दह्यन्ते
लोकम् अदः दुःखः करोति माम् ।।
मम तावन्मतमिदं श्रूयतामङ्गवामपि।
ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि॥2.12॥
अन्वयः-तावत् मम इदं मर्त
अङ्ग वाम अपि श्रूयतां । ज्ञातसारः अपि एकः कार्यवस्तूनि सन्दिधे खलु ।
पदच्छेदः मम तावत् मत इदं श्रूयतां अङ्ग वाम अपि ज्ञातसारः अपि खलि एकः संदिग्धे
कार्यवस्तुनि ।।
यावदर्थपदां वाचम् एवमादाय
माधवः।
विरराम महीयांसः प्रकृत्या
मितभाषिणः॥2.13॥
अन्वयः – माधवः यावदर्थपदां वाचं एवं आदाय विरराम । महियांसः प्रकृत्या
मितभाषिणः भवन्ति ।
पदच्छेदः यावद अर्थ पदां वाचम् एवं आदाय माधवः विरराम महीयांसः प्रकृत्या
मितभाषिणः ।।
ततः
सपत्नापनयस्मरणानुशयस्फुरा।
ओष्ठेन रामो रामोष्ठब् इम्बचुम्बनचुञ्चुना॥2.14॥
अन्वयः – ततः सपत्नापनयस्मरणानुशयस्फुरा
रामोष्ठबिम्बचुम्बनाचुञ्चुना ओष्ठेन रामः जगाद ।
पदच्छेदः ततः सपत्नापनय स्मरण अनुशयः स्फुराः ओष्ठेन
रामो रामः ओष्ठः बिम्बः चुम्बना चुञ्चुना ।।
विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां।
प्रापयन्पवनव्याधेर् गिरमुत्तरपक्षताम्॥2.15॥
अन्वयः- विवक्षितां तत्क्षणप्रतिसंह्रतां अर्थविदः पवनव्याधेः गिरं उत्तरपक्षतां प्रापयन् ।
पदच्छेदः विवक्षितां अर्थविदः तत्क्षणप्रतिसंहृतां प्रापयन् पवनव्याधेः गिरं
उत्तरपक्षताम् ।।
घूर्णयन्मदिरास्वादम् अदपाटलितद्युती।
रेवतीवदनोच्छिष्टप् अरिपूतपुटे
दृशौ॥2.16॥
अन्वयः-मदिरास्वादमदपाटलितद्युती, रेवतीवदनोच्क्षिष्टपरिपूतपुटे दृशो घूरणयन्
।
पदच्छेदः – घूर्णयन् मदिरा आस्वादम् अदपाटलितद्युती रेवती वदन उच्छिष्ट परिपूतपुटे दृशौ ।।
आश्लेषलोलुपवधूस् तनकार्कश्यसाक्षिणीं।
म्लापयन्नभिमानोष्णैर् वनमालां
मुखानिलैः॥2.17॥
अन्वयः- आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं। वनमालां अभिमानोष्णैः मुखानिलैः म्लापयन ।
पदच्छेदः –आश्लेषः लोलुपः वधूः स्तनकार्कश्य साक्षिणीं म्लापयन् अभिमानोष्णैः वनमालां
मुखानिलैः ।।
दधत्सन्ध्यारुणव्योमस् फुरत्तारानुकारिणीः।
द्विषद्द्वेषोपरक्ताङ्गस्
अङ्गिनीः स्वेदविप्रुषः॥2.18॥
अन्वयः- सन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः। द्विषद्द्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः दधतः ।।
पदच्छेदः दधतः सन्ध्या अरुणः व्योमः स्फुरत्तारानुकारिणीः द्विषद्द्वेषोपरक्ताङ्गः सङ्गिनीः स्वेदविप्रुषः ।।
प्रोल्लसत्कुण्डलप्रोतप्
अद्मरागदलत्विषा।
कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम्॥2.19॥
अन्वयः- प्रोल्लसत्कुण्डलप्रोतपद्मरागदलत्विषा कृष्णोत्तरासङ्गरुचं चौतपल्लवीं विदधत् ।
पदच्छेदः –प्रोल्लसत्कुण्डलप्रोतः पद्मं रागः दलत्विषा कृष्णः उत्तरासङ्गरुचं विदधत् चौतपल्लवीम् ।।
ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया।
मुखामोदं मदिरया कृतानुव्याधमुद्वमन्॥2.20॥
अन्वयः - ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया। मगिरया कृतानुव्याधं
मुखामोदं उदवमन् ।।
पदच्छेदः – कुकुद्मिकन्या वक्त्रान्तः वासलब्धा अधिवासया मुखामोदं मदिरया कृतानुव्याधं उदवमन् ।।
जगादवदनछद्मप् अद्मपर्यन्तपातिनः।
नयन्मधुलिहः श्वैत्यम् उदंशुदशनांशुभिः॥2.21॥
अन्वयः-वनच्क्षद्मपद्यपर्यतपातिनः मधुलिहः उदंशुदशनाशुभिः श्वैत्यं नयन् ।
पदच्छेदः –जगाद् वदनछद्म पद्मं पर्यन्तं पातिनः नयन् मधुलिहः श्वैत्यम् उदंशुदशनांशुभिः ।।
यद्वासुदेवेनादीनम् अनादीनवमीरितम्।
वचसस्तस्य सपदि क्रिया
केवलमुत्तरम्॥2.22॥
अन्वयः- वासुदेवेन अदीनं अनादिनवं यत्
इरितं तस्य वचसः सपदि क्रिया केवलं उत्तरम
।
पदच्छेदः यद् वासुदेवन अदीनम् अनादीनवम् इरितं वचसः तस्य सपदि क्रिया केवलम् उत्तरम् ।
नैतल्लघ्वपि भूयस्या वचो
वाचातिशय्यते।
इन्धनौघधगप्यग्नित्विषा
नात्येति पूषणम्॥2.23॥
अन्वयः- लधु अपि एतत् वचः भूयसा वाचा न अतिशय्यते इन्धनौधधक् अपि अग्निः
त्विषा पूषणं न अत्येति ।
पदच्छेदः- न एतत् लधु अपि भूयस्या वचः वाचा अतिशय्यते इन्धनौघधक् अपि अग्नि त्विषा न अत्येति पूषणम्।।
संक्षिप्तस्याप्यतोऽस्यैव
वाक्यस्यार्थगरीयसः।
सुविस्तरतरा
वाचोभाष्यभूता भवन्तु मे॥2.24॥
अन्वयः- अतः सुविस्तराः मे वाचः संक्षिप्तस्य अपि गरीयसः अस्य एव वाक्यस्य
भाष्यभूता भवन्तु ।
पदच्छेदः – संक्षिप्तस्य अपि अस्य एव वाक्यस्य अर्थः गरीयसः सुविस्तराः वाचो भाष्यभूता
भवन्तु मे ।।
विरोधिवचसो मूकान्वागीशानपि
कुर्वते।
जडानप्यनुलोमार्थान्प्रवाचः
कृतिनां गिरः॥2.25॥
अन्वयः- कृतिनां गिरः विरोधिवचसः
वागीशान् अपि मूकान् अनुलोमार्थान् जडान्
अपि प्रवाचः कुर्वते ।
पदच्छेदः – विरोधिवचसः मूकान् वागीशान् अपि कुर्वते जडान् अपि अनुलोमार्थान् प्रवाचः कृतिनां
गिरः ।।
षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः।
ग्रन्धानधीत्य
व्याकर्तुम् इति दुर्मेधसोऽप्यलम्॥2.26॥
अन्वयः- दुर्मेधसः,अपि ग्रथान् अधीत्य गुणाः षट् शक्तयः तिस्त्रः सिद्धयः च उदयाः त्रयः इति व्याकर्तुं अलम् ।
पदच्छेदः षड्गुणाः शक्तयः तिस्रः सिद्धयः च उदया त्रयः ग्रन्धान् अधीत्य व्याकर्तुम् इति दुर्मेधसः अपि अलम् ।
अनिर्लोडितकार्यस्यवाग्जालं
वाग्मिनो वृथा।
निमित्तादपराद्धेषोर्धानुष्कस्येव
वल्गितम्॥2.27॥
अन्वयः- अनिर्लोडितकार्यस्य वाग्मिनः वाग्जालं
निमित्तात् अपराद्धेपोः धानुप्कस्य
वग्लितं इव वृथा ।
पदच्छेदः – अनिर्लोडितः कार्यस्य वाग्जालं वाग्मिनो वृथा निमित्तात् अपराद्धेषोः धानुष्कस्येव वल्गितम् ।।
सर्वकार्यशरीरेषुमुक्त्वाङ्गस्कन्दपञ्चकम्।
सौगतानामिवात्मान्योनास्ति
मन्त्रो महीभृताम्॥2.28॥
अन्वयः- सर्वकार्यशरीरेषु अङ्गस्कन्दपञ्चकम् मुक्तवा
सौगतानां आत्मा इव महीभृतां अन्यः मन्त्रः
नास्ति ।
पदच्छेदः – सर्वकार्यशरीरेषु मुक्त्वा अङ्गस्कन्दपञ्चकम् सौगतानां इव अत्मा अन्य नास्ति मन्त्रो
महीभृताम् ।
मन्त्रो योध इवाधीरः सर्वाङ्गैः
संवृतैरपि।
चिरं न सहते स्थातुं परेभ्यो
भेदशङ्कया॥2.29॥
अन्वयः-संवृतैः अपि सर्वाङ्गैः मन्त्रः अधीरः योधः
इव परेभ्यः भेदसङ्कया चिरं स्थातुं न सहते ।
पदच्छेदः - मन्त्रो योध इव अधीरः सर्वाङ्गैः संवृतैः अपि चिरं न सहते
स्थातुं परेभ्यो भेदशङ्कया ।।
आत्मोदयः
परज्यानिर्द्वयं नीतिरितीयती।
तदूरीकृत्य
कृतिभिर्वाचस्पत्यं प्रतायते॥2.30॥
अन्वयः- आत्मोदयः परज्यानिः इति द्वयं इयती नीतिः तत् ऊरीकृत्यं कृतिभिः वाचस्पत्यं
प्रतायते ।
पदच्छेदः आत्मोदयः परज्यानिः द्वयं नीतिः ततः इयती तदूरीकृत्य कृतिभिः वाचस्पत्यं प्रतायते ।।
तृप्तियोगः परेणापिम् अहिम्ना
न महात्मनाम्।
पूर्णश्चन्द्रोदयाकाङ्क्षी
दृष्टान्तोऽत्र महार्णवः॥2.31॥
अन्वयः- महीयसां परेणापि महिम्ना तृप्तियोगः न । अत्र पूर्णः
चन्द्रोदयाकाङ्क्षी महार्णवः दृष्टांन्तः।।
पदच्छेदः तृप्तियोगः परेणापि महिम्ना न महात्मनाम् पूर्णः चन्द्रोदयाकाङ्क्षी दृष्टान्तः अत्र महार्णवः ।।
संपदासुस्थिरंमन्यो भवति
स्वल्पयापि यः।
कृतकृत्यो विधिर्मन्येन
वर्धयति तस्य ताम्॥2.32॥
अन्वयः- यः स्वल्पया अपि संपदा सुस्थितं मन्यः भवति कृतकृत्यः विधिः तस्य ताम् न वधयति इति मन्ये ।
पदच्छेदः – संपदा सुस्थितं मन्यो भवति स्वल्पया अपि यः कृतकृत्यो विधिः मन्ये न वर्धयति तस्य
ताम् ।।
समूलघातमघ्नन्तः परान्नोद्यन्ति
मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं
रविः॥2.33॥
अन्वयः- मानिनः परान् समूलघातं अध्यन्तः न उद्यन्ति
। तत्र प्रध्वंसितान्धतमसः रविः उदाहरणम् ।।
पदच्छेदः – समूलघातं अघ्नन्तः परान् उद्यन्ति मानिनः प्रध्वंसितान्धतमसः तत्र उदाहरणं रविः ।।
विपक्षमखिलीकृत्य प्रतिष्ठा
खलु दुर्लभा।
अनीत्वा पङ्कतां धूलिम् उदकं
नावतिष्ठते॥2.34॥
अन्वयः- विपक्षं अखिलीकृत्य प्रतिष्ठा खलु
दुर्लभा । उदकं धूलि पङ्कतां अनीत्वा न अवतिष्ठते ।।
पदच्छेदः – विपक्षं अखिलीकृत्य प्रतिष्ठा खलु दुर्लभा अनीत्वा पङ्कतां धूलिम् उदकं न अवतिष्ठते ।।
ध्रियतेयावदेकोऽपि रिपुस्तावत्कुतः
सुखम्।
पुरः क्लिश्नाति सोमं हि
सैंहिकेयोऽसुरद्रुहाम्॥2.35॥
अन्वयः- एकः अपि रिपुः यावत् ध्रियते
तावत् सुखं कुतः हि सैहिकेयः असुरद्रुहां पुरः सोमं क्लिश्नाति।
पदच्छेदः – ध्रियते यावत् कोऽपि रिपुः तावत् कुतः सुखम् पुरः क्लिश्नाति
सोमं हि सैंहिकेयः असुरद्रुहाम्॥
सखागरीयान् शत्रुश्च कृत्रिमस्तौ हि
कार्यतः।
स्याताममित्रौ मित्रे च सहजप्रकृतावपि॥2.36॥
अन्वयः- कृत्रिम सखा शत्रुः च गरीयान्
। हि तौ कार्यतः जातौ । सहज प्राकृतौ अमित्रौ मित्रे च स्याताम् ।
पदच्छेदः – सखा गरीयान् शत्रुश्च कृत्रिम स्तौ हि कार्यतः स्याताम् अमित्रौ मित्रेच सहज प्रकृता व अपि ।।
उपकर्त्ररिणा संधिर्न
मित्रेणापकारिणा।
उपकारापकारौ हि लक्ष्यं
लक्षणमेतयोः॥2.37॥
अन्वयः-उपकर्ता अरिणा अपि सन्धिः कार्यः अपकारिणः मित्रेण सन्धिः न हि उपकरापकारौ एतयोः लक्षणं लक्ष्यम्
पदच्छेदः उपकर्ता अरिणा संधि न मित्रेण अपकारिणा उपकारापकारौ हि लक्ष्यं लक्षणम् एतयोः ।।
त्वयाविप्रकृतश्चैद्यो रुक्मिणीं
हरताहरे।
बद्धमूलस्यमूलं
हिमहद्वैरतरोः स्त्रियः॥2.38॥
अन्वयः- हे हरे ! रुक्मिणीं हरता त्वया चैद्यं
विप्रकृतः बद्धमूलस्य वैरमतरोः स्त्रियः
महत् मूलम् ।
पदच्छेदः – त्वया विप्रकृतः चैद्यः रुक्मिणीं हरता हरेः बद्धमूलस्य मूलं हि महत् वैरमतरोः स्त्रियः ।।
त्वयि भौमं गते जेतुम् अरौत्सीत्स
पुरीमिमाम्।
प्रोषितार्यमणं
मेरोर्अन्धकारस्तटीमिव॥2.39॥
अन्वयृः- त्वयि भौमं जेतुं गते इमां पुरीं
प्रोषितार्यमणं नेरोः तटी अन्धकारः
इव अरौत्सीत् ।
पदच्छेदः त्वयि भौमं गते जेतुम् अरौत्सीत् पुरीं इमां प्रोषितार्यमणं
मेरोरअन्धकारः तटीं इव ।।
आलप्यालमिदं बभ्रोय् अत्स
दारानपाहरत्।
कथापि खलु पापानाम् अलमश्रेयसे
यतः॥2.40॥
अन्वयः-सः बभ्रोः दारान् अपाहरत् यत्
इदं आलप्य अलं यतः पापानां कथा अपि अश्रेयसे अलम् ।
पदच्छेदः - इदं आलप्य अलं इदं बभ्रोः यत् दारान् अपाहरत् कथा अपि खलु पापानाम् अलम् अश्रेयसे यतः ।।
विराद्ध एवं भवता विराद्धा
बहुधा च नः।
निर्वत्यतेऽरिः क्रियया स
श्रुतश्रवसः सुतः॥2.41॥
अन्वयः- एवं भवता विराद्ध बहुधा च नः श्रुतश्रवसः सः सुतः क्रियया अरिः निर्वत्यते ।
पदच्छेदः - विराद्ध एवं भवता विराद्धा बहुधा च नः निर्वत्यते अरिः क्रियया स श्रुतश्रवसः
सुतः ।।
विधाय वैरं
सामर्षेनरोऽरौ य उदासते।
प्रक्षिप्योदर्चिपं कक्षे शेरते
तेऽभिमारुतम्॥2.42॥
अन्वयः-ये नरः सामर्षे अरौ वरं विधाय
उदासते ते कक्षे उदचिर्पं प्रक्षिप्य अभिमारुतं शेरते।
पदच्छेदः - विधाय वैरं सामर्षे नरोऽरौ य उदासते प्रक्षिप्य उदर्चिपं कक्षे शेरते ते अभिमारुतम् ।।
मनागनभ्यावृत्या वा
कामं क्षाम्यतु यः
क्षमी।
क्रियासमभिहारेण
विराद्यन्तं क्षमेत कः॥2.43॥
अन्वयः-यः क्षमि सः मनाक्
अनभ्यावृत्या वा कामं क्षम्यतु क्रियासमभिहारेण विराध्यतं कः क्षमेत् ।
पदच्छेदः – मनाक् अनभ्यावृत्या वा कामं क्षाम्यतु
यः क्षमी क्रियासमभिहारेण विराद्यन्तं क्षमेत कः ।।
अन्यदा भूषणं पुंसः
क्षमा लज्जेव योषितः।
पराक्रमः परिभवे
वैयात्यं सुरतेष्विव॥2.44॥
अन्वयः- अन्यदा योषितः लज्जा इव पुंसः क्षमा भूषणम् परिभवे तु सरतेषु योषितः वैयात्यं इव पराक्रमाः भूषणम् ।
पदच्छेदः - अन्यदा भूषणं पुंसः क्षमा लज्जा इव योषितः पराक्रमः परिभवे वैयात्यं सुरतेष्विव ।।
माजीवन्यः परावज्ञाद्
उखदग्धोऽपि जीवति।
तस्याजननिरेवास्तु
जननीक्लेशकारिणः॥2.45॥
अन्वयः-यः परावज्ञादुःखदग्धः मा जीवन्
सन् अपि जीवति जननी क्लेशकारिणः तस्य
अजननिः एव अस्तु ।
पदच्छेदः – मा जीवनः परः अवज्ञादुःखदग्धः अपि जीवति तस्य अजननिः एव अस्तु जननी क्लेशकारिणः ।।
पादाहतं यदुत्थाय
मूर्धानमधिरोहति।
स्वस्थादेवापमानेऽपि
देहिनस्तद्वरं रजः॥2.46॥
अन्वयः-यत रजः पादाहतं सत् उत्थाय मूर्धानं अधिरोहित तत् अपमाने अपि स्वथ्यात्
देहिनः वरम् एव।
पदच्छेदः - पादाहतं यत् उत्थाय मूर्धानं अधिरोहति स्वस्थ अपमाने अपि देहिनः तत् वरं रजः ।।
असम्पादयतः कञ्चिद्
अर्थं जातिक्रियागुणैः।
यदृच्छशब्दवत्पुंसः
संज्ञायै जन्म केवलम्॥2.47॥
अन्वयः- जातिक्रियागुणैः कञ्चिदर्थ
असम्पादयतः पुसः जन्म यदृच्छशब्दवत् संज्ञायै केवलम् ।
पदच्छेदः- असम्पादयतः कञ्चिदर्थः जातिक्रियागुणैः यदृच्छशब्दवत् पुसः संज्ञायै जन्म केवलम् ।।
तुङ्गत्वमितरा नाद्रौ
नेदं सिन्धावगाधता।
अलङ्घनीयताहेतुर्
उभयं तन्मनस्विनि॥2.48॥
अन्वयः-आदौ तुङ्गत्वं इतरा न सिन्धौ अगाधता , इदं न मनस्विनि अलङ्घनीयता हतुः तत् उभयम् ।
पदच्छेदः – तुङ्गत्वं इतरा ना आदौ न इदं सिन्धौ अगाधता अलङ्घनीयता हेतु उभयं तत मनस्विनि ।।
तुल्येऽपराधे
स्वर्भानुर्
भानुमन्तं चिरेण यत्।
हिमांशुमाशु ग्रसते
तन्म्रदिम्नः स्फुटं
फलम्॥2.49॥
अन्वयः-स्वर्भानुः अपराधे तुक्ष्ये अपि भानुमन्तः चिरेण हिमांशु च आशु ग्रसते यत् तत् भ्रदिम्नः फलं स्फुटं एव ।
पदच्छेदः –तुल्य अपराधे स्वर्भानुः भानुमन्तं चिरेण यत् हिमांशु आशु ग्रसते तत् म्रदिम्नः स्फुटं
फलम् ।।
स्वयं प्रणमतेऽल्पेऽपि
परवायावुपेयुषी।
निदर्शनमसाराणां
लघुर्बहुतृणं नरः॥2.50॥
अन्वयः-असाराणां निदर्शनं बहुतृणं लधुः यः नरः
अल्पे अपि परिवायौ उपेयुषि स्वयं प्रणमते ।
पदच्छेदः - स्वयं प्रणमते अल्प अपि परियावौ उपेयुषी निदर्शनम् असाराणां लघु बहुतृणं नरः॥
तेजस्विमध्ये तेजस्वी
दवीयानपि गण्यते।
पञ्चमः पञ्चतपसस्
तपनो जातवेदसाम्॥2.51॥
अन्वयः-दवीयान अपि तेजस्वी तेजस्विमध्ये गण्यते पञ्चतपसः तपनः जातवेदसां पञ्चमः ।
पदच्छेदः – तेजस्वी मध्ये तेजस्वी दवीयान अपि गण्यते पञ्चमः पञ्चतपसः तपनः जातवेदसां ।।
अकृत्वा हेलया पादम्
उच्चैर्मूर्धसु
विद्वषाम्।
कथङ्कारमनालम्बा
कीर्तिर्द्यामधिरोहति॥2.52॥
अन्वयः- उच्चैः विद्विषां मूर्धसु हेलया पादम अकृत्वा अनालम्बा कीर्तीः कथङ्करं द्याम् अधिरोहति ।
पदच्छेदः - अकृत्वा हेलया पादम् उच्चैः र्मूर्धसु विद्वषाम् कथङ्कारं अनालम्बा कीर्तीः द्याम्
अधिरोहति ।।
अङ्गाधिरोपितमृगश्
चन्द्रमा मृगलाञ्छनः।
केशरी निष्ठुरक्षिप्तम्
ऋगयूथो मृगाधिपः॥2.53॥
अन्वयः-अङ्गाधिरोपितमृगः चन्द्रमा मृगलाञ्छनः। निष्ठुरक्षिप्तमृगयूथः
केसरी मृगाधिपः ।।
पदच्छेदः अङ्गाधि रोपित मृगः चन्द्रमा मृगलाञ्छनः केशरी निष्ठुरक्षिप्तम् मृगयूथः मृगाधिपः ।।
चतुर्थोपायसाध्येतु
रिपौ सान्त्वमपक्रिया।
स्वेद्यमामज्वरं
प्राज्ञः
कोऽम्भसा परिषिञ्चति॥2.54॥
अन्वयः-चतुर्थोपायसाध्ये रिपौ सान्त्वम अपक्रिया। स्वेद्यम् आमज्वरं कः
प्राज्ञः अम्भसा परिषिञ्चति ।।
पदच्छेदः – चतुर्थोपायसाध्येतु रिपौ सान्त्वम अपक्रिया स्वेद्यम् आमज्वरं प्राज्ञः कः अम्भसा
परिषिञ्चति ।।
सामवादाः सकोपस्य
तस्य प्रत्युत दीपकाः।
प्रतप्तस्येव सहसा
सर्पिषस्तोयबिन्दवः॥2.55॥
अन्वयः- सकोपस्य तस्य सामवादाः प्रत्युत दीपकाः। प्रतप्तस्य सर्पिषः तोयबिन्दवः इव ।।
पदच्छेदः - सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः प्रतप्तस्येव सहसा सर्पिषः तोयबिन्दवः इव ।।
गुणानामायथातथ्याद्
अर्थं विप्लावयन्ति ये।
अमात्यव्यञ्जनाराज्ञां
दूष्यास्ते
शत्रुसंज्ञिताः॥2.56॥
अन्वयः- गुणानाम् आयथातथ्यादत् ये राज्ञाम् अर्थं विप्लावयन्ति ते अमात्यव्यञ्जनाः शत्रुसंज्ञिताः राज्ञां
दूष्याः ।।
पदच्छेदः –गुणानाम् आयथातथ्यादत् अर्थं विप्लावयन्ति ये अमात्यव्यञ्जनाः राज्ञां दूष्यास्ते
शत्रुसंज्ञिताः ।।
स्वशक्त्युपचये केचित्
परस्य व्यसनेऽपरे।
यानमाहुस्तदासीनं
त्वामुत्थापयति द्वयम्॥2.57॥
अन्वयः- केचित् स्वशक्त्युपचये यानम् आहुः अपरे
परस्य व्यसने तत् द्वयम्ल अपि आसीनं
त्वाम् उत्थपयति ।।
पदच्छेदः -स्वशक्त्युपचये केचित् परस्य व्यसने अपरे यानम् आहुः तत् आसीनं त्वाम् उत्थापयति द्वयम् ।।
लिलङ्घयिषतो लोकान्
अलङ्घ्यानलघीयसः।
यादवाम्भोनिधीन्रुन्धे
वेलेव भवतः क्षमा॥2.58॥
अन्वयः- लोकान् लिलङ्घयिषतः अलङ्घ्यान अलघीयसः यादवाम्भोनिधीमन् भवतः क्षमा इव रुन्धे ।।
पदच्छेदः - लिलङ्घयिषतो लोकान् अलङ्घ्यान अलघीयसः यादवाम्भोनिधीन्रुन्धे इव भवतः क्षमा ।।
विजयस्वयि सेनायाः
साक्षिमात्रेऽपदिश्यताम्।
फलभाजि समीक्ष्योक्ते
बुद्धेर्भोग इवात्मनि॥2.59॥
अन्वयः- सेनायाः विजयः फलभाजि साक्षिमात्रे एव त्वयि समीक्ष्योक्ते आत्मानि
बुद्धेः भोगः इव अपदिश्यताम् ।।
पदच्छेदः – विजयः त्वयि सेनायाः साक्षिमात्रे अपदिश्यताम् फलभाजि
समीक्ष्योक्ते बुद्धेः भोगः इव आत्मनि ।।
हतेहिडिम्बरिपुणा
राज्ञि द्वैमातुरे युधि।
चिरस्य मित्त्रव्यसनि
सुदमो दमघोषजः॥2.60॥
अन्वयः-हिडिम्बरिपुणा द्वैमातुरे राज्ञि युधि हते चिरस्य मित्त्रव्यसनि दमघोषजः सुदमः ।
पदच्छेदः – हते हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि चिरस्य
मित्त्रव्यसनि सुदमो दमघोषजः ।।
नीतिरापदि यद्गम्यः
परस्तन्मानिनो ह्रिये।
विधुर्विधुंतुदस्येव
पूर्णस्तस्योत्सवाय सः॥2.61॥
अन्वयः- परः आपदि गम्यः नीतिः यत् तत् मानिनः ह्रिये पूर्णः सः तस्य विधुः
विधुन्तुगस्य इव उत्सवाव ।।
पदच्छेदः – नीतिः आपदि यत् गम्य परः तत् मानिनः ह्रिये विधुन्तुगस्य इव पूर्णः तस्य उत्सवाव सः ।।
अन्यदुच्छृङ्घलं सत्वम्
अन्यत्छ्छास्त्रनियन्त्रितं।
सामानाधिकरण्यं हि
तेजस्तिमिरयोः कुतः॥2.62॥
अन्वयः- उच्छृङखलं सत्वम् अन्यत्
शास्त्रनियन्त्रितं अन्यत हि तेजस्तिमिरयोः सामानाधिकरण्य कुतः ।।
पदच्छेदः – अन्यत् उच्छृङ्घलं सत्वम्
अन्यत् शास्त्रनियन्त्रितं सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ।।
इन्द्रप्रस्थगमस्तावत्
कारि मा सन्तु चेदयः।
आस्माकदन्तिसान्निध्याद्
वामनीभूतभूरुहः॥2.63॥
अन्वयः- इन्द्रप्रस्थगमः मा कारि तावत् चेदयः अस्माकदन्ति सन्निध्यात्
वामनीभूतभूरहः सन्तु ।।
पदच्छेदः – इन्द्रप्रस्थ गमः तावत् कारि मा सन्तु चेदयः अस्माकदन्ति सन्निध्यात् वामनीभूतभूरुहः ।।
निरुद्धवीवधासारप्
रसारा गा इव व्रजम्।
उपरुन्धन्तु दाशार्हाः
पुरीं माहिष्मतीं
द्विषः॥2.64॥
अन्वयः- दाशार्हाः निरुद्धवीवधासारप्रसाराः ब्रजं गाः इव माहिष्मतीं पुरीं द्वषः उपरुन्धतु
।।
पदच्छेदः –निरुद्धवीवधासारप्रसाराः गा इव व्रजम् उपरुन्धन्तु
दाशार्हाः पुरीं माहिष्मतीं द्विषः॥
यजतां पाण्डवः स्वर्गम्
अवत्विन्द्रस्तपस्विनः।
वयं हनाम द्विषतः
सर्वः स्वार्थं समीहते॥2.65॥
अन्वयः- पाण्डवः यजतां इन्द्रः सवर्गम् अवतु इनः तपतु वयं
द्विषतः हनाम तथाहि सर्वः स्वार्थ समीहते
।।
पदच्छेदः - यजतां पाण्डवः स्वर्गम् अवतु इन्द्रः तपस्विनः वयं हनाम
द्विषतः सर्वः स्वार्थं समीहते ।।
प्राप्यतां विद्युतां
संपद्
संपर्कादर्करोचिषाम्।
शस्त्रैद्विषच्छिरश्छेदप्
रोच्छलच्छोणितोक्षितैः॥2.66॥
अन्वयः-द्विषच्छिरशछेदप्रोच्छलच्छोणितोक्षितैः शस्त्रैः अर्करोचिषां
सम्पर्कात् विद्युतां सम्पत् प्राप्यताम् ।।
पदच्छेदः - प्राप्यतां विद्युतां संम्पत् सम्पर्कात्
अर्करोचिषां शस्त्रैः
द्विषच्छिरशछेदप्रोच्छलच्छोणितोक्षितैः ।।
इतिसंरम्भिणो वाणीर्
बलस्यालेख्यदेवताः।
सभाभित्तिप्रतिध्वानैर्
भयादन्ववदन्निव॥2.67॥
अन्वयः- इति संरम्भिणः बलस्या वाणीः अलेख्यदेवताः सभाभित्तिप्रतिध्वानैः भयात् अन्ववदन् इव ।।
पदच्छेदः –इति संरम्भिणो वाणीः बलस्या अलेख्यदेवताः सभाभित्तिप्रतिध्वानैः भयात् अन्ववदन् इव ।।
निशम्य ताः शेषगवीर्
अभिधातुमधोक्षजः।
शिष्याय बृहतां प्रत्युः
प्रस्तावमदिशद्दृशा॥2.68॥
अन्वयः-अधेक्षजः ताः शेषगवीः
निशम्य बृहतां पत्युः शिष्याय अभिधातुं द्दृशा प्रस्तावम् अदिशत् ।।
पदच्छेदः -निशम्य ताः शेषगवी अभिधातुं अधेक्षजः शिष्याय बृहतां
प्रत्युः प्रस्तावम् अदिशत् द्दृशा ।।
भारतीमाहितभराम्
अथानुद्धतमुद्धवः।
तथ्यामुतथ्यानुजवज्
जगादाग्रे गदाग्रजम्॥2.69॥
अन्वयः- अथ उद्धवः अहितभरां तथ्यां
भारतीम् अनुद्धतं गदाग्रजम् अग्रेल
उतथ्यानुजवत् जगाद ।।
पदच्छेदः – भारतीम् अहितभराम् अथ अनुद्धतं उद्धवः
तथ्यां उतथ्यानुजवज् जगादाग्रे
गदाग्रजम्॥
संप्रत्यसांप्रतं
वक्तुम्
उक्ते मुसलपाणिना।
निर्धारितेऽर्थे लेखेनख्
अलूक्त्वा खलु वाचिकम्॥2.70॥
अन्वयः- सम्प्रति मुसलपाणिना उक्ते असाम्प्रतम् लेखेन अर्थे
निर्धारिते सति वाचिकं खलु उक्त्वा खलु ।।
पदच्छेदः – सम्प्रति आसाम्प्रतं वक्तुम् उक्ते मुसलपाणिना निर्धारिते अर्थे लेखेन अलूक्त्वा खलु
वाचिकम् ।।
तथापि यन्मय्यपि ते
गुरुरित्यस्ति गौरवम्।
तत्प्रयोजककर्तृत्वम्
उपैति मम जल्पतः॥2.71॥
अन्वयः-हे कृष्ण तथापि ते मयि अपिं
गुरुः इति यत् गौरवम् अस्ति तत् जल्पतः मम् प्रयोजककतृत्वम् उपैति ।।
पदच्छेदः – तथा अपि यत् मयि अपि ते गुरुः इति यत्
अस्ति गौरवम् तत् प्रयोजककतृत्वम् उपैति मम जल्पतः ।।
वर्णैः कतिपयैरेव
ग्रथितस्य स्वरैरिव।
अनन्ता वाङ्मयस्याहो
गेयस्येव विचित्रता॥2.72॥
अन्वयः-कतिपयैः एव वर्णैः स्वरैः इव ग्रथितस्य वाङ्मयस्य गेयस्य इव विचित्रता अनन्ता अहो ।।
पदच्छेदः - वर्णैः कतिपयै एव ग्रथितस्य स्वरै इव अनन्ता वाङ्मयस्य अहो गेयस्येव विचित्रता ।।
बह्वपि स्वेच्छया कामं
प्रकीर्णमभिधीयते।
अनुज्झितर्थसंबन्धः
प्रबन्धो दुरुदाहरः॥2.73॥
अन्वयः- स्वेच्छया प्रकीर्ण बहु अपि कामम् अभिधीयते अनुज्झितर्थसंबन्धः प्रबन्धः दुरुदाहरः ।।
पदच्छेदः - बहु अपि स्वेच्छया कामं प्रकीर्ण अभिधीयते अनुज्झितर्थसंबन्धः प्रबन्धो दुरुदाहरः ।।
म्रदीयसीमपि घनाम्
अनल्पगुणकल्पिताम्।
प्रसारयन्ति कुशलाश्
चित्रां वाचं पटीमिव॥2.74॥
अन्वयः-हे कृष्ण कुशलाः म्रदीयसीम अपि घनाम् अनल्पगुणकल्पितां चित्रां वाचं पटीम् इव प्रसारयन्ति ।।
पदच्छेदः - म्रदीयसीम अपि घनाम् अनल्पगुणकल्पितां प्रसारयन्ति कुशलाः चित्रां वाचं पटीम् इव ।।
विशेषविदुषः शास्त्रं
यत्तवोद्ग्राह्यते पुरः।
हेतुः परिचयस्थैर्ये
वक्तुर्गुणनिकैव सा॥2.75॥
अन्वयः- विशेषविदुषः तव पुरः शास्त्रम् उद्ग्राह्यते यत् सा वक्तुः परिचयस्थैर्ये हेतुः गुणनिका एव ।।
पदच्छेदः -विशेषविदुषः शास्त्रं यत् उद्ग्राह्यते पुरः हेतुः
परिचयस्थैर्ये वक्तुः गुणनिका एव सा ।।
प्रज्ञोत्साहवतः
स्वामी
यतेताधातुमात्मनि।
तौ हि मूलमुदेष्यन्त्या
जिगीषोरात्मसंपदः॥2.76॥
अन्वयः-अतः स्वामी प्रज्ञोत्साहौ आत्मनि अधातुं यतेत हि
तौ उदेष्यन्त्याः जिगीषोः आत्मसंपदः मूलम् ।।
पदच्छेदः – प्रज्ञोत्साहौ अतः स्वामी यतेत अधातुं आत्मनि तौ हि मूलम् उदेष्यन्त्या जिगीषो आत्मसंपदः॥
सोपधानां धियं धीराः
स्थेयसीं खट्वयन्ति ये।
तत्रानिशं निषण्णास्ते
जानते जातु न श्रमं॥2.77॥
अन्वयः- ये धीराः सोपधानां स्थेयसीं धियं खट्वयन्ति ते अत्र अनिशं
निपण्णाः जातु श्रमं न जायते ।।
पदच्छेदः - सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये अत्र अनिशं
निपण्णाः आस्ते जानते जातु न श्रमम् ।।
स्पृशन्ति शरवत्तीक्ष्णाः
स्तोकमन्तर्विशन्ति च।
बहुस्पृशापि स्थूलेन
स्थीयते बहिरश्मवत्॥2.78॥
अन्वयः-तीक्ष्णाः शरवत् स्तोकं
स्पृशन्ति अन्तः च विशन्ति बहुस्पृशा अपि
सथूलेन अश्वमत् बहिः स्थीयते ।।
पदच्छेदः - स्पृशन्ति शरत्व तीक्ष्णाः त्तीक्ष्णस् स्तोक अन्तः विशन्ति च बहुस्पृशापि स्थूलेन स्थीयते बहिः अश्मवत् ।।
आरभन्तेऽल्पमेवाज्ञाः
कामं व्यग्रा भवन्ति च।
महारम्भाः कृतधियस्
तिष्ठन्ति च निराकुलाः॥2.79॥
अन्वयः-अज्ञाः अल्पम् एव आरम्भते कामं व्यग्रा च भवन्ति कृतधियः महारम्भाः निराकुलाः च तिष्ठन्ति ।।
पदच्छेदः – आरम्भते अल्पम् अज्ञाः कामं व्यग्रा भवन्ति च महारम्भाः कृतधियः तिष्ठन्ति च
निराकुलाः॥
उपायमस्थितस्यापि
नश्यन्त्यर्थाः
प्रमाद्यतः।
हन्ति नोपशयस्थोऽपि
शयालुर्मृगयुर्मृगान्॥2.80॥
अन्वयः- उपायम अस्थितस्य अपि प्रमाद्यतः अर्थाः
नश्यन्ति शयालुः मृगयुः उपयश्थ अपि मृगान् न हन्ति ।।
पदच्छेदः- उपायम अस्थितस्य अपि नश्यन्ति अर्थाः प्रमाद्यतः हन्ति न उपशयस्थ अपि शयालुः मृगयुः
मृगान् ।।
उदेतुमत्यजन्नीहां
राजसु द्वदशस्वपि।
जिगीषुरेको दिनकृद्
आदित्येष्विव कल्पते॥2.81॥
अन्वयः- जिगीषुः एकः द्वादशसु अपि राजसु आदित्येषु दिनकृत इव इहाम् अत्यजन उदेतुं कल्पते ।
पदच्छेदः – उदेतुं अत्यजन इहां राजसु द्वदशसु अपि जिगीषुः एकः दिनकृत् आदित्येषु इव कल्पते ।।
बुद्धिशस्त्रः
प्रकृत्यङ्गो
घनसंवृतिकञ्चुकः।
चारेक्षणो दूतमुखः
पुरुषः कोऽपि पार्थिवः॥2.82॥
अन्वयः- बुद्धिशस्त्रः प्रकृत्यङ्गः घनसंवृतिकञ्चुकः चारेक्षणो
दूतमुखः पार्थिवः कः अपि पुरुषः ।।
पदच्छेदः - बुद्धिशस्त्रः प्रकृत्यङ्गः घनसंवृतिकञ्चुकः चारेक्षणो
दूतमुखः पुरुषः कः अपि पार्थिवः ।।
तेजः क्षमा वा नैकान्तं
कालज्ञस्य महीपतेः।
नैकमोजः प्रसादो वा
रसभावविदः कवेः॥2 .83॥
अन्वयः- कालज्ञस्य महीपतेः तेजः क्षमा वा एकान्तं न रसभावविदः कवेः एकम् ओजः प्रसादो वा न ।।
पदच्छेदः - तेजः क्षमा वा न एकान्तं कालज्ञस्य महीपतेः न एकम् ओजः प्रसादो वा रसभावविदः कवेः ।
कृतापराधोऽपि परैर्
अनाविष्कृतविक्रियः।
असाध्यः कुरुते कोपं
प्राप्ते काले गदो यथा॥2.84॥
अन्वयः- परै कृतापराधः अपि
अनाविप्कृतविक्रियः असाध्य गदः यथा काले
प्राप्ते कोपं कुरुते ।।
पदच्छेदः- कृतापराधः अपि परै अनाविष्कृतविक्रियः असाध्यः कुरुते
कोपं प्राप्ते काले गदो यथा
मृदुव्यवहितं तेजो
भोक्तुमर्थान्प्रकल्पते।
प्रदीपः स्नेहमादत्ते
दशयाभ्यन्तरस्थया॥2.85॥
अन्वयः मृदु व्यवहितं तेजः अरथात भोक्तुम् प्रकल्पते प्रदीपः अभ्यन्तरस्थया दशया स्नेहम् आदत्ते ।।
पदच्छेदः – मृदु व्यवहितं तेजो अरथात भोक्तुम् प्रकल्पते प्रदीपः स्नेह आदत्ते दशया अभ्यन्तरस्थया ।।
नालम्बते दैष्ठिकतां
न निषीदति पौरुषे।
शब्दार्थौ सत्कविरिव
द्वयं विद्वानपेक्षते॥2.86॥
अन्वयः- विद्वान् दैष्ठिकतां नालम्बते पौरुषे च न ऩिषीदति
सत्कविः शब्दार्थौ इव द्वयम् अपेक्षते ।।
पदच्छेदः - नालम्बते दैष्ठिकतां न निषीदति पौरुषे शब्दार्थौ सत्कवि इव द्वयं विद्वान् अपेक्षते ।।
स्थायिनोऽर्थे
प्रवर्तन्ते
भावाः संचारिणो यथा।
रसस्यैकस्य भूयांसस्
तथा नेतुर्महीभृतः॥2.87॥
अन्वयः-रसस्य एकस्य अर्थे
भूयांसः संचारिणः भावाः यथा प्रवतन्ते तथा स्थायिनः नेतुं अर्थे महीभृतः ।।
पदच्छेदः – स्थायिनः अर्थे प्रवर्तन्ते भावाः संचारिणो यथा रसस्य एकस्य भूयांस तथा नेतुं महीभृतः
।।
तन्त्रावापविदा योगैर्
मण्डलान्यधितिष्ठिता।
सुनिग्रहानरेन्द्रेण
फणीन्द्रा इव शत्रवः॥2.88॥
अन्वयः तन्त्रावापविदा योगैः नरेन्द्रेण शत्रवः फणीन्द्रा इव सुनिग्रहाः ।।
पदच्छेदः -तन्त्रावापविदा योगैः मण्डलानि अधितिष्ठिता सुनिग्रहाः नरेन्द्रेण फणीन्द्रा इव
शत्रवः॥
करप्रचेयामुत्तुङ्गः
प्रभुशक्तिं प्रथीयसीम्।
प्रज्ञाबलबृहन्मूलः
फलत्युत्साहपादपः॥2.89॥
अन्वयः-उत्तुङ्गः प्रज्ञाबलबृहन्मूलः उत्साहपादपः करप्रचेयां प्रथीयसीं प्रभुशक्तिं फलति ।।
पदच्छेदः – करप्रचेया उत्तुङ्गः प्रभुशक्तिं प्रथीयसीम् प्रज्ञाबलबृहन्मूलः फलति उत्साहपादपः ।।
अनल्पत्वात्प्रधानत्वाद्
वंशस्येवेतरे स्वराः।
विजिगीषोर्नृपतयः
प्रयान्ति परिवारताम्॥2.90॥
अन्वयः- अनल्पत्वात् प्रधानत्वात् वंशस्य इतरे स्वराः इव विजिगीषो नृपतयः परिवारतां प्रयान्ति ।।
पदच्छेदः -- अनल्पत्वात् प्रधानत्वात् वंशस्य इतरे स्वराः विजिगीषो नृपतयः प्रयान्ति परिवारताम् ।।
अप्यनारभमाणस्य
विभोरुत्पादिताः परैः।
व्रजन्ति गुणतामर्थाः
शब्दा इव विहायसः॥2.91॥
अन्वयः- अप्यनारभमाणस्य अपि विभोः परै उत्पादिताः अर्थाः विहायसः शब्दाः इव गुणतां
व्रजन्ति ।।
पदच्छेदः अप्यनारभमाणस्य विभोः उ त्पादिताः परैः व्रजन्ति गुणताम अर्थाः शब्दा इव
विहायसः ।।
यातव्यपार्ष्णिग्राहादिम्
आलायामधिकद्युतिः।
एकार्थतन्तुप्रोतायां
नायको नायकायते॥2.92॥
अन्वयः- एकार्थतन्तुप्रोतायाम् यातव्य पार्ष्णिग्राहादिमार्लायाम्
अधिकद्युतिः नायकः नानकायते ।।
पदच्छेदः - यातव्य पार्ष्णिग्राहादिमार्लायाम् अधिकद्युतिः एकार्थः तन्तुप्रोतायां नायको नायकायते ।।
षाड्गुण्यमुपयुञ्जीत
शक्त्यपेक्षो रसायनं।
भवन्त्यस्येवमङ्गानि
स्थास्नूनि बलवन्ति च॥2.93॥
अन्वयः- शक्त्यपेक्षः षाड्गुण्यं रसायनम् उपयुञ्जीत , एवम् अस्य
अङ्गानि स्थास्नूनि वलवन्ति च भवन्ति ।।
पदच्छेदः – षाड्गुण्यं उपयुञ्जीत शक्त्यपेक्षो रसायनं भवन्ति अस्य , एवम् अङ्गानि स्थास्नूनि
वलवन्ति च ।।
स्थाने शमवतां शक्त्या
व्यायामे
वृद्धिरङ्गिनां।
अयथाबलमारम्भो
निदानं क्षयसंपदः॥2.94॥
अन्वयः-स्थाने शमवताम् अङ्गिताम् शक्त्या व्यायामे वृद्धिः अयथा बलम् आरम्भः क्षयसम्पदः निदान ।।
पदच्छेदः - स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां
अयथा बलमम आरम्भः निदानं क्षयसंपदः ।।
तदीशितारं चेदिनां
भवांस्तमवमंस्त मा।
निहन्त्यरीनेकपदे
य उदात्तः स्वरानिव॥2.95॥
अन्वयः-तत् चेदीनाम् इशितारम् भवान् मा अवमंस्त यः उदात्तः स्वरान् इव अरीन
एकपदे निहन्ति ।।
पदच्छेदः – तद इशितारं चेदिनां
भवान् मा अवमंस्त निहन्ति अरीन एकपदे य उदात्तः स्वरान् इव ।।
मा वेदि यदसावेको
जेतव्यश्चेदिराडिति।
राजयक्ष्मेव रोगाणां
समूह स महीभृतां॥2.96॥
अन्वयः-असौ चेदिराट् एकः अतः जेतव्य इति मा वेदि यत् सः रोगाणाम् मध्ये राजयक्ष्मा इव महीभृतां समूहः ।।
पदच्छेदः - मा वेदि यत् सा एकः जेतव्य इति चेदिराट्
राजयक्ष्मा इव रोगाणाम् समूह स महीभृतां ।।
संपादितफलस्तेन
सपक्षः परभेदतः।
कार्मुकेणेवगुणिना
बाणः संधानमेष्यति॥2.97॥
अन्वयः-सम्पादितफलः सपक्षः
परभेदनः बाणः गुणिना तेन कार्मुकेण इव
सन्धानम् एष्यति ।।
पदच्छेदः – संपादितफलः तेन सपक्षः परभेदतः कार्मुकेण इव
गुणिना बाणः सन्धानम् एष्यति ।।
ये चान्ये कालयवनश्
आल्वरुक्मिद्रुमादयः।
तमःस्वभावास्तेऽप्येनं
प्रदोषमनुयायिनः॥2.98॥
अन्वयः- ये च अन्ये कालयवनशाल्वरुक्मिद्रुमादयः तमः स्वभावाः ते अपि प्रदोष एनम् अनुयायिनः ।।
पदच्छेदः - ये च अन्ये कालयवनशाल्वरुक्मिद्रुमादयः
तमः स्वभावाः ते अपि एनम् प्रदोष अनुयायिनः ।।
उपजापः कृतस्तेन
तानाकोपवतस्त्वयि।
आशु दीपयिताल्पोऽपि
साग्नीनेधानिवानिलः॥2.99॥
अन्वयः-तेन कृतः उपजापः अल्प अपि
त्वयि अकोपवतः तान अनिलः साद्दीन एधान् आशु दीपयिता ।।
पदच्छेदः - उपजापः कृत तेन तान अकोपवतः त्वयि आशु दीपयिता अल्प अपि साद्दीन
एधान् अनिलः ।।
बृहत्सहायः कार्यान्तं
क्षोदीयानपि गच्छति।
संभूयाम्भोधिमभ्येति
महानद्या नगापगा॥2.100॥
अन्वयः- क्षोदीयान् अपि बृहत्सहायः कार्यान्तं गच्छति नगापगा
महानद्या सन्भूय अम्भोदिम् अभ्येति ।।
पदच्छेदः - बृहत्सहायः कार्यान्तं क्षोदीयान् अपि गच्छति सन्भूय अम्भोदिम्
अभ्येति महानद्या नगापगा ।।
तस्य
मित्राण्यमित्रास्ते
ये च ये चोभये नृपाः।
अभियुक्तं त्वयैनं ते
गन्तारस्त्वामतः परे॥2.101॥
अन्वयः-ये च अस्य मित्राणि ये च अमित्राः ते उभये नृपाः त्वया अभिमुक्तम्
एनम् गन्तारः अतः परे त्वाम्
गन्तारः ।।
पदच्छेदः - तस्य मित्राणि अमित्रा ते ये च ये च उभये नृपाः अभियुक्तं त्वया एनम् ते गन्तारः अस्य अतः ।।
मखविघ्नाय सकलम्
इत्थमुत्थाप्य राजकम्।
हन्त जातमजातारेः
प्रथमेन त्वयारिणा॥2.102॥
अन्वयः-इत्थं मखविघ्नाय सकलं राजकम् उत्थाप्य हन्त अजातारेः प्रथमेन अरिणा त्वया जातम् ।
पदच्छेदः - मखविघ्नाय सकलम् इत्थम उत्थाप्य राजकम् हन्त अजातारेः प्रथमेन अरिणा त्वया ।।
संभाव्य त्वामतिभरक्
षमस्कन्धं सबान्धवः।
सहायमध्वरधुरां
धर्मराजो विवक्षते॥2.103॥
अन्वयः-बान्धवः सः धर्मराजः अतिभरक्षमस्कन्धं त्वाम् सहायम् सम्भाव्य अध्वधुरां विवक्षते ।।
पदच्छेदः -संभाव्य त्वाम् अतिभरक्षमस्कन्धं सः बान्धवः सहायम् अध्वधुरां
धर्मराजो
विवक्षते॥
महात्मनोऽनुगृह्णन्ति
भजमानान्रिपूनपि।
सपन्तीः
प्रापयन्त्यब्धिं
सिन्धवो नगनिम्नगाः॥2.104॥
अन्वयः-महात्मनः भजमानान् रिपून् अपि
अनुग्रण्हन्ति सिन्धवः सपत्नीः नगनिम्नगाः अब्धि
प्रापयन्ति ।।
पदच्छेदः – महात्मनः अनुग्रण्हन्ति भजमानान् रिपून् अपि सपन्तीः प्रापयन्ति अब्धिं सिन्धवो
नगनिम्नगाः॥
चिरादपि बलात्कारो
बलिनः सिद्धयेऽरिषु।
छन्दानुवृत्तिदुःसाध्याः
सुहृदो विमनीकृताः॥2.105॥
अन्वयः-बलिनः चिरात् अपि अरिषु बलात्कारः
सिद्धये विमनीकृताः सुह्रदः छन्दानुवृत्तिदुःसाध्याः ।।
पदच्छेदः - चिरात् अपि बलात्कारो बलिनः सिद्धये अरिषु छन्दानुवृत्तिदुःसाध्याः सुहृदो
विमनीकृताः॥
मन्यसेऽरिवधः श्रेयान्
प्रीतये नाकिनामिति।
पुरोडाशभुजामिष्टम्
इष्टं कर्तुमलन्तरां॥2.106॥
अन्वयः-नाकिनां प्रीतये अरिवधः
श्रेयान् इति मन्यसे चेत् पुरोडाशभुजाम् इष्टं कर्तुं इष्टम् अलन्तराम् ।।
पदच्छेदः – मन्यसे अरिवधः श्रेयान् प्रीतये नाकिनां इति पुरोडाशभुजाम् इष्टं इष्टं कर्तुं अलन्तराम् ।।
अमृतं नाम यत्सन्तो
मन्त्रजिह्वेषु जुह्वति।
शोभैव मन्दरक्षुब्धक्
षुभिताम्भोधिवर्णना॥2.107॥
अन्वयः- सन्तः मन्त्रजिह्वेषु यत् जुह्यति तत् अमृतं नाम
मन्दरक्षुब्धक्षुभिताम्भोधिनर्णना शोभा एव ।।
पदच्छेदः - अमृतं नाम यत् सन्तः मन्त्रजिह्वेषु जुह्वति शोभा एव
मन्दरक्षुब्धक्षुभिताम्भोधिनर्णना ।।
सहिष्ये शतमागांसि
सूनोस्त इति यत्वया।
प्रतीक्ष्यं
तत्प्रतीक्ष्यायै
पितृष्वस्रे
प्रतिश्रुतम्॥2.108॥
अन्वयः-प्रतीक्ष्यायै पितृष्वस्रे ते सूनोः शतम्
आगांसि सहिष्ये इति यत् त्वया प्रतिश्रुतम् अपि प्रतीक्ष्यम् ।।
पदच्छेदः - सहिष्ये शतम् आगांसि सूनोः इति यत्
त्वया प्रतीक्ष्यं तत् प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम् ।।
तीक्ष्णा नारुन्तुदा
बुद्धिः
कर्म शान्तं प्रतापवत्।
नोपतापि मनः सोष्मव्
आगेका वाग्मिनः सतः॥2.109॥
अन्वयः-सतः बुद्धिः तीक्ष्णा अरुन्तुदा न, सतः कर्म प्रतापवत् शान्तम् सतः मनः
सोष्म उपतापि न, वाग्मिनः वाक् अपि एका भवति ।।
पदच्छेदः – तीक्ष्णा न अरुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् न उपतापि मनः सोष्म वाक् एका वाग्मिनः सतः॥
स्वयङ्कृतप्रसादस्य
तस्याह्नो भानुमानिव।
समयावधिमप्राप्य
नान्तायालं भवानपि॥2.110॥
अन्वयः- किञ्च अह्यः भानुमान् इव
स्वयंकृतप्रसादस्य तस्य अन्ताय
समयावधिम् अप्राप्य भवान् अपि न अलम् ।।
पदच्छेदः – स्वयंकृतप्रसादस्य तस्य अह्यः भानुमान् इव समयावधिम् अप्राप्य न अन्ताय अलम् भवान् अपि
।।
कृत्वा
कृत्यविदस्तीर्थेष्
वन्तः प्रणिधयः पदम्।
विदां कुर्वन्तु महतस्
तलं विद्विषदम्भसः॥2.111॥
अन्वयः-कृत्यविदः प्रणिधयः तीर्थेषु
अन्तः पदं कृत्वा महतः विद्विषदम्भसः तलं विदाङ्कुर्वन्तु ।।
पदच्छेदः - कृत्वा कृत्यविदः तीर्थेषु अन्तः प्रणिधयः
पदम् विदां कुर्वन्तु महतः तलं विद्विषदम्भसः ।।
अनुत्सूत्रपदन्यासा
सद्वृत्ति सन्निबन्धना।
शब्दविद्येव नो भाति
राजनीतिरपस्पशा॥2.112॥
अन्वयः- अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना राजनीतिः अपस्पशा शब्दविधा इव नो भाति
।।
पदच्छेदः – अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना शब्दविधा इव नो भाति राजनीतिः अपस्पशा ।।
अज्ञातदोषैर्देषज्ञैर्
उद्दूष्योभयवेतनैः।
भेद्याः
शत्रोरभिव्यक्तश्
आसनैः सामवायिकाः॥2.113॥
अन्वयः-अज्ञातदोषैः दोषज्ञैः अभिव्यक्तशासनैः उभयवेतनैः शत्रौः सामवायिकाः उद्दूष्य भेद्याः ।।
पदच्छेदः --अज्ञातदोषैः दोषज्ञैः उद्दूष्य भयवेतनैः भेद्याः शत्रोः अभिव्यक्तशासनैः सामवायिकाः ।।
उपेयिवांसि कर्तारः
पुरीमाजातशत्रवीम्।
राजन्यकान्युपायज्ञैर्
एकार्थानि चरैस्तव॥2.114॥
अन्वयः- उपायज्ञैः तव चरैः एकार्थानि राजन्यकानि अज्ञातशात्रवीं पुरीम् उपेयिवांसि कर्तारः ।।
पदच्छेदः - उपेयिवांसि कर्तारः पुरीम् अज्ञातशात्रवीं राजन्यकानि उपायज्ञैः एकार्थानि चरैः तवः॥
सविशेषं सुते पाण्डोर्
भक्तिं भवति तन्वति।
वैरायितारस्तरलाः
स्वयं मत्सरिणः परे॥2.115॥
अन्वयः-पण्डोः सुते सविशेषं तथा भक्तिं तन्वति तरलाः मत्सरिणः परे स्वयं वैरायितारः ।।
पदच्छेदः -सविशेषं सुते पाण्डो भक्तिं भवति तन्वति वैरायितारः तरलाः स्वयं मत्सरिणः
परे॥
य इहात्मविदो
विपक्षमध्ये
सह संवृद्धियुजोऽपि
भूभुजः स्युः।
बलिपुष्टकुलादिवान्यपुष्टैः
पृथगस्मादचिरेण भाविता
तैः॥2.116॥
अन्वयः-इह विपक्षमध्ये सह संवृद्धियुजः अपि ये भूभुजः आत्मविदः स्युः तै
बलिपुष्टकुलात् अन्यपुष्टैः इव अस्मात् अचिरेण प्रथक् भविता ।।
पदच्छेदः - य इह आत्मविदो विपक्षमध्ये सह संवृद्धियुजः अपि भूभुजः स्युः
बलिपुष्टकुलात् अन्यपुष्टैः पृथक् अस्मात् अचिरेण भाविता तैः॥
सहमचापलदोषसमुद्धतश्
चलितदुर्बलपक्षपरिग्रहः।
तव दुरासदवीर्यविभावसौ
शलभतां लभतामसुहृद्गणः॥2.117॥
अन्वयः- सहमचापलदोषसमुद्धतः चलितदुर्बलपक्षपरिग्रहः असुहृद्गणः तव दुरासदवीर्यविभावसौ शलभतां लभताम् ।
पदच्छेदः - सहमचापलदोषसमुद्धतः चलितदुर्बलपक्षः परिग्रहः तव दुरासदवीर्यविभावसौ शलभतां
लभताम् असुहृद्गणः ।।
इति
विशकलितार्थमौद्धवींवाचमेनाम्
अनुगतनयमार्गमर्गलां
दुर्नयस्य।
जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरः
स्थलनियतनिषण्णश्रीश्रुतां
शुश्रुवान्सः॥2.118॥
अन्वयः- इति सः विशकलितार्थाम् अनुगतनयमार्गाम् दुर्नयस्य अर्गलां
जनितमुदम् उच्छ्रितोरः स्थलनियतनिषण्णश्रीश्रुताम् एनाम्
औद्धवीम् वाचम् शुश्रुवान् उदस्थात् ।।
पदच्छेदः - इति विशकलितार्थम् औद्धवींम् वाचम् एनाम् अनुगतनयमार्गाम अर्गलां दुर्नयस्य जनितमुदम् उदस्थात् उच्च एकः उच्छ्रितोरः स्थलनियतनिषण्णश्रीश्रुतां
शुश्रुवान्सः ।।
शिव त्रिपाठी
रा.सं.सं. भोपाल परिसर भोपाल