शुक्रवार, 20 जनवरी 2017


यत्र सार्वधातुकलकाराणां आर्धधातुकलकाराणां च विषयः उदेतिकेचन पारिभाषिकशब्दाः अवगन्तव्याः |

सार्वधातुकलकाराः लट्‌लोट्‌लङ्‌विधिलिङ्‌ च | (किमर्थमिति अधः उच्यते |)

सार्वधातुकलकारेषु प्रत्येकं क्रियापदस्य अंशत्रयं वर्तते-- धातुः विकरणप्रत्ययः तिङ्‌प्रत्ययः यथा भू शप्‌ ति |

विकरणं नाम किम्‌ इति तु वयं जानीमः एवप्रथमपाठे (धातुगण-परिचयेविस्तरेण चर्चितम्‌ तिङ्प्रत्ययः कः इत्यपि प्रायः एतावता किञ्चित्‌ ज्ञातम्‌;अस्मिन्‌ पाठे बहु किमपि वक्ष्यते भू शप्‌ ति इत्यस्मिन्‌ ति "तिङ्‌"-प्रत्ययः इति सर्वेषां‍ तिङ्प्रत्ययानां मूलरूपाम्‌ अस्ति 

परस्मैपदिधातूनां मूल-तिङ्‌प्रत्ययाः
तिप्‌    तस्‌    झि
सिप्‌    थस्‌    थ
मिप्‌    वस्‌    मस्‌‍

आत्मनेपदिधातूनां मूल-तिङ्‌प्रत्ययाः
त     आताम्    झ
थास्‌  आथाम्‌   ध्वम्‌
इड्‌    वहि      महिङ्‌

अत्र प्रथमप्रत्ययः तिप्‌ अस्ति अतः सामूहिकरूपेण एते प्रत्ययाः तिबादयः इति उच्यन्ते अपि च आत्मनेपदे अन्तिमप्रत्ययः महिङ्‌ अतः तिप्‌ इत्यस्मात्‌ आरभ्य महिङ्‌ पर्यन्तंतिप्‌-तः महिङ्-अन्त्यः‌आहत्य तिङ्‌ इत्येषां प्रत्ययानां नाम |

क्रियापदानाम्‌ अन्तिमभागः तिङ्‌प्रत्ययः एवअतः क्रियापदं तिङन्तपदम्‌ इति उच्यते |

तिङन्तपदस्य निर्माणसमये यः धातोः "अनन्तरम्आयाति सः प्रत्ययः इति अवगच्छतु सूत्रत्रयेण अयं बोधो भवति— धातोः (..९१), प्रत्ययः(..), परश्च (..धातुः प्रथमःधातोः 'अनन्तरंविकरणम्‌ अतः विकरणं प्रत्ययः तथैव तिङ्‌ अपिधातोः अनन्तरं तिङ्‌ आयाति अतः तिङ् ‌अपि प्रत्ययः तर्हि प्रथमं धातुः अस्तितदा प्रत्ययस्य आगमनम्‌ अस्याः आगमनक्रियायाः व्यक्तीकरणार्थं प्रत्ययस्य विधानम्‌ इत्युच्यते विधानंविधीयते,विहितः—सर्वं समानम्‌ प्रत्ययः यदा आगच्छति‌तदा प्रत्ययस्य विधानम्‌प्रत्ययः विधीयतेप्रत्ययः विहितः चेत्युच्यते |

अङ्ग-शब्दस्य विशेषार्थः व्याकरणे कस्मात्‌ अपि प्रत्ययात्‌ प्राक्‌ यः भागः अस्तिसः अङ्गम्‌ इत्युच्यते अतः विकरणप्रत्ययस्य कृते धातुः इति अङ्गम्‌ तिङ्‌प्रत्ययस्य कृते धातुः विकरणप्रत्ययःतयोः संयुक्तरूपम्‌ इति अङ्गम्‌ अतः भू शप्‌ ति इत्यस्मिन्‌ उदाहरणे शप्‌-प्रत्ययस्य कृते भू-धातुः अङ्गम्‌ अस्ति ति-प्रत्ययस्य कृते भू शप्‌ ति → भव ति भू शप्‌ चेत्यनयोः संयुक्तरूपं भव ति इत्यस्मात्‌ पूर्वं यावत्‌ अस्तितत्‌ सर्वम्‌ अङ्गम्‌ अतः ति इत्यस्य कृते अङ्गं भव इति पुनः वद्‌ अ ति इति स्थितौअ (शप्‌इत्यस्य दृष्ट्या वद्‌ इति अङ्गम्‌ति इत्यस्य दृष्ट्या वद (वद्‌ +इत्यङ्गम्‌ |

परं द्रक्ष्यामः यत्‌ अङ्गं च प्रत्ययः चद्वयोः कार्य-कारण-सम्बन्धः भवति आधिक्येन अङ्गे कार्यं क्रियतेतस्य कार्यस्य कारणम्‌ अस्ति परे स्थितः प्रत्ययः यथा भू शप्‌ → भू अ अत्र भू अ → भो अ इति गुणकार्यं भवति तस्य गुणकार्यस्य कारणं शप्‌-प्रत्ययः अस्य कार्य-कारण-सम्बन्धस्य कृते निमित्तम्‌ इति उच्यते अतः भू-धातौ यत्‌ अङ्गकार्यं भवतितदर्थं शप्‌ निमित्तम्‌ अस्तिइत्युक्ते शप्‌ कारणम्‌ अस्ति अपि च अस्मिन्‌ एव अर्थे वदामः यत्‌ भू-धातौ यत्‌ अङ्गकार्यं भवतितत्‌ शपं निमित्तं मत्वा अङ्गकार्यम्‌अथवा शप्‌-निमित्तीकृत्य अङ्गकार्यम्‌अथवा शप्‌-निमित्तकम्‌ अङ्गकार्यम्‌ इति | (कदाचित्‌ प्रत्यये कार्यं क्रियते न तु अङ्गेयथा इडागमविषये अग्रे गत्वा तादृशप्रसङ्गोऽपि परिशीलयिष्यते |)

तिबादीन्‌ निमित्तीकृत्य धातु-विकरणयोः मेलनेन यत्‌ अङ्गं निष्पद्यतेतस्य अन्तिमः वर्णः अकारः अस्ति चेत्‌अङ्गम्‌ अदन्तम्‌ इत्युच्यते | (अत्‌ इत्युक्ते ह्रस्वः अकारःतपरस्तत्कालस्य इति सूत्रेण तकारे परे सति प्राक्‌ यः स्वरःतस्य एव कालस्य सङ्केतः अत्‌ अन्तम्‌ अदन्तम्‌ |) धातु-विकरणयोः मेलनेन निष्पन्नस्य अङ्गस्य अन्तिमवर्णः अकारः नास्ति चेत्‌अङ्गम्‌ अनदन्तम्‌ इत्युच्यते |

धातूनां दश गणाः सन्ति इति तु ज्ञातम्‌ दश धातुगणाः पुनः विभक्ताः अङ्गस्य अन्तिमवर्णस्य अनुसारम्‌ येषु धातुगणेषु अङ्गम्‌ अदन्तं भवतिते धातुगणाः प्रथमगणसमूहे वर्तन्ते येषु धातुगणेषु अङ्गम्‌ अनदन्तं भवतिते धातुगणाः द्वितीयगणसमूहे वर्तन्ते |

प्रथमगणसमूहः भ्वादिगणःदिवादिगणःतुदादिगणःचुरादिगणः
द्वितीयगणसमूहः अदादिगणःजुहोत्यादिगणःस्वादिगणःरुधादिगणःतनादिगणःक्र्यादिगणः

दश लकाराः अपि गणद्वये विभक्ताः—सार्वधातुक-लकाराः आर्धधातुक-लकाराः च |

तयोः भेदः कः क्रियापदस्य निर्माण-क्रमे सर्वप्रथमम्‌ अस्माकं विवक्षानुगुणम्‌ धातुः आनीयते यथावद्‌ इति धातुः तदा पुनः विवक्षानुगुणं लकारः आनीयतेयथा लट्‌-लकारः वद्‌ लट्‌ परं लाटः स्थाने तिबादयः आनीयन्ते यथेच्छम्यथा प्रथमपुरुषैकवचने तिप्‌ पकारस्य इत्‌-संज्ञा लोपश्चति अवशिष्यते वद्‌ ति अत्र सर्वमहत्त्वपूर्णसिद्धान्तः—वद्‌ ति इत्यनयोः सम्पर्कः अस्तिस्पर्शः अस्ति यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति |अत्र वदामः यत्‌ वद्‌-धातुना ति-प्रत्ययः "दृश्यते" | दृश्यते यतः तयोः मध्ये बाधा नास्तिअन्यः कोऽपि प्रत्ययः नास्ति येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुक-तिङ्‌प्रत्ययः दृश्यतेअपि च सः तिङ्‌प्रत्ययः कर्त्रर्थे अस्तितत्र सः लकारः सार्वधातुक-लकारः इति उच्यते क्रियापदस्य निर्माणक्रमे धातुना तिङ्‌प्रत्ययः न दृश्यते चेत्‌सः लकारः आर्धधातुक-लकारः |

सार्वधातुक-लकाराः— लट्‌लोट्‌लङ्‌विधिलिङ्‌
आर्धधातुक-लकाराः— लिट्‌लुट्‌लृट्‌आशीर्लिङ्‌लुङ्‌लृङ्‌

अयं भेदः नितरां महत्त्वपूर्णः यतः धातुना तिङ्प्रत्ययः दृश्यते चेत्‌तर्हि तेन एव सम्पर्केण विकरणप्रत्ययः विहितः अस्ति एकैकस्य गणस्य स्वस्य पृथक्‌ विकरणप्रत्ययः (विकरणलोपो वाइति अस्माभिः प्रथमपाठे दृष्टम् तेन विकरणभेदेन तिङन्तरूपाणि भिद्यन्ते तर्हि भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकरणप्रत्ययानां कारणेन गणस्य लक्षणं प्रत्ययेन ज्ञायते अतः अत्र अवधेयम्‌—विकरणप्रत्ययाः यत्र आयान्तितत्र धातोः तिङन्तरूपस्य ज्ञानार्थम्‌धातुः कस्मिन्‌ गणे अस्ति इति अवश्यं बोध्यम्‌ केषु लकारेषु विकरणप्रत्ययाः आयान्ति यत्र कर्त्रर्थे धातुना तिङ्प्रत्ययः दृश्यते तत्‌ कुत्र ?सार्वधातुकलकारेषु इति आर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यतेअतः विकरणप्रत्ययः नायाति विकरणप्रत्ययः नायाति अतः तत्र गणभेदेन तिङन्तभेदः न जायते फलितार्थः एवं यत्‌ सार्वधातुकलकारेषु गणीया चर्चा करणीयाआर्धधातुकलकारेषु गणीया चर्चा नापेक्षिता तत्र गणस्य विषयः नायाति एव |

उदा--
सार्वधातुक-लकारः लट्‌

वद्‌ लट्‌ →
वद्‌ ति →
वद्‌ शप्‌ ति →
वद्‌ अ ति →
वदति

उपरितने क्रमे धातुना तिङ्प्रत्ययः ति "दृश्यते" (वद्‌ ति) | नाम मध्ये काऽपि बाधाकिमपि व्यवधानं नास्ति धातुना तिङ्प्रत्ययः दृश्यते इति कारणतः कर्तरि शप् इत्यनेन सूत्रेण मध्ये विकरण-प्रत्ययः शप्‌ विहितः भ्वादिगणे शप्‌ तिष्ठतिअपरेषु गणेषु शपं प्रबाध्य तत्तत्‌ गणे अन्ये विकरणप्रत्ययाः आयान्ति एतदर्थं सार्वधातुकलकारेषु धातुः कस्मिन्‌ गणे अस्ति इति ज्ञातव्यम्‌ |

आर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थं नायाति इत्यत्र किञ्चित्‌ पश्येम—

आर्धधातुक-लकारः लृट्‌

वद्‌ लृट्‌ →
वद्‌ स्य लृट्‌ →
वद्‌ स्यति →
वद्‌ इ स्यति →
वदिष्यति

उपरितने क्रमे प्रथमं स्य प्रत्ययः आयातितदा एव ति आयाति तत्र धातु-ति इत्यनयोः मध्ये स्य अस्ति इति कारणेन धातुना ति न दृश्यते (वद्‌ स्यति) | मध्ये स्य अस्ति अतः बाधा अस्तिव्यवधानम्‌ अस्ति धातुः तिङ्प्रत्ययं "तिद्रष्टुं न शक्नोतिधातुः केवलं "स्यपश्यति धातुना तिङ्प्रत्ययः ति न दृश्यते इति कारणतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति (यदा हि ति दृश्यते तदा हि कर्तरि शप्), अतः मध्ये विकरण-प्रत्ययः नायाति विकरण-प्रत्ययः न विहितः इति कारणेन गणीयः विचारः नापेक्षितः धातुः यस्मिन्‌ कस्मिन्‌ अपि गणे भवतुकार्यं समानमेव अतः आर्धधातुकलकारेषु गणस्य ज्ञानं नापेक्षितम्‌ किन्तु आर्धधातुकलकारेषु अन्यत्‌ कार्यम्‌ अस्ति पश्यन्तु रूपं कथम्‌ अस्ति— "वदिष्यतिइति अत्र मध्ये इकारः आगतः अस्ति वद्‌--ष्यति यद्यपि आर्धधातुकलकारेषु गणीयः विचारः नापेक्षितःकिन्तु इडागमस्य विचारः अपेक्षितः एव स च विषयः अग्रे आयास्यति |

१०सार्वधातुकलकारः अस्ति चेत्‌धातु-विकरणायोः अङ्गं भवतितच्च अङ्गम्‌ अदन्तम्‌ अनदन्तं वा इत्युक्तम्‌‌ अस्मिन्‌ पाठे सार्वधातुकलकाराः (लट्‌,लोट्‌लङ्‌विधिलिङ्‌परिशीलयिष्यन्ते यत्र अङ्गम्‌ अदन्तम्‌ अस्ति अङ्गम्‌ अदन्तं केषु गणेषु भ्वादिगणेदिवादिगणेतुदादिगणेचुरादिगणे च |यतः एषां चतुर्णां गणानाम्‌ अङ्गम्‌ अदन्तम्‌अतः एषां सिद्ध-तिङ्प्रत्ययाः समानाः अस्य पाठस्य तृतीयाध्याये चतुर्थाध्याये च एते सिद्ध-तिङ्प्रत्ययाः निष्पन्नाः भवन्ति अदन्तम्‌ अङ्गम्‌ सिद्ध-तिङ्प्रत्ययः तिङन्तपदं (क्रियापदम् इति) | यथा वद्‌ शप्‌ → वद्‌ अ → वद इति अदन्तम्‌ अङ्गम्‌;तिप्‌ → पकारस्य इत्-संज्ञा लोपश्च → ति इति सिद्ध-तिङ्प्रत्ययःवद ति → वदति इति तिङन्तपदम्‌ तथैव वद तः वदतःवद अन्ति वदन्ति इति आहत्य भ्वादिगणेदिवादिगणेतुदादिगणेचुरादिगणे च 1700 धातवः सन्ति एवं च अस्मिन्‌ पाठे कण्ठस्थीकरणेन विना 1700 धातूनां लट्‌लोट्‌,लङ्‌विधिलिङ्‌ इत्येषां तिङन्तरूपाणि ज्ञास्यन्ते अत्र अस्ति मातुः पाठस्य वैलक्षण्यम्‌ !


एवं च दीक्षितपुष्पायाः पाणिनीय-धातुपाठः अत्यन्तं शक्तिशाली कश्चन बोधोऽस्ति चेत्‌बहूनि क्रियापदरूपाणि ज्ञातुं शक्नुमः अग्रे अङ्गं कथं निष्पाद्यतेतिङ्प्रत्ययाः कथं साधनीयाःअपि च अङ्ग-तिङ्प्रत्यययोः मेलनं कथं कार्यते इत्येषु विषयेषु चर्चयिष्यामः |

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं   वा पदत्रयं   वा परस्परं समस्यते स   सम ु दायः   समासः    इति । प्राक्कडारा समासः [i] - समासस...