परस्परमानवविचाराणामभिव्यक्तिं शुद्धां, परिष्कृतां, परिमार्जितां च कर्तुं भाषाविशेषाय
व्याकरणम् आवश्यकम् । षट्सु वेदाङ्गेषु प्रधानं व्याकरणम् । ‘’व्याक्रियन्ते
व्युत्पाद्यन्ते प्रकृत-प्रत्यय-विभाग-द्वारा निष्पाद्यन्ते शब्दाः अनेनेति व्याकरणम्’’
,वि आङ् इत्युपसर्गपूर्वक कृञ् धातोः ‘’कारणाधिकरणश्च
’’ इति सूत्रेण ल्युटि प्रत्ययेन सिद्धयति व्याकरणमितीदं पदं भवति ।
व्याक्रियन्ते अर्थाः येन तत् व्याकरणम्, वेदाङ्गेषु ‘’मुखं
व्याकरणं स्मृतम्’’ तच्च व्याकरणम् ‘’व्यवसायात्मिका
बुद्धिमनो मे व्याकरणात्मकम्[i]
।इत्थं च यथा बुद्धिः- व्यवसायात्मिका- विश्लेषणात्मिका तथा मनः व्याकरणात्मकं
जायते तद् व्याकरणम् शास्ति व अनेन इति शास्त्रम्। शास् धातोः ‘’ सार्वधातुभ्यः ष्ट्रन ’’इत्यौणादिसूत्रेण ष्ट्रन
प्रत्यये सति शास्त्रमिति ।
व्याकरणस्य वेदमूलकत्वम् -
वेदो हि
विश्वस्य पुरातनंसर्वश्रेष्ठंविद्यास्थानम् । अस्माकं भारतीयानां परम्परायां
वेदेषु सर्वविधं ज्ञानं विद्यते तज्ज्ञानमेव सर्वत्र ग्रन्थेषु
भिन्न-भिन्नप्रकारेण चकास्ति । य़था च
मनुस्मृतौ प्राप्यते यत् –
यः कश्चित्
कस्यचिद्धर्मो मनुना परिकीर्तितः ।
स सर्वो निगदितो वेदे
सर्वज्ञानमये हि सः ।।
मनुस्मृतौ२/७
एनं रीत्यासर्वमपि ज्ञानं वेदमूलकतां बिभर्ति । तस्माद्वेदानां
सर्वज्ञानमयत्वमिति गम्यते ।
तत्र ऋग्वेदे यज्ञेन
यज्ञमयजन्त देवा इति मत्रांऽशे यज्ञशब्दस्य
यज्ञधातुना कीदृशी साधीयसी व्युत्पत्तिः
प्रदर्शिताऽस्ति । एवमेव धान्यमसि धिनुहि देवान् इति यजुर्वेदे
मन्त्रभागे धान्यशब्दस्य येन देवाः
पवित्रेणत्मानं पुनते सदा इति, सामवेदे पवित्रशब्दस्य तीर्थैस्तरन्ति इत्यथर्ववेदे तीर्थशब्दस्य
प्रकृतिप्रत्ययविश्लेषणेन व्याकरणशास्त्रस्य मूलभूतः सङ्केतः साधूपलभ्यते ।
शब्दार्थयोः स्वरूपनिर्धारणं
व्याकरणशास्त्रस्य मुख्यं प्रतिपाद्यमस्ति । शब्दतत्वस्य
दार्शनिकस्वरुपं वेदब्राह्मणोपनिषत्सु
स्पष्टीकृतमस्ति ।
ऋग्वेदे प्रतिपादितं वर्तते यत्-
अहमेव वात इव
प्रवाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा पर एना
पृथिव्यैतावती महिना सम्बभूव ।।
ऋग्वेदः,१०/१२५/८
शतपथब्राह्मणेऽपि निगदितम्-
वागेव विश्वा भुवनानि जज्ञे
वाच इत् सर्वममृतं यच्च मर्त्यम् ।
अथेद्वाग् बुभुजे
वागुवाच पुरुत्रा वाचो न पदं यच्च नाह
।।
अथर्ववेदः,४/३०/८
कैवल्योपनिषद्यपि-
सर्वमपि वाक्तत्वे संवर्तत्वेन
राराष्ट्रि ।
मय्येव सकलं जातं मयि
सर्वं प्रतिष्ठितंम् ।
मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम्
।।
कैवल्योपनिषद्, ६/१९
तैत्तिरीयसंहितायां प्रतिपदेल- वाग्वै पराच्यव्याकृतावदत् ते देवा
इन्द्रमब्रुवन्निमां नो व्याकुव्वर्ति, तामिन्द्रो मध्यतोऽवक्रस्य
व्याकरोत्तस्मादियं व्याकृता वागुद्यते ।
तैत्तरीयसंहिता ६/४/७ मैत्रेयीसंहिता ४/५/८
आदौ वाक्तत्वमव्याकृतासीत् , देवैः प्रार्थितस्सन्निन्द्रस्तस्याः व्याकरणमकरोत् (अव्याकृताद्वात् इति)।
तदारभ्य वाक्तत्वं व्याकृतवागित्यकथयत् ।
वैयाकरणैरप्येषा
वेदोपनिषत्सु विवेचिताऽवधारणा
स्पष्टीकृता, तत्र भवान् भर्तृहरिः समुद्धोषयामास- उत्पत्तिविनाशरहितं
शब्दतत्वं यदक्षरं त्रैकालिकव्याप्तसत्ताकमविनाशि,व्यापकमक्षरात्कं वा ब्रह्म,यतो
ब्रह्मणो जगतः संसारस्य प्रक्रिया क्रियाकलापः प्रवर्तते तत् शब्दतत्वमर्थभावेन
गोघटाद्यर्थस्वरुपेण विवर्तते –भवति[ii] । सर्ववेदपारिषदं
हीदं शास्त्रम,[iii]अस्यैव
फलितार्थोक्त्तीर्वर्तते शिष्टैर्प्रयुज्यमानत्वात् ।
सर्वपार्षदं हीदं
व्याकरणम् । काणादं पाणिनयञ्च सर्वशास्त्रोपकारकम्।
इत्युक्तिद्वरा व्याकरणस्य सार्वेयता गम्यते ,तथा च महर्षिपत़ञ्जलिना
महाभाष्ये प्रत्यपादि एतेषां व्याख्यानेन विभाव्यते यत् वेदमन्त्रेष्वेव
व्याकरणमन्तर्भूतस्यन् वेदात्मकतां लभते ।
चत्वारि ऋङ्गा त्रयोऽस्य
पादा द्वे शीर्षे सप्त हस्तासोऽस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यानानिवेष ।।[iv]
त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यानानिवेष ।।[iv]
चत्वारि वाक्यपरिमिता पदानि..........................मनुष्या वदन्ति ।[v] उत
त्वः पश्यन्न ददर्श........सुवासा [vi]।
सक्त्तुमिव तितउना......................निहिताऽधिवाचि ।[vii]
सुदेवोऽसि वरुण................सुषिरामिव ।[viii]
एतेषां मंत्राणां व्याकरणशास्त्रीयं व्याख्यानं निरुक्तमहाभाष्यकृद्भां प्रतुष्टवे
। एतेन निश्चियते यत् व्याकरणस्य वेदमूलकतैव विद्यते । इतोऽपि व्याकरणस्य
पुरातनत्वविचारे प्रामाण्येन प्रथ्यते यत् वाल्मीकिरामायणे हनुमता कथं स्वगुरुणा
व्याकरणमग्राहीति वर्ण्यते –
असौ पुनर्व्याकरणं
ग्रहीष्यन् सूर्योन्मुखः प्रष्टुमनाः कवीन्द्रः ।
किष्किन्धाकण्डेऽपि श्रीरामचन्द्रेण हनुमन्मिनलप्रसङ्गेऽबोधि-
बहु व्याहरताऽनेन न
किञ्चिदपदभाषितम् ।
नूनं व्याकरणं कृत्स्नमनेन
बहुधा श्रुतम् ।।[x]
तथा च गोपथब्राह्मणे ओङ्कारं पृच्छामः.........करणम्[xi]
षडङ्गत्वनिर्देशोऽपि मुण्डकोपनिषदादिग्रन्थेषु प्रत्यपद्यत । परम्पराऽस्य विद्यत
एवम्भूता- ब्रह्म बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय ,
भरद्वाज ऋषिभ्यो, ऋषयो ब्रह्णेभ्यः । व्याकरणनिकाये नवविधं व्याकरणमवाप्यते
तत्वविधिनामकवैष्णवग्रन्थे –
ऐन्द्र चान्द्रं
काशकृत्स्नं कौमारं शाकटायनम् ।
सारस्वतं चाऽपिशलं
शाकल्यं पणिनीयकम् ।।[xii]
अत एवम्भूतसम्प्रदायेषु सत्सु तत्रास्माकीने पणिनीयव्याकरणेऽष्टाध्यायीमाधृत्य
पणिनिव्याकरणं त्रैध्यं भजते । प्रक्रियापरिष्कारदर्शनभेदतः तत्र वास्तविकमिदमेव
यद्व्याकरणस्य कार्यं शब्दसाधुमेवासीत् ,किन्तु शनकैः शनकैरेभिरपि
यथाऽन्यशास्त्रणां विकासोऽभूत् । तद्वदत्राप्याचार्यैः परिष्कारदर्शनपक्षयोरवस्थापनमकारि
।
नैयायिकमीमांसकाभ्यामवस्थापितसिद्धान्तावेते
पूर्वपक्षीकृत्य स्वसिद्धान्तानवास्थापयन् ।तत्र दर्शनपक्षारम्भस्तु
पाणिनेरारभ्यते, परम्परायामस्यां व्याडेरप्युल्लेखः संग्रहकर्तृत्वेनोपलभते
व्याडेरुद्धरणान्यपि महाभाष्येऽलभ्यन्त ।तस्य लक्षश्लोकात्मकः संग्रहाख्यो ग्रन्थो
नोपलभ्यत उल्लेखमात्रमेव प्राप्यते ।-
प्रायेण
सङ्क्षेपरुचीनल्पविद्यापरिग्रहान् ।
महाभाष्यस्य पस्पशाह्निके सङ्ग्रहे तावत्कार्यप्रतिद्वन्दिवभावान्मन्यामहे
नित्यपर्यायवाचिनो ग्रहणम् ।[xiv]
एवम्भूतोद्धरणानां महाभाष्ये बहुशो विद्यमानत्वात्, व्याडिकृतसङ्ग्रहस्य
पूर्वगामिता वर्तते । तस्य विस्तरः पतञ्जलिना महाभाष्ये प्रख्यापि ।सर्वेषां
न्यायबीजानां निबन्धनमिदं महाभाष्यम्, वैयाकरणानामाकरग्रन्थत्वेन प्रासिध्यत् ।
कृतेऽथ पतञ्जलिना गुरुणा
तीर्थदर्शिना ।
सर्वेषां न्यायबीजानां
महाभाष्ये निबन्धने ।।[xv]
तदनु काण्डत्रयात्कभर्तृहरेर्वाक्यपदीयम्, वस्तुतः व्याकरणशास्त्रे दर्शनपक्षस्य
प्रतिष्ठापकाचार्यत्वेन प्रामुख्येन भर्तृहरिरेव विद्यते । स कथयति यद् व्याकरणं
मोक्षस्य द्वारमिति-
तद्वारमपवर्गस्य
वाङ्गालां चिकित्सितम् ।
पवित्रं
सर्वविद्यानामधिविद्यं प्रकाश्यते ।।[xvi]
तथा च मोक्षस्य प्रधानभूतो मार्ग इत्यपि
निगद्यते-
इदमाद्यं पदस्थानं
सिद्धिसोपानपर्वणाम् ।
इयं सा मोक्षमाणानामजिह्मा राजपद्धति ।।[xvii]
इत्यादिभिः कारिकाभिर्दर्शनत्वमस्य शास्त्रस्य दरीदृश्यते ।
अत्रास्माभिरर्थवैज्ञानिकी चर्चा विधास्यते पाणिनिव्याकरणमूलिका, सा
व्याकरणशास्त्रीयग्रन्थानामध्ययनेन सम्भविष्यति । सभेदं सूत्रलक्षणमिदं प्राप्यते –
सञ्ज्ञा च परिभाषा च
विधर्नियम एव च ।
अतिदेशोऽधिकारश्च
षड्विधं सूत्रलक्षणम् ।।
अल्पाक्षरमसन्दिधं सारवद्विश्वतोमुखम् ।
क्रमशः एतेषां विवरणमत्र प्रस्तूयते । सञ्ज्ञासंज्ञिप्रत्यायकं सूत्रं भवति सञ्ज्ञासूत्रं यथा वृद्धिरादैच् ,अदेङ्गुणः,हलन्त्यम् इत्यादि । अनियमे नियमकारणि भवति परिभाषा यथा तस्मिन्निति निर्दिष्टे पूर्वस्य ।आदेशादिविधायकसूत्रं भवति विधिसूत्रम् यथा वृद्धिरेचि, आदगुणः,तस्यलोपः। प्राप्तस्य विधेःनियामकं सिद्धे सत्यारभ्यमानो विधिः इतमिदं सूत्रं नियमः यथा पतिः समास एव कृतद्धितसमासाश्च ,अन्यतुल्यत्वविधानं भवति अतिदेशः यथा स्थानिवदादेशोऽनलविधौ । एकत्र उपात्तस्य अन्यत्र व्यापारः यथा प्रत्तयः, पूर्वत्रासिद्धम् ।
अष्टाध्यायीपरिचयः- संस्कृतभाषायाः
रुपरेखा एकस्मिन् लघुग्रन्थे अभूत्पूर्वम् ¡ पाणिनिना अष्टाध्य्याः एवं रीत्या रचना कृता येन ग्रन्थो
लघुत्तमः स्यात् अपि च स्वयं संस्कृतनिष्ठः स्यात्। अष्टाध्याय्याः मूलबीजं
प्रकरणम् अस्ति । अष्टाध्यायाम् अष्टौ अध्यायाः सन्ति ,प्रत्येकस्मिन् अध्याये
चत्वारः पादाः सन्ति ।पादेषु सूत्रणि क्रमेण भवन्ति। प्रत्येकसूत्रस्य स्वस्यसंङ्ख्या
सङ्ख्यानां भागत्रयम् प्रथमा सङ्ख्या अध्यायस्य,द्वितीया सङ्ख्या पादस्य,तृतीया
सङ्ख्या सूत्रस्य भवति यथा वृद्धिरादैच् (१.१.१) अत्र क्रमशः सांक्षिप्तिकः परिचयः
प्रस्तूयते ।
१.
प्रथमोऽध्यायः- अत्र सञ्ज्ञासूत्राणां विचारः यथा-
वृद्धिरादैच् (१.१.१),अदेङ्गुणः (१.१.२)
२.
द्वितीयोऽध्यायः- अत्र समासाधिकारः-सर्वे समासाः
विहिताः,विभक्तीनां विधानम्, धात्वादेशः एवञ्च लुक्प्रकरणम् इत्यादिनां विचारः
प्राप्यते ।
३.
तृतीयोऽध्यायः- धातुभ्यः ये ये प्रत्यया विहिताः तेषां
विचारः।
४.
चतुर्थोऽध्यायः-प्रातिपतिकेभ्यः ये ये प्रत्ययाः विहिताः ते
सर्वे अत्रोक्ताः ।
५.
पञ्चमोऽध्यायः- तद्धितप्रत्ययाः, विभक्तिसञ्ज्ञकाः
प्रत्ययाः,अव्ययसञ्ज्ञकाः प्रत्ययाः एतेषामत्र विचारः ।
६.
षष्ठोऽध्यायः- अत्र द्वित्वप्रकरणम्, सम्प्रसारणम्,सन्धिः
संहिताधिकारः ।
७.
सप्तमोऽध्यायः- अत्र अङ्कार्यम्, अडात् परस्य
प्रत्यादेशः,इडागमप्रकरणं, सार्वघातुकप्रत्यये
परे अङ्गीकार्यम्.वृद्धिप्रकरणं,अभ्यासकार्यम् ।
८.
अष्टमोऽध्यायः- पदस्य इत्यधिकारः
,पूर्वत्रासिद्धत्वाधिकारः,हलसन्धिः,विसर्गसन्धिः,षत्वप्रकरणम्,णत्वप्रकरणम्
सम्पूर्णाष्टध्यायां ३९८१ सूत्राणि सन्ति अत्र सञ्ज्ञासूत्राणि ९१
,परिभाषासूत्राणि २३
अतिदेशसूत्राणि ३५ अधिकारसूत्राणि ७४ प्राप्यन्ते ।
[i]
महाभारतम् १२/२५१/१९
[ii]
अनादिनिधनं ब्रह्म शब्दतत्वं यदक्षरम् विवर्ततेऽर्थभावेन
प्रक्रिया जगतो यतः, वाक्यपदीयम् १/१, पृ १
[iii]
महाभाष्यम् २/१/६८
[iv]
महाभाष्यपस्पशाह्निकम् पृ ४८, ऋग्वेदे, ४/५८/३
[v]
ऋग्वेदः, १/१६४/४८
[vi]
तत्रैव, १०/७१/४
[vii]
तत्रैव ,१०/७१/२
[viii]
तत्रैव ,८/६९/१२
[ix]
रामायणम्
[x]
रामायणे किष्किन्धाकान्डम् /२९
[xi]
गो०ब्रा०पू०१/२४
[xii]
संस्कृतव्याकरणशास्त्रस्येतिहासप्रथमभागे ,पृ ७५
[xiii]
वाक्यपदीयम्, २/४७६
[xiv]महाभाष्यपस्पशाह्निकम्, पृ०७९
[xv]
वाक्यपदीयम् १/१४
[xvi]
वाक्यपदीयम् २/४४
[xvii]
तत्रैव १/१६

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें