गुरुवार, 29 दिसंबर 2022


श्री मद्भगवद्गीता महिमा


पद्मनाम मुखाम्भोज मकरन्द स्वरुपिणाम् ।

गीतामास्ववादते कोऽपि धन्यो हि मधुयोनरः ।।

अमृतस्य च गीताया दूरमत्यन्तममन्तरम् ।

अमृतं साधनं तन्वाः गीता मूर्तिश्चीदात्मनः ।।

क्षोरोदमथनोद्भूतममृक्तं विष्णुबाहुभिः ।

गीता तु मंथनाज्जाता योगशक्तिविचारयोः ।।

न कल्पवृक्षो न च कामधेनु गौर्हिवा ।

चिन्तामर्णिनैव च दिव्य सिद्धयः ।।

पुण्यानि सर्ववाण्यऽपि नो कदापि वै ।

भवन्ति तुल्यन्यनया सुगीतया ।।

श्रीमद्भागवत च रामचरितं हिन्दीकृतं पावनम् ।

तुल्ये श्री हरिगीतयेह जगति रत्ने हि वैद्वे इमे ।।

एतेषु क्रियतां सदासुपुरषाः  श्रद्धा च प्रीतिः सदा ।

सौविध्यं पठनेस्य चेष्वापि मतं गीतासुधीमता ।।

 

 

नमः कालिदासाय गुरवे कवीनाम् ,

प्रियं यस्यं काव्यं बुधानां सुधीनाम् ।।

शिवं सुन्दरं सत्यमान्नदादं यद् ,

परं भूषणं देववाण्या मतं मे ।।

सुधा स्त्रोत एकं सुरचनावलीनाम् ,

अभिज्ञानशाकुन्तलं कस्यचितं ,

न हर्तुं  क्षमं नाट्यसाहित्यवित्तं ।।

समारधनं सर्व पुस्त्रीरुचीनाम् ,

तथैवास्ति लोके प्रियं मेघदूतम्।

हृदेवेति मन्ये नृण्मं काव्यरुपम् ।।

महाकव्ययोः श्रेष्ठता संत्कृतीनाम् ।

स्वदेशे विदेशो यशो यस्य शुभ्रम् ।

तनोतीह सदगौरवं भारतस्य ।

कवी-राष्ट्र रुपो विधाता विधीनाम् ।।

 

जनाः सर्वदा रामनाम स्मरन्तु ।

विनायास मेवं भवाधिं तरन्तु ।।

युगेऽस्मिन् कलौ कोऽपि नान्यो विकल्पः ।

भवश्रान्तलोकाय नामैव तल्पः ।

विनाशाय पापस्य नामारटन्तु ।। जनाः..........

व्ययो व श्रमो व न तत्रास्ति कश्चिद् ।

न वा देश कालादि बाधा कुतश्चिद् ।।

सदा राम- रामेति मंत्रं जपन्तु ।

कदा मृत्यु रायान्न  जानाति लोकः ।।

सदा राम नामस्मृतौ  नास्ति शोकः  ।

अतः सर्वदा राम नाम ब्रुवन्तु  ।। जनाः..........

जयति गायत्री जनानां प्राणशक्ति विवर्द्धिती ।

जयति जगदम्बा सदा सा बुद्धि दोष विनश्यति ।।

सैव विश्वामित्रमानस जाह्नवी कल्याणदा ।

सर्वदा च वशिष्ठ तेजो वार्द्धिनी वर्चः प्रदा ।।

भूर्भूवः स्वव्यार्पिनी सत्प्रेरणा स्त्रोतास्विभी ।

ब्रह्मशक्तिः सर्वरुपा सर्वरुपा सर्वलोकहितैषिणी ।।

त्राहि-त्राहि समस्त विश्वं जनानि संकटहारिणि ।


                                                               रचनाकार-स्व श्री गोकुल प्रसाद त्रिपाठी



                                                                                                    जयतु संस्कृतं जयतु भारतम्

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं   वा पदत्रयं   वा परस्परं समस्यते स   सम ु दायः   समासः    इति । प्राक्कडारा समासः [i] - समासस...