बुधवार, 8 फ़रवरी 2017

संख्यागीतम

                          संख्यागीतम
                                                       सकृत्  दृश्यताम 


संस्कृतसेवकः 


रविवार, 5 फ़रवरी 2017

स्वस्थाने आत्मन्‌ एव श्रेष्ठः

                                             लघुकथा


  एकदा लक्ष्मीः सरस्वत्योः मध्ये का श्रेष्ठा इति प्रश्नः प्रादुरभूत्‌। उभे स्वस्याः स्वस्याः श्रेष्ठतां ज्ञातुं भूलोके प्राप्तवत्यौ। ते उभे कश्चित्‌ केदारे आगतवतौ। ‘‘पश्य सरस्वती ! अहं एवं कर्षकं मम महिमया बृहत्‌ श्रीमन्तं करोमि’’ इत्युक्त्वा तस्य संमुखे अनेक रत्न शिला खण्डानि वर्षितवतीलक्ष्मीः तदा मम अनुग्रहं विना तत्‌ असाध्यम्‌’’ इत्युक्त्वा सरस्वती तस्य कर्षकस्य विवेचना शक्तिं अपसारितवती। कर्षकः केदारं कर्षण समये पतितानि रत्न खण्डानि दृष्ट‰ा अपि विवेक शून्येन न अभिज्ञातवान्‌। किमर्थं चेत्‌ तस्य बुद्धि शक्तिं शून्यं कृतवती सरस्वती। तदा केचन वर्तकाः तस्मिन्‌ मार्गे आगच्छतः, पुरतः एव पतितानि अमूल्य रत्नानि दृष्ट‰ा, क्षेत्रे कर्षते कृषकाय तेषां मौल्यं न जानाति स्म तदपि वर्तकाः ज्ञातवन्तः। हे कर्षक ! पश्य एतानि अश्म खण्डानि हलाय घट्टति चेत्‌ हलः भग्नो भवेत्‌। अतः वयं एतानि नयामः इत्यवदन्‌ वर्तकाः। ‘‘बहुसमीचीनम्‌’’ इत्युत्तरितवान्‌ कर्षकः। तदा सरस्वती ‘‘इदानीं अहं तस्मै विवेचना शक्तिं ददामि’’ इत्युक्त्वा कर्षकं अनुगृहीतवती। क्षेत्रं कर्षतः कृषकः रत्नमेकं दृष्टवान्‌, तत्‌ अमूल्यम्‌ इत्यपि ज्ञातवान्‌। स तं रत्ं विक्रीय बृहत्‌ श्रीमन्तो भूत्वा सुखेन जीवितवान्‌ ।   


                               

संस्कृतसेवकः 

यत्रयत्रधूमस्त्राग्निनियमोसह्चर्य्चर्य्नियमोव्यप्त्तिः

  

                                             यत्र धूमस्तत्राग्निः






दण्डकारण्ये नर्मदानद्यास्तीरे कश्चन ऋष्याश्रमः। तत्र उतथ्यनामा महर्षिः अवर्तत। सः उग्रतपाः, सत्यवाक्‌, दयापरश्च। एकदा सःनर्मदां गत्वा, स्नानाह्निकादीनि कर्तव्यानि पूरयित्वा, आश्रममागत्य ध्यानपरायणः निमीलितलोचनः उपविशति स्म। तस्य यज्ञवाट्यां ऋत्विजः उच्चैः मंत्रान्‌ घोषयन्तःजुह्नति स्म । तदा उतथ्यस्य महर्षेः ध्यानस्य भंगं कुर्वन्‌कश्चन एणःधावन्‌ आगत्य तं शरणं जगाम, यज्ञवाटीं च प्रविवेश। प्रविशन्तं हरिणं उतथ्यः ददर्श। तस्मिन्नेव क्षणे हरिणमनुसृत्य कश्चन घरोः व्याघ्रः आजगामः। महर्षिं दृष्ट‰ा स भीतः, विनीतवत्‌ पप्रच्छ च । ‘‘महर्षे, मम आहारभूतः मृगाः त्वया दृष्टः किम्‌ । यदि तथा सत्यवाक्‌ भवान्‌ मम कथयतु, तत्‌ कुत्र गत इति’’। सत्यप्रेमी सः किमपि नावदत्‌ । व्याघ्रस्तु पुनः पुनः पप्रच्छ । किंचिदालोच्य सः प्रत्युत्तरमदात्‌ ‘‘व्याघ्र, किमिति त्वा वच्मि । नेत्रे पश्यतः ते वक्तुं न शक्नुतः। जिह्वां वदति । सा न पश्यति ते वक्तुं न शक्नुतः। जिह्वां वदति । सा न पश्यति। त्वया जिह्वा पृच्छ्यते यस्याः दृष्टियोग्यता न। ये अपश्यतां ते न वदतः’’इति। तदुत्तरं श्रुत्वा व्याघ्रः न्यवर्तत। हरिणश्च रक्षितः। महात्मनः तार्किकी एषा प्रतिभा पसिद्धस्य तर्कशास्त्रस्य उद्गमे निदानमभूत्‌ ।
                                                        

संस्कृतसेवकः 

शुक्रवार, 3 फ़रवरी 2017

धातुगण-परिचयः

                       

                       धातुगण-परिचयः




एतावता अस्माभिः दृष्टं यत्‌ धातूनां दशगणाः सन्तितथा च विकरण-प्रत्ययेन गणाः भिद्यन्ते |



पठति पठ्‌ अ ति

पठ्‌ – धातुः [अर्थं निर्दिशति]

अ – विकरण-प्रत्ययः [गणं निर्दिशति]

ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति]



विकरण-प्रत्ययस्य मूल-रूपं भवति धातुतः क्रियापदस्य निर्माणार्थं सोपानानि सन्ति सोपानेषु विकरण-प्रत्ययस्य रूपं परिवर्तते उदाहरणार्थं भ्वादिगणे विकरण-प्रत्ययः शप्‌ सोपानेषु लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपस्य निर्माणेविकरण-प्रत्ययः शप्‌ → "इति भवति एवमेव दशसु लकारेषु—



गणःविकरण-प्रत्ययस्य मूल-रूपम्‌लट्‌ लकारस्य प्रथमपुरुषैकवचनरूपे विकरण-प्रत्ययस्य आकृतिः
१ भ्वादिगणःशप्‌
२ अदादिगणःनास्ति [शप्‌ लोपः]नास्ति
३ जुहोत्यादिगणःनास्ति [शप्‌ लोपः]नास्ति
४ दिवादिगणःश्यन्‌
५ स्वादिगणःश्नुनो
६ तुदादिगणः
७ रुधादिगणःश्नम्‌
८ तनादिगणः
९ क्र्यादिगणःश्नाना
१० चुरादिगणःणिच्‌ शप्‌अय



उपरि स्थिते कोष्ठके पश्यामः यत्‌ मूल-विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति किन्तु तस्मिन्‌ एव कोष्ठके पश्यामः यत्‌ लट्‌-लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति किमर्थम्‌ इति चेत्‌सोपानेषु तानि व्यञ्जनानि अपगच्छन्तिनाम तेषां लोपः भवति यस्य लोपः भवतितस्य विशिष्टं नाम अस्ति— 'इत्इति संज्ञा तर्हि विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानाम्‌ इत्‌-संज्ञा भवति किमर्थम्‌ आरम्भे एतानि व्यञ्जनानि आसन्‌ यदि गच्छन्ति एव तैः वर्णैः कार्यं निर्दिष्टम्‌ अस्ति अपि च तत्‌ कार्यं एषां वर्णानां गमनानन्तरम्‌ अपि सिध्यति तत्‌ कार्यं किम्‌ इति अग्रे पश्यामः |



कः धातुः कस्मिन्‌ गणे प्रविष्टः इति ज्ञातव्यम्‌ अस्माभिः किल एतावता भवन्तः प्रायः मूल-विषयम्‌ अवगच्छन्ति— नामविकरण-प्रत्ययम्‌ अधिकृत्य गणः निर्णेतव्यः प्रथमे करपत्रे च कथं निर्णीयते इति प्रदर्शितंपरन्तु कुत्रचित्‌ विषयः भ्रमात्मकः भवति तानि भ्रमात्मकानि स्थलानि अधुना अवलोकयाम |



विकरण-प्रत्ययः नास्ति चेत्‌धातुः द्वितीयगणे वातृतीयगणे वा ?

अदादिगणे सारल्यम्‌ अस्ति— अस्‌ ति अस्ति अस्‌ति इत्यनयोः मध्ये किमपि नास्तिअतः द्वितीयः गणः |

जुहोत्यादिगणे यद्यपि विकरण-प्रत्ययः नास्तिपरन्तु धातोः द्वित्वम्‌ अस्ति दा → ददातिभी → बिभेति द्वित्वम्‌ अस्ति इति कारणतः सुलभतया अवगच्छामः तृतीयगणःअतः द्वित्वं तृतीयगणस्य लक्षणम्‌ |



चतुर्थः गणः वा दशमः गणः वा ?

दिवादिगणे विकरण-प्रत्ययस्य केवलं "इति भागः दृश्यते क्रियापदे |

चुरादिगणे विकरण-प्रत्ययस्य "अयइति भागः दृश्यते क्रियापदे |



नश्‌ य ति नश्यति

कथ्‌ अय ति कथयति



भेदः अवगतः किल नश्‌ इत्यस्य अनन्तरम्‌ 'न आगच्छतिकेवलं '' | अतः चतुर्थगणः कथ्‌ इत्यस्य अनन्तरम्‌ 'अस्तितदा ''; आहत्य 'अय' | अतः दशमगणः |



पञ्चमः गणः वा अष्टमः गणः वा ?

स्वादिगणे लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपेविकरण-प्रत्ययस्य 'नोइति भागः दृश्यते |

तनादिगणे लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपेविकरण-प्रत्ययस्य केवलम्‌ 'इति भागः दृश्यते |



"नो" "इत्यनयोः भेदः |



शक्‌ नो ति शक्नोति

तन्‌ ओ ति तनोति



भेदः अवगतः किल पञ्चमगणे नकारः विकरण-प्रत्यये अस्तिअष्टमगणे नकारः धातौ अस्ति |



प्रथमः गणः वा षष्ठः गणः वा ?



अस्य भेदस्य अवगमनार्थम्‌ अग्रिमं करपत्रं पठति चेत्‌ वार्ता स्पष्टा भविष्यति इति मन्ये |
                                                                      

समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं   वा पदत्रयं   वा परस्परं समस्यते स   सम ु दायः   समासः    इति । प्राक्कडारा समासः [i] - समासस...