दण्डकारण्ये नर्मदानद्यास्तीरे कश्चन ऋष्याश्रमः। तत्र उतथ्यनामा महर्षिः अवर्तत। सः उग्रतपाः, सत्यवाक्, दयापरश्च। एकदा सःनर्मदां गत्वा, स्नानाह्निकादीनि कर्तव्यानि पूरयित्वा, आश्रममागत्य ध्यानपरायणः निमीलितलोचनः उपविशति स्म। तस्य यज्ञवाट्यां ऋत्विजः उच्चैः मंत्रान् घोषयन्तःजुह्नति स्म । तदा उतथ्यस्य महर्षेः ध्यानस्य भंगं कुर्वन्कश्चन एणःधावन् आगत्य तं शरणं जगाम, यज्ञवाटीं च प्रविवेश। प्रविशन्तं हरिणं उतथ्यः ददर्श। तस्मिन्नेव क्षणे हरिणमनुसृत्य कश्चन घरोः व्याघ्रः आजगामः। महर्षिं दृष्ट‰ा स भीतः, विनीतवत् पप्रच्छ च । ‘‘महर्षे, मम आहारभूतः मृगाः त्वया दृष्टः किम् । यदि तथा सत्यवाक् भवान् मम कथयतु, तत् कुत्र गत इति’’। सत्यप्रेमी सः किमपि नावदत् । व्याघ्रस्तु पुनः पुनः पप्रच्छ । किंचिदालोच्य सः प्रत्युत्तरमदात् ‘‘व्याघ्र, किमिति त्वा वच्मि । नेत्रे पश्यतः ते वक्तुं न शक्नुतः। जिह्वां वदति । सा न पश्यति ते वक्तुं न शक्नुतः। जिह्वां वदति । सा न पश्यति। त्वया जिह्वा पृच्छ्यते यस्याः दृष्टियोग्यता न। ये अपश्यतां ते न वदतः’’इति। तदुत्तरं श्रुत्वा व्याघ्रः न्यवर्तत। हरिणश्च रक्षितः। महात्मनः तार्किकी एषा प्रतिभा पसिद्धस्य तर्कशास्त्रस्य उद्गमे निदानमभूत् |
शनिवार, 21 जनवरी 2017
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं वा पदत्रयं वा परस्परं समस्यते स सम ु दायः समासः इति । प्राक्कडारा समासः [i] - समासस...
-
सर्वातिप्राचीन गंभीररहस्यपूर्णता से अलंकृत संस्कृत न केवल वेद, पुराणादि ग्रन्थो तक ही प्रयोजनपूर्ण है ,अपितु संस्कार के दिव्यालंकार से सु...
-
१- अनु हरिं सुराः- एतत् कस्य सूत्रस्य उदाहरणम्- (क) अधिपरी अनर्थकौ (ख) हीने (ग) लक्षणे...
-
जनाः सर्वेऽपि सर्वथा सुखं शान्ति चेच्छिन्ति । विना उद्योगेन पुरुषार्थेन सुखं शान्तिश्च कदापि न सम्भवति । उद्योगेनैव मनुष्यो वि...

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें