‘पूर्वत्रासिद्धम्’ इत्यधिकारसूत्रविचारः
पूर्वत्रासिद्धम् (पा.सू. ८.२.१) इदं सूत्रम् अष्टाध्यायस्य द्वितीयस्मिन् पादे आदिमं सूत्रं भवति । पूर्वं प्रति परम् असिद्धं इति एतत् सूत्रार्थः । संज्ञा च परिभाषा च विधिर्नियम एव च । अतिदेशोऽधिकारश्च सूत्रं षड्विधं स्मृतम् ।। इत्भ्युक्तोरीत्या षट्प्रकारेषु सूत्रेषु इदं अधिकारसूत्रं भवति । किं नाम अधिकारसूत्रं ? स्वस्थले लक्ष्यसंस्कारकवाक्यार्थबोधाजनकत्वे सति स्वोत्तरवर्तिविधिसूत्रैः सह एकवाक्यातापन्नत्वमधिकारत्वम् इति ,एवञ्च ‘’एकत्र उपात्तस्य अन्यत्र व्यापारः’’ स्वस्थले तक्ष्यसंस्कारबोधाऽजनकत्वे सति स्वोत्तरवर्ति विधिशास्त्रैकवाक्यतापन्नत्वम् अधिकारत्वम् । महाभाष्कारेणऽपि उक्तम् अधिकारो नाम त्रिप्रकारकः कश्चिद् एकदेशस्थसर्वं शास्त्रमभिज्वलयति यथा प्रदीपः सुप्रवज्वलितः सर्वं वेश्माभिज्वलयति।
यत्र सूत्रं उपदिष्टं तत्र विद्यमानं सत् लक्ष्यसंस्कारकवाक्यार्थबोधजनकं सत स्वस्मात् उत्तरत्र विद्यमानैः विधिसूत्रैः सह मिलित्वा एकार्थबोधकं सूत्रम् अधिकारसूत्रमिति कथ्यते । उदाहरणार्थं अतो दीर्घो यञि इति सूत्रं सुपि च इति विधिसूत्रेण सह संबध्य एकार्थं बोधयति । अतः अतो दीर्घो यञि इत्येतदृशेषु विधिसूत्रेषु अतिव्याप्तिः । स्वस्थले लक्ष्यसंस्कारकलाक्यार्थबोधाजनकत्वम् स्वोत्तरवर्तिविधिसूत्रैः सह एकवाक्यतापन्नत्वम् इति द्वितीदलाभावे संज्ञासूत्रेष्वतिव्याप्तिः । यतः वृद्दिरादैच् इत्यादीनां संज्ञासूत्रणां स्वस्थले लक्ष्यसंस्कारकवाक्यार्थबोधजनकत्वात् तत्र अतिव्याप्तिः । तथा च स्वस्थले लक्ष्यसंस्कारकवाक्यार्थबोधजनकत्वे सति स्वोत्तरवर्ति विधिसूत्रैः सह एकवाक्यातापन्नत्वमधिकारत्वम् इत्येव वक्तव्यम् । पूर्वत्रासिद्धम् इति सूत्रे चास्य लक्षणस्य समन्वयः । स्वस्थले लक्ष्यसंस्कारकवाक्यार्थबोधजनकत्वं न वर्तते तस्य , स्वोत्तरवर्तिविधिसूत्रैः सह संबध्य पूर्वं प्रति परं शास्त्रम् असिद्धं स्यात् इत्यर्थबोधनेन लक्ष्यसंस्कारकत्वं च वर्तते तस्य । सूत्रार्थः पूर्वत्रासिद्धम् – पूर्वत्रासिद्धम् इति इदं सूत्रं अष्टाध्यायस्य द्वितीयस्मिन् पादे आदिमं सूत्रं भवति । इदं सूत्रमेव प्रत्येकं सूत्राणां पौर्वापर्यस्य महत्वं विज्ञापयति । पूर्वम् असिद्धम् इति पदच्छेदः । पूर्वत्र इति त्रलन्तमव्ययम् , पूर्वस्मिन् इति सतिसप्तम्यन्तात् त्रल्प्रत्ययो बोध्यः । एवञ्च पूर्वस्मिन् सति असिद्धं स्यात् इति अर्थः सम्पन्नः । पूर्वशब्दार्थसापेक्षत्वात् परमित्युपस्थितं भवति । तेन पूर्वस्मिन् कर्तव्ये परमसिद्धं भवति इति सूत्रार्थः । तथा च अस्य सूत्रस्य अष्टमाध्याये द्वितीये पादे आदावेव उपदेशात् अत्र सूत्रे पूर्वशब्देन सप्त अध्यायाः , अष्टमाध्यायस्य अवशिष्टाः द्वतीयतृतीयचतुर्यपादाः ग्राह्याः तावतः भागस्य एतत्सूत्रात् परत्रोपदेशात् ।
सप्तानाम् अध्यायानां समाहारः सप्ताध्यायी पादेन सहिता सपादा, सपादा चासौ सप्ताध्यायी च सपादसप्ताध्यायी । त्रयाणां पदानां समाहारः त्रिपादी । एवञ्च सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा इति सूत्रार्थः सम्पन्नः । सपादसप्ताध्यायीं प्रति त्रिपाद्याः असिद्धम् इत्युदाहरणम्- मनस्+ रथः इति स्थिते सस्य ससजुषो रूः इति सूत्रेण रुत्वे कृते , मनर्+रथः इति जाते हशि (पा. सू.८.३.१४) इति सूत्रेण हशि परे रेफस्य उत्वं प्राप्नोति , रो रि (पा.सू.८.३.१४) इति सूत्रेण रेफे परे रेफस्य लोपः प्राप्नोति । हशि च इत्यस्य सपादसप्तध्यायीस्थत्वात् रो रि इत्यस्य त्रैपादिकत्वात् पूर्वत्रासिद्धम् इति सूत्रेण उत्वविधायकशास्त्रं प्रति रेफलोपविधायकशास्त्रस्य असिद्धत्वात् रो रि इति सूत्रं बाधित्वा रेफस्य उत्वे कृते मन+उ+रथः इति जाते ततः परं गुणे कृते मनोरथः इति रुपं सम्पन्नम् । त्रिपाद्यामपि पूर्वं प्रति परमसिद्धम् इत्युदाहर्णम् – किम् उ उक्तम् इत्यत्र मयः परस्य उञः वो वा स्यात् इत्यर्थकेन मय उञो वो वा (पा.सू.८.३.३३) इति सूत्रेण मयः परस्य उञः वकारदेशे किम् व् उक्तम् इति जाते मान्तस्य पदस्य अनुस्वारः स्यात् हलि इत्यर्थकेन मोऽनुस्वारः (पा.सू.८.३.२३) इति सूत्रेण हल्परकत्वात् मकारस्य अनुस्वारः प्राप्तः। अनुस्वारे कृते तु अनिष्टं स्यात् । परन्तु त्रिपाद्यामपि पूर्वं प्रति परशास्त्रस्यासिद्धत्वात् मोऽनुस्वारः इति सूत्रदृष्ट्या मय उञो वो वा इति शास्त्रस्यासिद्धत्वात् तत्र वकारस्य असिद्धत्वात् हल्परकत्वाभावात् मकारस्य अनुस्वारः वार्यते । अनिष्टं च वार्यते । किम् व् उक्तम् इति इष्टं सिद्धयति । एतदपि अस्य सूत्रस्य अधिकारत्वे फलम् । अस्यसूत्रस्य अधिकारत्वाङ्गीकारे आगतदोषः- अस्य अधिकारत्वानङ्गीकारे गोधुङ्मान् इति रुपं न स्यात् । गां दोग्धि इति गोधुक् । गोधुक् अस्ति इत्यर्थे गोदुह्शब्दात् मतुप् प्रत्तये कृते गोदुङ्मान् इति रुपेण भाव्यम् । एतत् रुपसिद्धये अपेक्षितानां सूत्राणां विवरणम्- दादेर्धातोर्घः (पा.सू.८.२.३२) एकाचो बशो झषन्तस्य स्ध्वोः (पा.सू.८.४.४५) झलां जशोऽन्ते (पा.सू.८.२.३९) एवं यरोऽनुनासिके अनुनासिको वा (पा.सू.८.४.४५) इति सूत्रे पठितं वार्तिकं प्रत्यये भाषायां नित्यम् इति । दादेर्धातोर्घः इति सूत्रेण दकारादेः धातोः ह्स्व धत्वं क्रियते । धातोरवयवः यः एकाज् झषन्तः तदवयवस्य बशः भष् स्यात् सकारे ध्वशब्दे च पदान्ते च इति एकाचो बशो भष् झषन्तस्य स्ध्वोः इति सूत्रार्थः । झलां जशोऽन्ते इति सूत्रेण जश्त्वं विधियते। प्रत्यये भाषायां नित्यम् इति वार्तिकेन अनुनासिकादिप्रत्यये परे यरः अनुनासिकः नित्यं विधियते ।
गोदुह् मत् इत्यवस्थायां घत्वजश्तवयोः प्राप्तयोः अपवादत्वात् आदौ घत्वे गोदुध् मत् इति जाते जश्त्व भाष् भावयोः प्राप्तयोः परत्वात् अन्तरङ्गत्वात् आदौ जश्त्वे गोदुग् मत् इति जाते ततः पश्चात् अनुनासिकादेशे गोदुङ्मान् इति रुपं स्यत् । गोदुग् मत् इत्वस्थायां झषन्तत्वाभावात् बशः दकारस्य भष्भावो न स्यात् गोधुङ्मान् इति रूपं न स्यात् । अस्य सूत्रस्य अधिकारत्वाङ्गीकारे दोषपरिहारः- पूर्वत्रासिद्धम् इत्यस्य अधिकारत्वे त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रं असिद्धम् इत्यर्थः प्राप्यते । तेन गोदुह् मत् इत्यवस्थायां घत्वजश्तवयोः प्राप्तयोः अपवादत्वात् आदौ घत्वे गोदुघ् मत् इति जाते जश्त्व एवं भष्भावयोः प्राप्तयोः त्रिपाद्यामपि पूर्वं प्रति परस्यसिद्धत्वात् भष्भावस्य पूर्वत्वात् तदृश्ट्या जश्त्वस्यसिद्धत्वात् जश्त्वस्य बाधात् झषन्तत्वापायात् आदौ भष्भावः सुसम्पन्नः । ततः परं जश्तवानुनासिकयोः कृतयोः गोधुङ्मान् इति रूपसिद्धौ न काचित् क्षतिः । अतः इदम् अधिकारसूत्रम् इति अङ्गीकर्तव्यमेव । अत्र अपरोऽपि विचारः प्रस्तुयते । यथा पूर्वं प्रति परमसिद्धम् इत्यस्य सूत्रार्थः उच्यते । किं पूर्वशास्त्रं प्रति परशास्त्रं असिद्धम् इति वकतव्यं वा उत पूर्वकार्यं प्रति परकार्यमसिद्धम् इति वक्तव्यं व इति प्रश्नः अत्र आगतः । एतदेव शास्त्रसिद्धपक्षः कार्यसिद्धपक्षः कथ्यते । कार्यसिद्धपक्षे प्रथमदोषः – कार्यासिद्धत्वपक्षे पूर्वकार्यं प्रति परकार्यमसिद्धम् इति वक्तव्यम् इत्यर्थात् सिद्धे एव असिद्धत्वारोपात्, पूर्वकार्यं प्रति परकार्यस्य असिद्धत्वे वक्तव्ये आदौ लक्ष्ये परकारस्य प्रवृतिः वक्तव्या । एवं सति मनोरथः इति रूपं म स्यात् । यतः मनस्+ रथः इति स्थिते ससजुषो रूः इति सूत्रेण रुत्वे कृते, मनर् +रथः इति जाते हशि च इति सूत्रेण हशि परे रेफस्य उत्वं प्राप्नोति । रो रि इति सूत्रेण रेफे परे रेफस्य लोपः प्राप्नोति ।
उत्वकार्यं प्रति रेफलोपस्य असिद्धत्वं वक्तव्यं चेत् आदौ रेफलोपस्य प्रवृतिर्स्यात् । एवं च आदौ रेफलोपे कृते मन+रथ इति जाते रेफलोपस्यासिद्धत्वेऽपि देवदत्तस्य हनतरि हते सति न देवदत्तस्य उन्मज्जनम् इति न्यायेन रेफलोपेन अपहृतस्य रेफस्य पुनः तत्रादर्शनात् न तत्र उत्वस्य पुनः प्रसक्तिः एवं सति मनोरथः इति रुपं न सिद्धयेत् । किञ्च पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य इति सिद्धान्तस्य भङ्गः स्यात् । दोषवारणाय शास्त्रसिद्धत्वपक्षः – अस्मिन् पक्षे पूर्वशास्त्रं प्रति परशास्त्रमसिद्धं भवति इति अर्थः निर्णीतः अस्य सूत्रस्य, एवं सति अस्मिन् पक्षे परशास्त्रस्य आदौ प्रवृति अपि लक्ष्ये शास्त्रकृतसंस्कारः न दृश्यते । तेन पूर्वशास्त्रदृश्ट्या परशास्त्रसिद्धेऽपि, त्यदाद्योत्तरम् अद अ औ अद अ अस इति च स्थिते, अतो गुणे इति पूर्वशास्त्रम्, अदसोऽसेदार्दु दो मः एत इद् बहुवचने इति परशास्त्रञ्च प्रवृत्तम् । पररूपविधायकशास्त्रदृश्ट्या मुत्वमीत्वविधायकशास्त्रस्य असिद्धत्वेऽपि तत्र अद अ औ, अद अ अस् इत्यवस्थायां, सत्वात् पररुपप्रवृतौ न किञ्चिद् बाधकम् ।
एवम् आदौ पररुपे कृते अद औ, अद अस् इति जाते, वृद्धिशीभावगुणानां प्रवृत्युत्तरं मुत्वमीत्योः प्रवृतौ अमू , अमी इति इष्टं रुपं सिद्धयति इति शास्त्रसिद्धत्वपक्षेऽस्मिन् न कश्चन दोषः इति अयं पक्ष एव आश्रयणीयः । न मु ने इति हि सूत्रम् । नाभावे कर्तव्ये कृते च मुत्वम् नासिद्धम् इति अस्य सूत्रस्य भावः । अदस्शब्दात् तृतीयैकवचने त्यदाद्यत्वे पररुपे च कृते अद आ इति स्थिते, नाभावं प्रति मुत्वं निमित्तं भवति इत्यतः आदौ मुत्वस्य प्रवृतिः भवति तदुत्तरं तन्निमित्तकः नाभावः इति स्थितिः । एवं सत्यपि अमु आ इति स्थिते नाभाविधायकशास्त्रदृष्ट्या मुत्वविधायकशासत्रस्य त्रैपदिकस्य असिद्धत्वात् घिसंज्ञायाः आभावात नाभावो न स्यात् इति नाभावे कर्तव्ये मुत्वस्य असिद्धत्वं निषिध्यते अनेन सूत्रेण । एवं मुत्वस्य असिद्धत्वे निषिध्ये घिसंज्ञायाः सत्वात् नाभावप्रवृतौ न काचित् क्षतिः । ततः परं नाभावे कृते अमु ना इति सुपि च सूत्रदृष्ट्या च मुत्वस्यासिद्धत्वात् अद न इति दर्शनात् सुपि च इति दीर्घः स्यात् इति नाभावे कृतेऽपि मुत्वस्य असिद्धत्वं निषिध्यते अनेन सूत्रेण । तेन मुत्वस्य तत्र सत्वात् अदन्तत्वाभावात् न तत्र दीर्घः । एतदेव सूत्रारम्भस्य प्रयोजनम् । इदं सूत्रमेव देवदत्तस्य हन्तरि हते सति न देवदत्तस्य उन्मज्जनम् इति न्यायस्य अनित्वज्ञापनद्वारा कार्यासिद्धत्वे पक्षे प्रमाणम् । अदस्शब्दात् तृतीयैकवचने त्यदाद्यत्वे कृते , अद अ आ इति स्थिते, पररुपमुत्वयोः प्राप्तौ कार्यासिद्धत्वपक्षे आदौ मुत्वे, अमु अ आ इति जाते , मुत्वस्य असिद्धत्वनिषेधेऽपि आङ् सकारस्थानिकेन अकारेण व्वधानात् नाभावो न स्यादिति न मु ने इति सूत्रोण मुत्वस्य असिद्धनिषेधः व्यर्थः । वयर्थः सन् देवदत्तस्य हन्तरि हते सति न देवदत्तस्य उन्मज्जनम् इति न्यायस्य अनित्यत्वं ज्ञापयति इति चेन्न , तेन शास्त्रसिद्धत्वपक्षज्ञापनमेव युक्त्तम् । तौ सत् इत्यादिनिर्देशेनापि अस्य न्यायस्य अनित्यत्वं ज्ञाप्यते इति न च वाच्यम्, हते देवदत्ते तद्धन्तरि हतोऽपि नोन्मज्जनं हतत्वारोपे तु सुतरां । हन्तुमुद्यतस्य हनने तु उज्जीवनमस्त्येव इति न्यायस्य संपूर्णं स्वरपम् ।तौ इत्यादिनिर्देशेषु वृद्धिं हन्तुमुद्यतस्य पूर्वसवर्णदीर्घस्य हननात् पुनः वृद्धिः भवति इति नेदं दृष्टान्तं हते देवदत्ते तद्धन्तरि हतेऽपि नोन्मज्जनं इत्यंशस्य विषयः । अतः पूर्वत्रासिद्धम् इति सूत्रे शास्त्रसिद्धत्वपक्ष एव उचितः इति सिद्धान्तः । विरमामि......धन्यवादाः
१. अष्टाध्यायी
२. वैयाकरणसिद्धकौमुदी
३. वैयाकरणसिद्धान्तमञ्जूषा
शिवब्रह्मनारायणप्रतापः
व्याकरणविभागः

शोधच्छात्रः व्याकरणविभागः
संपर्क- ७८६०२६४८७८/ ७००७६७४३६२७
मेल- tripathishivabrahm@gmail.com
Sanskritsewakunj.blogspot.com
संदर्भग्रन्थ१. अष्टाध्यायी
२. वैयाकरणसिद्धकौमुदी
३. वैयाकरणसिद्धान्तमञ्जूषा

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें