रविवार, 5 फ़रवरी 2017

स्वस्थाने आत्मन्‌ एव श्रेष्ठः

                                             लघुकथा


  एकदा लक्ष्मीः सरस्वत्योः मध्ये का श्रेष्ठा इति प्रश्नः प्रादुरभूत्‌। उभे स्वस्याः स्वस्याः श्रेष्ठतां ज्ञातुं भूलोके प्राप्तवत्यौ। ते उभे कश्चित्‌ केदारे आगतवतौ। ‘‘पश्य सरस्वती ! अहं एवं कर्षकं मम महिमया बृहत्‌ श्रीमन्तं करोमि’’ इत्युक्त्वा तस्य संमुखे अनेक रत्न शिला खण्डानि वर्षितवतीलक्ष्मीः तदा मम अनुग्रहं विना तत्‌ असाध्यम्‌’’ इत्युक्त्वा सरस्वती तस्य कर्षकस्य विवेचना शक्तिं अपसारितवती। कर्षकः केदारं कर्षण समये पतितानि रत्न खण्डानि दृष्ट‰ा अपि विवेक शून्येन न अभिज्ञातवान्‌। किमर्थं चेत्‌ तस्य बुद्धि शक्तिं शून्यं कृतवती सरस्वती। तदा केचन वर्तकाः तस्मिन्‌ मार्गे आगच्छतः, पुरतः एव पतितानि अमूल्य रत्नानि दृष्ट‰ा, क्षेत्रे कर्षते कृषकाय तेषां मौल्यं न जानाति स्म तदपि वर्तकाः ज्ञातवन्तः। हे कर्षक ! पश्य एतानि अश्म खण्डानि हलाय घट्टति चेत्‌ हलः भग्नो भवेत्‌। अतः वयं एतानि नयामः इत्यवदन्‌ वर्तकाः। ‘‘बहुसमीचीनम्‌’’ इत्युत्तरितवान्‌ कर्षकः। तदा सरस्वती ‘‘इदानीं अहं तस्मै विवेचना शक्तिं ददामि’’ इत्युक्त्वा कर्षकं अनुगृहीतवती। क्षेत्रं कर्षतः कृषकः रत्नमेकं दृष्टवान्‌, तत्‌ अमूल्यम्‌ इत्यपि ज्ञातवान्‌। स तं रत्ं विक्रीय बृहत्‌ श्रीमन्तो भूत्वा सुखेन जीवितवान्‌ ।   


                               

संस्कृतसेवकः 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं   वा पदत्रयं   वा परस्परं समस्यते स   सम ु दायः   समासः    इति । प्राक्कडारा समासः [i] - समासस...