कर्तृ-प्रकाराः
·
चेतनः
·
अचेतनः – मूर्तः (रथः, शकटः)
·
अचेतनः – अमूर्तः (क्रोधः, ज्वरः)
·
अनुभवी – (वर्धते, क्षीयते
इत्यादिभावविकाराणां कर्ता)
·
कर्म कर्ता – (ओदनः पच्यते स्वयमेव)
·
करणकर्ता – (काष्ठानि पचन्ति)
·
अधिकरणकर्ता – (स्थाली पचति)
·
शुद्धः हेतुः/ प्रयोजकः/ प्रेरकः – (देवदत्तः विष्णुमित्रेण
पाचयति)
·
शुद्धः प्रयोज्यः – (देवदत्तः विष्णुमित्रेण पाचयति)
·
मध्यस्थः – (चैत्रः देवदत्तेन विष्णुमित्रेण पाचयति)
·
अभिप्रेरकः – (देवदत्ताय रोचते मोदकः)
कर्म-प्रकाराः
·
निर्वर्त्यम्
·
विकार्यम्
·
प्राप्यम्
·
उदासीनम्
·
द्वेष्यम्
·
अकथितम्
·
आधार – कर्म (अधिशी-------कर्म)
·
प्रयोज्यः
·
कालः
·
देशः
·
भावः (क्रियया सूचितः कालः)
·
मार्गपरिमाणम्
·
गतिकर्म
·
सम्प्रदानकर्म
करण-प्रकाराः
·
करणम्
·
कर्मरूपं करणम् (केवलं यजधातोर्विषये –पशुना रुद्रं यजते)
·
कर्मकरणम् (युगपदेव संज्ञाद्वयम् – मनसादेवः)
संप्रदान
– प्रकाराः
·
मुख्यसंप्रदानम् (याचकाय धनं ददाति)
·
गौणसंप्रदानम् (रजकाय वस्त्रं ददाति, शिष्याय चपेटां
ददाति)
·
क्रियोद्देश्यं (युद्धाय सन्नह्यति)
·
परिक्रयणसाधनं धनम् (शताय परिक्रीणाति)
·
विप्रश्नविषयः (कृष्णाय राध्यति)
·
कोपोद्देश्यं
·
ईप्सितं
·
उत्तमर्णः
अपादान
– प्रकाराः
·
अवधिरूपम्
·
भयहेतुः
·
वारणे अवधिः
·
असोढः (पराजेरसोढः)
·
कर्तुः अदर्शनविषयः
·
विभक्तम्
·
आख्याता
·
प्रकृतिः
·
प्रभवः
·
जुगुप्सितम्
·
प्रमादस्य विषयः
अधिकरण – प्रकाराः
·
अन्तर्दैशिकम् (औपश्लेषिकम्, अभिव्यापकं च)
·
बहिर्दैशिकम् (औपश्लेषिकम्)
·
कालिकम्
·
वैषयिकम्
·
पर्यन्ताधिकरणम् (पर्यन्तं यावत् इति शब्दाभ्यां बोध्यमानं दैशिकं कालिकं च)

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें