रविवार, 7 अप्रैल 2019

कौण्डभट्टमते सम्प्रदानस्य पर्यालोचनम्

कर्ता    कर्मकरणं  च सम्प्रदानं तथैव च  ।
अपादानाधिकरणमित्याहुः कारकाणि षट्।।

                         किं नाम कारकं ? क्रिया निष्पादकत्वं, वा साक्षात् क्रिया जनकत्वं कारकम्।  तच्च कर्तादीनां षण्णामपि । कारकाणि हि स्व स्वव्यापारानुसारेणावान्तरक्रियाद्वारेण  आहोस्वित् केनापि रुपेण प्रधानक्रियोत्पत्तौ सहायकानि कारकाणि वा भवन्ति। अतः सर्वेषामेव तेषां प्रधान क्रियामेवान्वयः।यथा हि पचन क्रिया दृष्ट्या पाक क्रियोत्पत्यनुकूलव्यापाराश्रयत्वेन देवदत्तः कर्ता क्रियोत्पादकः।तण्डुलादिकर्मणिविभक्त्याधारुपव्यापारः इन्धनादौ ज्वालादिधारणारुपव्यापारः स्थल्यादौ तण्डुलाधारव्यापारः एते हि व्यापाराः।पाकक्रियोत्पत्तौ कारकाणि अतस्तेष्वस्ति कारकम्।
          लघ्वर्थं  संज्ञाकरणम्, संज्ञा नाम यतो न लघीयः महत्या एतस्याः सम्प्रदानसंज्ञायाःकरणमन्वर्थत्वाय        विज्ञायते। अन्वर्थश्च सम्यक् प्रदीयतेयस्मै तत् सम्प्रदानम्। तत्र दानञ्चापुनर्ग्रहणाय स्वस्वत्वनिवृत्तिपूर्वकं परसत्वोत्पादनम्। एवञ्च यत्रापूनर्ग्रहणाय दीयते तत्रैव दानक्रियाकर्मणा सम्बन्धमिष्टस्य सम्प्रदान संज्ञा ।यथा-  विप्राय गां ददाति इति  । चतुर्थी विभक्त्यां त्रयः प्रत्ययाः ङे भ्यां भ्यासितिरुपाः सन्ति  । प्रथमत एषां संख्यायामेवाभिधानं भवति ,तदनन्तरमर्थविशेषे भवन्त्यमे

                         चतिर्थी विधायक सूत्रं॒ ‘’चतुर्थी सम्प्रदाने ’’[1] इति ।तेषां वाचकत्वञ्च ‘’सुयशसे ददातीत्यादौ’’ श्रुयमाणत्वादेकारस्य एत्वेन भ्यामित्यस्य भ्याम्त्वेन भ्यसो भ्यसत्वेन भवति।तथा चानुशासनादायाति यत् सम्प्रदानमप्यर्थः ।यतोहि सूत्रेण सम्पदानमर्थकात् प्रातिपदिकात् चतुर्थी विधीयते पाणिनियानुशासनात् चतुर्थ्याः सम्प्रदानमिति सम्प्रदानत्वं वार्थ इत्यत्र नास्ति वादीनां विवादः।किन्तु सम्प्रदानस्वरुपविषये विवदन्त एव वादिनः ।अत्र शोधनिबन्धे वादिनांमतं समासेन विचार्य  भूषणकारस्य  मतं मया विचार्य्यते ।          
                       नैयायिकमते सम्प्रदानलक्षणं क्रियाकर्मसम्बन्धितया कर्त्रभिप्रेतत्वं भवति’’ यथा ‘’ब्राह्मणाय गां ददाति’’ इत्यत्र  दानक्रियाकर्मभूता या गौस्तत्सम्बम्धितया  = तत्स्वामित्वे न दानकर्त्रभिप्रायविषयत्वं ब्राह्मणेऽस्तीति ब्राह्मणस्य सम्प्रदानत्वं भवति  । तथा च क्रिया जन्यफलभागितया कर्तुरिच्छाविषयत्वं पर्यवसन्नं भवति। दानक्रियाकर्मत्ववती या गौस्तन्निष्टं फलभूतं यत्सत्वं तादृश् स्वत्वभागित्वमेव  गवा ब्राह्मणस्य सम्बन्धः ।एवञ्च दानक्रियाजन्यं यद् गोनिष्ठं स्वत्वरुपं फलं  तद् भागितया दानकर्तुरिच्छाविषयत्वं ब्राह्मण ,अतो भवति तस्य सम्प्रदानसंज्ञा ।तथा च सूत्रेण कर्मणा यमभिप्रैति पम्प्रदानम्[2]   गवादिकर्मणा यं ब्राह्मणादिकर्माभिसम्बन्धुमिच्छति स सम्प्रदानमिति। उक्तञ्च गदाधरेण त्यागरूपक्रियाजन्यगोनिष्ठस्वत्वभागितया दतुरिच्छाविषयो ब्राह्मण इति तस्य सम्प्रदानम्”।

           यद्यपि क्रियाजन्य फलसम्बन्धितया इष्टत्वरूपं सम्प्रदानत्वं कर्मत्वविशेषरूपं तथापि सम्प्रदानस्थले धात्वर्थतावच्छेदकाश्रयत्वाद्भिन्नं यत् फलसम्बन्धित्वेन तत् सम्प्रदानम्।  यथा-  “ब्राह्मणस्य गां ददाति’’अस्मिन् वाक्ये धात्वर्थतावच्छेदकीभूतस्य स्वत्वस्याश्रयत्वं गवि।दा धात्वर्थस्वस्वत्वध्वंसपूर्वकपरस्वत्वाकूलत्यग एवेति।अत्र धात्वर्थतावच्छेदक स्वस्वत्वध्वंसपूर्वकपरस्वत्वस्याश्रयः गौरिति।अतः गोः कर्मत्वं सिद्ध्यति। तथा च ब्राह्मणे गो निष्ठस्वत्वरुपफलस्य निरुपकत्वरुपं सम्बन्धित्वमस्ति।सम्बन्धित्वमिदं धात्वर्थतावच्छेदकस्वत्वस्य  आश्रयत्वाद्भिन्नं भवतीति।अतो भवति ब्राह्मणस्य सम्प्रदानं संज्ञा।
          सम्प्रदानस्वरूपं  प्रतिपादयता पाणिनिना – “कर्मणा यमभिप्रैति स सम्प्रदानम्” इति। तस्यायमर्थः – दानक्रिया कर्मणा कर्ता यं सम्बन्धुमिप्सति तत् सम्प्रदानसंज्ञं भवति। उक्तञ्च भट्टोजिदीक्षितेन दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात् इति। दानक्रियाकर्मणैव सम्बन्धुमिष्टस्य सम्प्रदानसंज्ञा विधानात् “अजां ग्रामं नयति” इत्यत्र ग्रामस्य, “हस्तं विदधाति वृक्षे” इत्यत्र च न सम्प्रदानसंज्ञा, ग्रामवृक्षयोरजाहस्ताभ्यां सम्बन्धुमिष्यमाणत्वात् न तु तयोर्दानक्रियाकर्मणेप्सितत्वम्।
          नागेशमते –सम्प्रदानत्वञ्च “क्रियामात्रकर्मसम्बन्धाय क्रियायामुद्देश्यं यत् कारकं तत्त्वं सम्प्रदानत्वम्”। तथा चात्र मात्रशब्द कार्त्स्न्यपरस्तेन क्रियासामान्यस्य कर्मणा सम्बन्धायेत्यर्थो भवति न तु दानरूपाया एवेति। फलञ्च “चैत्रो मैत्राय वार्तां कथयति” इत्यत्र कथनादिक्रियासत्वेऽपि सम्प्रदानत्वसिद्धिः। एतेन यत्रापुनर्ग्रहणाय स्वस्त्वनिवृत्तिसमानाधिकरणपरस्वत्वोत्पादनं तत्रैव सम्प्रदानमिति वृत्तिकारेण उक्तम् । अतः वृतिकारः  मतं निरस्तम्।अन्यथा वृद्धिरादैच्इति सूत्रस्थ खण्डिकोपाध्यायस्तस्मै चपेटां ददाति इति भाष्यप्रयोगविरोधः स्यात्। तथाहि तादृश सम्प्रदानत्वस्वीकारे इत्यस्मिन् वाक्ये तादृशसम्प्रदानत्वाभावात् चतुर्थ्यसङ्गतैव स्यात्। अतः “क्रियामात्रसम्बन्धाय क्रियायामुद्देश्यं यत् कारकं तत्त्वं सम्प्रदानत्वमिति”[3] स्वीकर्तव्यम्।
कौणडभट्टास्तु चतुर्थीविभक्तेरर्थः उद्देश्यत्वरूप इति स्वीकुर्वन्ति। उक्तञ्च-

आश्रयोऽवधिरुद्देश्यः  सम्बन्धः शक्तिरेव वा।
यथायथं विभक्त्यर्थाः सुपां कर्मेति भाष्यतः।।[4]

इति कारिकायाः व्याख्यां कुर्वन् भूषणस्य मूले “उद्देश्यश्चतुर्थ्यर्थः”[5] अर्थात् सम्प्रदानचतुर्थ्यर्थ उद्देश्यमिति स्वीकुर्वन्ति।

          न च “चतुर्थी सम्प्रदाने” इति सूत्रात् सम्प्रदानस्य चतुर्थ्यत्वसिद्धावपिनोद्देश्यस्य चतुर्थ्यत्वं सिध्यतीति वाच्यम्, सूत्रेऽस्मिन् सम्प्रदानत्वञ्च कर्मणा यमभिप्रैति स सम्प्रदानम् इति सूत्रात् कर्मणा करणभूतेन यमभिप्रैति ईप्सति तत्कारकं सम्प्रदानमित्यर्थकात्। अर्थेऽस्मिन् करणत्वञ्च सम्बन्धक्रियापेक्षम्, कर्मसंज्ञकेन गवादिद्रव्येण सम्बन्धुं कर्ता यमभिप्रैति -ईप्सति-उद्दिशतीति यावत्। स सम्प्रदानमित्यर्थः। कर्म चात्र पारिभाषिकं “कर्तुरीप्सिततमम्” इत्यादि ग्राह्यम्। अत एव क्रियया यमभिप्रैति अकर्मकक्रियोद्देश्यस्य सम्प्रदानसंज्ञा विहिता।

          तथा च यत्किञ्चिद्धातूपस्थाप्यव्यापारजन्यफलाश्रयरूपकर्मसम्बन्धाय क्रियायां यदुद्देश्यं तत्सम्प्रदानमित्यर्थादुद्देश्यस्य चतुर्थ्यर्थत्वं फलतीति भावः।तथा च यत्र यत्र ग्रन्थकारः उद्देश्यत्वंशेषित्वमङ्गित्वनमिति, सम्प्रदानोद्देश्यं यत्र भवति तादृश्येच्छाविषयिभुतं वस्तु गवादि शेषत्वं व्यवहरन्ति।

अनयोः निरूपणं पूर्वमीमांसायां शेषः परार्थत्वात्[6] दृश्यते । तथाहि परार्थत्वञ्च परोद्देशप्रवृत्तकृतिव्याप्यत्वम् परं प्रधानं कर्म अथवा परमुत्कृष्टं फलं स्वर्गादि तदुद्देशेन प्रवृत्तस्य पुरुषस्य या कृतिः तद्व्याप्यत्वं कारकत्वेन तत्सम्बन्धम् । यथा दर्शपूर्णमासोद्देशेन प्रवृतपुरुषकृतिव्याप्यत्वं प्रयाजानुथाजाघातप्रोक्षणादीनां सुप्रसिद्धमिति तेषां शेषत्वम् । दर्शादेस्तु प्रयाजाद्युद्देशेन प्रवृतपुरुषकृतिव्याप्यत्वाभावान्नातिव्याप्तिः ।केवल प्रयाजाद्युद्देशेन कस्यचिदपि पुरुषस्य प्रवृत्यभावादित्यर्धः ।

          “विप्राय गां ददाति” इति विप्रे शेषित्वम्, गवि शेषत्वञ्च प्रदर्शितं भवति। शेषत्वस्य प्रधानकर्मप्रयोजकत्वादेव। प्रासनवन्मैत्रावरुणाय दण्डप्रदानम् इत्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीत्यत्र सोमक्रयणानन्तरं मैत्रावरुणाय प्रोक्तं दण्डदानं प्रतिपत्तिकर्म अर्थकर्म वेति संदिहय चात्वले कृष्णविषाणां प्रास्यति इतिवद्दण्डदानं प्रतिपत्तिकर्म, दण्डेन दीक्षयतीति दीक्षायां दण्डस्य विनियुक्तत्वादिति पूर्वपक्षयित्वा मैत्रावरुणायेति सम्प्रदाने चतुर्थीश्रवणात्। सम्प्रदानत्वस्य च क्रियोद्देश्यत्वात् उद्देश्यत्वस्य च प्रधानत्वसमनियतत्वान्मैत्रावरुणस्योद्देश्यत्वलक्षणप्रधान्यावगमाद् दण्डप्रधानम् अर्थकर्म प्रधानकर्मैव न तु प्रतिपत्तिकर्मेति सिद्धान्तितं सङ्गच्छते।

समीक्षा-
                सर्वेषां तत्तन्मतन्दृष्ट्वेत्येवाशयः प्रतीयते यत् सर्वे येन केन प्रकारेण भाष्यमनुकुर्वन्ति। परन्तु कैश्चिदुदाहरणैः प्रत्यायनं भवति यत् भाष्यमन्नान्वर्थतायामिति। तथा हि – खण्डिकोपाध्यायः शिष्याय चपेटां ददाति चपेटा इत्यत्र दुःखं फलम्। ददातिरत्र संयोगविशेषानुकूलव्यापारार्थकः। तथा च चपेटासंयोगजन्यदुःखाश्रयः शिष्यः भवतु । इतीच्छया दुःखरूपफलाश्रयत्वेन शिष्यस्य सम्प्रदानत्वम्।रजकाय वस्त्रं ददाति इत्यत्र दाधातोरधीनीकरणमर्थः। अधीनीकरणञ्चात्र मलनाशानुकूलं स्थापनम्। तथा च वस्त्रनिष्ठमलनाशरूपफलसम्बन्धेन कृतिमान् रजको भवतु इतीच्छया कृतिरूपफलाश्रयत्वेन रजकस्य सम्प्रदानत्वम्। उदाहरणैः स्पष्टं भवति यत् भाष्यकाराः सम्प्रदानस्य अन्वर्थतान्नाङ्गीकुर्वन्ति। अन्यथा उक्तोदाहरणेषु सम्यक् प्रदीयते इत्यनुपपन्नेन सम्प्रदानत्वेन चतुर्थीकरणमनुपपन्नं स्यात्। विप्राय गां ददाति इति विप्रस्य शेषित्वम्, गोश्च शेषत्वम्।
          अयमाशयः धात्वर्थक्रियाया यत्कर्म तद्वति यद्धात्वर्थफलं तत्सम्बन्धजन्य-फलाश्रयत्वकेच्छाविशेष्यत्वं शेषित्वम्।
          समन्वयश्चेत्थं भवति- दानकर्म गोवृत्तितादृशस्वत्वसम्बन्धजन्यसुखाश्रयो विप्रो भवतु , इत्याकारिका या इच्छा तादृशेच्छाविशेष्यत्वरूपं शोषित्वं विप्रस्य। तादृशेच्छाप्रकाराश्रयत्वरूपं शेषित्वं गवि इति।
          अथ च भर्तृहरिणा वाक्यपदीये त्रिविधं भेदं प्रतिपादितं यथा-

अनिराकारणात् कत्तुस्त्यागाङ्गं कर्मणेप्सितम्।
प्रेरणानुमितिभ्यां च लभते सम्प्रदानताम्।।[7]



                                                         




[1] अष्टाध्यायी 2/03/13
[2] 1/ 4/ 32
[3] परमलघुमञ्जूषा
[4] भूषणसार सुबर्थ निर्णय कारिका-1
[5] भूषणसारम्
[6] पूर्व मीमांसा-2/1/2
[7] वाक्यपदीयं साधनासमुद्देश कारिका-129












जयतु संस्कृतं -जयतु भारतम्

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं   वा पदत्रयं   वा परस्परं समस्यते स   सम ु दायः   समासः    इति । प्राक्कडारा समासः [i] - समासस...