शुक्रवार, 3 फ़रवरी 2017

धातुगण-परिचयः

                       

                       धातुगण-परिचयः




एतावता अस्माभिः दृष्टं यत्‌ धातूनां दशगणाः सन्तितथा च विकरण-प्रत्ययेन गणाः भिद्यन्ते |



पठति पठ्‌ अ ति

पठ्‌ – धातुः [अर्थं निर्दिशति]

अ – विकरण-प्रत्ययः [गणं निर्दिशति]

ति – तिङ्‌-प्रत्ययः [लकारं निर्दिशति]



विकरण-प्रत्ययस्य मूल-रूपं भवति धातुतः क्रियापदस्य निर्माणार्थं सोपानानि सन्ति सोपानेषु विकरण-प्रत्ययस्य रूपं परिवर्तते उदाहरणार्थं भ्वादिगणे विकरण-प्रत्ययः शप्‌ सोपानेषु लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपस्य निर्माणेविकरण-प्रत्ययः शप्‌ → "इति भवति एवमेव दशसु लकारेषु—



गणःविकरण-प्रत्ययस्य मूल-रूपम्‌लट्‌ लकारस्य प्रथमपुरुषैकवचनरूपे विकरण-प्रत्ययस्य आकृतिः
१ भ्वादिगणःशप्‌
२ अदादिगणःनास्ति [शप्‌ लोपः]नास्ति
३ जुहोत्यादिगणःनास्ति [शप्‌ लोपः]नास्ति
४ दिवादिगणःश्यन्‌
५ स्वादिगणःश्नुनो
६ तुदादिगणः
७ रुधादिगणःश्नम्‌
८ तनादिगणः
९ क्र्यादिगणःश्नाना
१० चुरादिगणःणिच्‌ शप्‌अय



उपरि स्थिते कोष्ठके पश्यामः यत्‌ मूल-विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति किन्तु तस्मिन्‌ एव कोष्ठके पश्यामः यत्‌ लट्‌-लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति किमर्थम्‌ इति चेत्‌सोपानेषु तानि व्यञ्जनानि अपगच्छन्तिनाम तेषां लोपः भवति यस्य लोपः भवतितस्य विशिष्टं नाम अस्ति— 'इत्इति संज्ञा तर्हि विकरण-प्रत्ययेषु बहुत्र व्यञ्जनानाम्‌ इत्‌-संज्ञा भवति किमर्थम्‌ आरम्भे एतानि व्यञ्जनानि आसन्‌ यदि गच्छन्ति एव तैः वर्णैः कार्यं निर्दिष्टम्‌ अस्ति अपि च तत्‌ कार्यं एषां वर्णानां गमनानन्तरम्‌ अपि सिध्यति तत्‌ कार्यं किम्‌ इति अग्रे पश्यामः |



कः धातुः कस्मिन्‌ गणे प्रविष्टः इति ज्ञातव्यम्‌ अस्माभिः किल एतावता भवन्तः प्रायः मूल-विषयम्‌ अवगच्छन्ति— नामविकरण-प्रत्ययम्‌ अधिकृत्य गणः निर्णेतव्यः प्रथमे करपत्रे च कथं निर्णीयते इति प्रदर्शितंपरन्तु कुत्रचित्‌ विषयः भ्रमात्मकः भवति तानि भ्रमात्मकानि स्थलानि अधुना अवलोकयाम |



विकरण-प्रत्ययः नास्ति चेत्‌धातुः द्वितीयगणे वातृतीयगणे वा ?

अदादिगणे सारल्यम्‌ अस्ति— अस्‌ ति अस्ति अस्‌ति इत्यनयोः मध्ये किमपि नास्तिअतः द्वितीयः गणः |

जुहोत्यादिगणे यद्यपि विकरण-प्रत्ययः नास्तिपरन्तु धातोः द्वित्वम्‌ अस्ति दा → ददातिभी → बिभेति द्वित्वम्‌ अस्ति इति कारणतः सुलभतया अवगच्छामः तृतीयगणःअतः द्वित्वं तृतीयगणस्य लक्षणम्‌ |



चतुर्थः गणः वा दशमः गणः वा ?

दिवादिगणे विकरण-प्रत्ययस्य केवलं "इति भागः दृश्यते क्रियापदे |

चुरादिगणे विकरण-प्रत्ययस्य "अयइति भागः दृश्यते क्रियापदे |



नश्‌ य ति नश्यति

कथ्‌ अय ति कथयति



भेदः अवगतः किल नश्‌ इत्यस्य अनन्तरम्‌ 'न आगच्छतिकेवलं '' | अतः चतुर्थगणः कथ्‌ इत्यस्य अनन्तरम्‌ 'अस्तितदा ''; आहत्य 'अय' | अतः दशमगणः |



पञ्चमः गणः वा अष्टमः गणः वा ?

स्वादिगणे लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपेविकरण-प्रत्ययस्य 'नोइति भागः दृश्यते |

तनादिगणे लट्‌-लकारस्य प्रथमपुरुषैकवचनरूपेविकरण-प्रत्ययस्य केवलम्‌ 'इति भागः दृश्यते |



"नो" "इत्यनयोः भेदः |



शक्‌ नो ति शक्नोति

तन्‌ ओ ति तनोति



भेदः अवगतः किल पञ्चमगणे नकारः विकरण-प्रत्यये अस्तिअष्टमगणे नकारः धातौ अस्ति |



प्रथमः गणः वा षष्ठः गणः वा ?



अस्य भेदस्य अवगमनार्थम्‌ अग्रिमं करपत्रं पठति चेत्‌ वार्ता स्पष्टा भविष्यति इति मन्ये |
                                                                      

2 टिप्‍पणियां:

  1. अहो!!! बहुशोभनं। धातुरचनाज्ञानवर्धनाय बहूत्तमं वर्तते।

    जवाब देंहटाएं
  2. अहो!!! बहुशोभनं। धातुरचनाज्ञानवर्धनाय बहूत्तमं वर्तते।

    जवाब देंहटाएं

समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं   वा पदत्रयं   वा परस्परं समस्यते स   सम ु दायः   समासः    इति । प्राक्कडारा समासः [i] - समासस...