यदा कस्यापि राष्ट्रे
कृष्णधनस्य (कालाधन) समान्तरमेव अर्थव्यवस्था अवस्थिता भवति, तथा च
अर्थव्यवस्थायाः उपरि महान् सङ्कट आपतति ,एवञ्च मुद्रायाः आधिक्यता भवति
तदा सर्वकारः मुद्रां स्वतंत्ररुपेण त्वरित प्रभावेण पिधानं कृत्वा,
नवीनां मुद्रां आनयति ।
देशवासीश्चः उपयोगार्थं तमेव विमुद्रीकरणमुच्यते । आग्लभषायां
विमुद्रीकरणं (Demonetization) इति कथ्यते । अस्माकं भरतदेशे ८ दिनाङ्के
नवम्बर मासस्य षोडशुत्तरद्विसहस्त्रतमे
(२०१६) वर्षे पञ्चशतरुप्यकस्य
एवञ्च सहस्त्ररुप्यकस्य पिनद्धा। अकस्मातेव भारतस्य
प्रधानमंत्रीमोदीमहोदयेन घोषणा चकार ।R.B.I. इत्यस्यानुसारं
मार्चमासस्य एकत्रिंशत् षोडशुत्तरद्विसहस्त्रखीस्ताब्दात् पूर्वं भारते प्रायः सप्तदशलक्षकोटिरुप्यकाणां मूल्यस्य मुद्रारुपेण रूप्यकाणि आपणे आसन यस्मिन् प्रायः
चतुर्दशलक्षकोटिपरिमितस्य रुप्यकाणि पञ्चशतम् एवञ्च सहस्त्रशतं रुपेण
आसीत् ।
कृष्णं धनम् एका अत्यन्ता जटिला वृहत्तमा
समस्यावर्तते । कृष्णधनस्योपरि अन्ना अन्नाहजारेतः बाबारामदेवादयो आन्दोलनानि कृतानि । बहूनी
दलानि अपि कृष्णधनम् आनेतुं प्रयासाः कृताः परन्तु अद्यावधिपर्यन्तं न साफल्यं
प्राप्तम् ।
परन्तु विमुद्रीकरणेन लाभाः
सञ्जाताः ।यस्य रुप्यकाणि वैदेशेषु राजन्ते , तेषां धनानि मृत्तिकावद् प्रायशः
जायन्ते ।
विमुद्रीकरणेन बहुलाभाः सन्ति-
१- कृष्णधनेन ये व्यवसायाः चलन्तिस्म तान् प्रति अवरोधोजातः ।
२- विमुद्रीकरणेन व्यवसाये वृद्धिः भवति, जायते च ।
३- विमुद्रीकरणेन यदा
कृष्णधनस्य सम्भावना अवरुद्धा जाता, तेन हिंसायाः उपरि अपि मन्ये अवरोध दृश्यते ।
४- विमुद्रीकरणान्तरं श्वेतधनेन
बहुवृत्तिकरणस्य उपायाः समान्यजनानां कृते लब्धाः ।
५- अर्थव्यवस्थायमुन्नतिः भवति, भारतस्य उन्नतिः विमुद्रीकरणानन्तरम्
अत्यधिका वर्धिता ।
६- अभियान्त्रिकीद्वारा
धनार्जनस्य आवश्यकता (कैशलेस) जाता , अनेन भरतस्य लाभा सन्ति ।
७- भारतराष्ट्रेऽपि अग्रगण्यदेशानां
श्रेण्यामागमिष्यति ।
८- सर्वश्रेष्ठलाभः वर्तते यत्
आतंकवादस्य निरोधः जातः । आतंकवादः न प्रसरिष्यति, चेत् शान्तिः आगमिष्यति जनाः
आनन्देन स्वजीवनयापनं करिष्यन्ति ।

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें