रविवार, 22 जनवरी 2017

धातु गण

                                                 धातु गण    
पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति | एते दश गणाः अधः सूचिताः सन्ति; परन्तु सर्वप्रथमं कानिचन नूतन-नामानि अस्माभिः ज्ञातव्यानि | कर्तरिप्रयोगस्य लट्‌-लकारे, क्रियापदं भागत्रये विभज्यते— 

पठति पठ्‌ अ ति
पठ्‌ – धातुः [अर्थं निर्दिशति]
अ – विकरण-प्रत्ययः [गणं निर्दिशति]
ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति] |

अत्र सन्ति धातूनां दश गणाः | पश्यतु कथं भिन्नगणेषु विकरण-प्रत्ययाः भिद्यन्ते | वस्तुतः विकरणप्रत्ययानां भेदेन दश गणाः निर्मीयन्ते |

भ्वादिः (प्रथमः गणः भू इत्यादयः धातवः; “भवतिइत्यादीनि क्रियापदानि) | यस्य गणस्य आदौ भू-धातुः अस्तिसः भ्वादि-गणः |
विकरण प्रत्ययः शप्‌ → अ
उदा-- खाद्‌ (खादति), पठ्‌ (पठति), क्रीड्‌ (क्रीडति), वद्‌ (वदति); शुच्‌ (शोचति), वृत्‌ (वर्तते); जि (जयति), स्रु (स्रवति), हृ (हरति)

अदादिः (द्वितीयः गणः अद्‌ इत्यादयः धातवः; “अत्तिइत्यादीनि क्रियापदानि)
विकरण प्रत्ययः नास्ति [शप्‌ इत्यस्य लुक्‌ (लोपः)]
उदा-- अस्‌ (अस्ति), हन्‌ (हन्ति), वच्‌ (वक्ति); आस्‌ (आस्ते), शी (शेते)

जुहोत्यादिः (तृतीयः गणः हु इत्यादयः धातवः; “जुहोतिइत्यादीनि क्रियापदानि)
विकरण प्रत्ययः नास्ति [शपः श्लु (लोपः इव)] | लक्षणं धातोः द्वित्वम्‌ |
उदा-- दा (ददाति), धा (दधाति), भी (बिभेति), हा (जहाति)

दिवादिः (चतुर्थः गणः दिव्‌ इत्यादयः धातवः; “दीव्यतिइत्यादीनि क्रियापदानि)
विकरण प्रत्ययः श्यन्‌ → य
उदा-- नश्‌ (नश्यति), नृत्‌ (नृत्यति), कुप्‌ (कुप्यति), क्रुध्‌ (क्रुध्यति), तुष्‌ (तुष्यति); मन्‌ (मन्यते), विद्‌ (विद्यते)

स्वादिः (पञ्चमः गणः सु इत्यादयः धातवः;“सुनोतिइत्यादीनि क्रियापदानि)
विकरण प्रत्ययः श्नु → नु → नो
उदा-- आप्‌ (आप्नोति), चि (चिनोति), शक्‌ (शक्नोति), धू (धूनोति)

तुदादिः (षष्ठः गणः तुद्‌ इत्यादयः धातवः;“तुदतिइत्यादीनि क्रियापदानि)
विकरण प्रत्ययः श → अ
उदा-- मिल्‌ (मिलति), लिख्‌ (लिखति), क्षिप्‌ (क्षिपति), कृष्‌ (कृषति)

रुधादिः (सप्तमः गणः रुध्‌ इत्यादयः धातवः;“रुणद्धिइत्यादीनि क्रियापदानि)
विकरण प्रत्ययः श्नम्‌ → न
उदा-- छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति), भिद्‌ (भिनत्ति), भुज्‌ (भुनक्ति) (भुङ्क्ते), युज्‌ (युनक्ति)

तनादिः (अष्टमः गणः तन्‌ इत्यादयः धातवः;“तनोतिइत्यादीनि क्रियापदानि)
विकरण प्रत्ययः उ → ओ
उदा-- कृ (करोति), तृण्‌ (तृणोति=खादति), सन्‌ (सनोति=ददाति)

क्र्यादिः (नवमः गण: = क्री इत्यादयः धातवः; "क्रीणातिइत्यादीनि क्रियापदानि)
विकरण प्रत्ययः श्ना → ना
उदा-- ग्रह्‌ (गृह्णाति), ज्ञा (जानाति), अश्‌ (अश्नाति=खादति), वृ (वृणाति), स्तभ्‌ (स्तभ्नाति), बन्ध्‌ (बध्नाति),

१०चुरादिः (दशमः गणः चुर्‍ इत्यादयः धातवः; “चोरयतिइत्यादीनि क्रियापदानि)
स्वार्थे णिच्‌ प्रत्ययःतदा विकरण प्रत्ययः शप्‌ → अ [अतः आहत्य "अय"]

उदा-- क्षल्‌ (क्षालयति), प्रेष्‌ (प्रेषयति), कथ्‌ (कथयति), गण्‌ (गणयति), चिन्त्‌ (चिन्तयति), भक्ष्‌ (भक्षयति)

क्रमशः अग्रे पश्यामः |
संस्कृतसेवकः 

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं   वा पदत्रयं   वा परस्परं समस्यते स   सम ु दायः   समासः    इति । प्राक्कडारा समासः [i] - समासस...