जनाः सर्वेऽपि सर्वथा सुखं
शान्ति चेच्छिन्ति । विना उद्योगेन
पुरुषार्थेन सुखं शान्तिश्च कदापि न सम्भवति
। उद्योगेनैव मनुष्यो विद्या धनं कलासु कुशलता च प्राप्यते ।
येऽनुद्योगिनः सन्ति, ते सुखं समृद्धिं च
न जातु लभन्ते ।
अत उच्यते-
उद्योगिनं पुरुषसिंहमुपैति
लक्ष्मीर्दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु
पौरुषमात्मशक्त्या, यत्ने कृते यदि न सिद्धयति कोऽत्र दोषः ।।
भगवद्गीतायां भगवता कृष्णेन
प्रतिपादितमेतद् यद् मनुष्यैः संसारेऽवश्यमेव कर्म
कर्तव्यम् अकर्मणि कदापि
प्रवृत्तिर्न कर्तव्या । पुरुषार्थेनैव जीवनं चलति ।
नियतं कुरु कर्म
त्वं,कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि
च ते, न प्रसिध्येदकर्मणः ।।
संसारेऽनुद्योग आल्सयं वा
मनुष्यस्य महानशत्रुः वर्तते,येन मनुष्यः सदा दुःखं प्राप्नोति । उद्यमिन एव
दुखानि त्यक्त्वा सुखं समृद्धि च प्राप्नुवन्ति ।
उक्तं यथा-
आलस्यं हि मनुष्याणां शरीरस्थो
महान रिपुः ।
नास्त्युद्यमसमो बन्धुः,कृत्वा
यं नावसीदति ।।
जदति दृष्यते एतद्यद् जनाः
सर्वविधसुखं वाञ्छन्ति, परन्तु तदर्थं प्रयत्नं यत्नं कदापि न कुर्वन्ति । विना प्रयत्नेन किंचिदपि
कदाचिदपि न सिद्धयति एतत तु सुनिश्चितं वर्तते ।
अत एवोक्त्तं –
उद्योगिनः हि
सिद्धन्ति,कार्याणि न मनोरथैः ।
नहि सुप्तस्य
सिंहस्य,प्रविशन्ति मुखे मृगाः ।।
योजनानां सहस्त्रं तु,
शनैर्गत्छेत् पिपीलिकाः ।
आगच्छन् वैनतेयोऽपि,पदमेकं
न गच्छति ।।
उद्योग माध्यमेनैव निर्धना
धनिनो भवन्ति अज्ञानिनो ज्ञानवन्तः,
अकुशलाः कुशलाः,निर्बलाः सबलाः,दीनाः हीनाश्च सर्वविधसम्पत्तिसमन्विताः भवन्ति ।
कलिदासः उद्यमेनैव कविकुलगुरुः बभूव, वाल्मीकिकाव्यासादयश्च कविवराः संजाताः ।
सर्वमुद्योगेनैव सिद्धयति । अनुद्योगेन भाग्यनिर्भरतया च दुःखमेव आप्नोति । अतः
सर्वैः सर्वदा उद्योगः करणीयः । परेशोऽपि उद्योगिन एव साहाय्यं करोति ।
उक्तं च –
न दैवमिति संचिन्त्य, त्यजेदुद्योगमात्मनः ।
अनुद्योगेन
तैलानि तिलेभ्यो नाप्तुमर्हति ।।
उद्यमः साहसं धैर्यं,
बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते, तत्र
साहाय्यकृद् विभुः ।।
शिव त्रिपाठी
दिनाङ्क-०४/०४/२०१८

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें