भ्रष्टाचारस्तु सर्वेषां, पापानां मूलकारणम् ।
कृष्णधनेन लोकानां , सन्मतिः क्षीयते सदा ।।
भ्रष्टाचारः कः ?
अनुचित साधनेन धनोपार्जनम् । भ्रष्टाचारः
अनेकरूपः । यथा –
उत्कोच- ग्रहणम्, खाद्यवस्तुषु अखाद्यस्य मिश्रणम्,
अनुचित-साधनेन धनं प्राप्तिः,
स्वेष्ट-कार्यस्य
संपादनार्थ् उत्कोच-प्रदानम् ।
साम्प्रतं भारतवर्षे भ्रष्टाचारः
विष-वृक्षवत् संवर्धते । उत्कोचदानम्
उत्कोचग्रहणं च आमूलं दृष्यते । उत्कोच-प्रदानं विना राजकीय-कार्यालयादिषु
स्वल्यमपि कार्यं साधयितुं न शक्यते । पदे पदे उत्कोच-ग्रहण-समस्या वर्तते । केवलं
सामान्याः अधिकारिण एव अत्र न प्रवर्तन्ते, अपितु उच्चाधिकारिणः अपि आमूलम् उत्कोचग्रहणे प्रवृत्ताः । ‘यथा राजा तथा प्रजा
’ यदा उच्चधिकारिणः उत्कोचं गृह्णन्ति, तदा निंम्नपदस्थाः अधिकारिणः अपि
निर्भयम् उत्कोच-ग्रहणे प्रवर्तन्ते ।
भारते भ्रष्टाचारस्य स्थितिः भयावहा वर्तते । जनता किंकर्तव्य-विमूढा वर्तते । कं
नु शरणं गच्छामि , न कश्चित मां श्रृणोति ।
कृष्णधनम् अस्माकं भारतीयानाञ्कृते कलङ्करूपेण वर्तते । भारतस्य यद्धनं
स्विसवित्तकोषे वर्तते, तस्य आगमनं यदि अस्माकं देशं प्रति भविता । तदा
भारतराष्ट्रः सर्वविधविकसितराष्ट्रेषु परिभाषितः भविष्यति । कृष्णधनं भारतं प्रति
आननार्थं केवलं सर्वकारस्यैव दायित्वं नास्ति, अस्माकं समेषां भारतीयानां
दायित्वमस्ति । अस्माकं बुद्धिः यावत् पर्यन्तं स्वच्छा, स्वेतगुणोपेता ,
सत्यनिष्ठयुक्ता न भविष्यति तावत् पर्यन्तं नैव वयम् आनेतुं दक्षाः भवामः ।
भ्रष्टाचारः
शतविधः । यो यत्र वर्तते, स तत्रैव
भ्रष्टाचारे संल्पितः । मन्त्रिणः सांसदः
,विधायकाः अपि एतस्मिन् कार्ये न
लज्जाम् अनुभवन्ति ।
सत्यम् एतद्
यद् भ्रष्टाचारः असाध्यो रोगः । परन्तु निपुणाः
भिषजः असाध्यमपि
रोगं साध्यं
कुर्वन्ति । यत्ने कृते नहि किंचिद्
असाध्यं भवति । सर्वकारस्य शिथिलतैव
अत्र प्रमुखं कारणम् । यदि सर्वकारः
दृढ-निश्चयेन प्रवर्तते, तदा न किचिद् असाध्यम् ।
भ्रष्टाचारस्य
निषेधोपायाः –
१.
आचारशिक्षायाः, नैतिकशिक्षायाश्च शतविधः प्रचारः
प्रसारः च स्यात् ।
२. कठोर-दण्ड-व्यवस्था
भवेत । महाभारते उच्यते-‘दण्डः शस्ति प्रजाः सर्वाः ,दण्ड एवाभिरक्षति’ ।
३. धन-लोलुपतायाः
परित्यागस्य शिक्षणम् ।
४. विलसि-जीवनस्य
परित्यागः ।
५. कठोर-श्रमस्य
शिक्षा ।
६. राजपुरुषाणां
चल-अचल-संपत्ति-घोषणा अनिवार्या स्यात् ।
७.
मनो शिक्षायाः प्रसारण् । यथा-
अधर्मेणैधते तावत् , ततो भद्राणि पश्यति ।
ततः सपत्नान् जयति , समूलस्तु विनश्यति ।।
शिव त्रिपाठी
दिनाङ्कः- ०८/०४/१८

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें