शुक्रवार, 6 अप्रैल 2018

स्त्रीशिक्षाया आवश्यकता



शिक्षा मनुष्ये स्वकर्तव्याकर्तव्यस्य शिक्षा ददाति । शिक्षयैव जनाः शुभं कर्म कुर्वन्ति,अशुभं च परित्यजन्ति । शिक्षित एव जनाः देशसेवां राष्ट्ररक्षां, राष्ट्रसंचालनं पठनं पाठनं विज्ञान्नोन्नतिं  च कुर्वन्ति ।यथा पुरुषेभ्यः शिक्षा श्रेयस्करी वर्तते , तथैव स्त्रीभ्योऽपि  शिक्षाया महती आवश्यककता वर्तते ।

      स्त्रीणां कृते शिक्षाया महती आवश्यकता एतस्मात् करणाद् वर्तते यत् ता एव समये  प्राप्ते  मातरो भवन्ति । तथैव सन्ततिर्भवति । यदि मातरोऽशिक्षिताः विद्याशून्याः कर्तव्यज्ञानहीनाश्च सन्ति,तर्हि पुत्राः पुत्र्यश्च तथैवविद्याग्रस्ताः कुशलतारहिताश्च भविष्यन्ति । यदि नार्यः शिक्षिताः सन्ति,स्वपुत्राणां पालनं रक्षणं शिक्षणादिकं च सम्यक्तया करिष्यन्ति, एवं तासां सन्ततिः विद्यायुक्ता हृष्टा पुष्टा सदगुणोपेता च भविष्यति । 
अतएव महानिर्वाणतन्त्रेऽप्युक्तमस्ति-

                         कन्याऽप्येवं लालनीया,शिक्षणीया प्रयत्नतः ।।

वर्तमानसमये  अस्माकं भारतसर्वकारेणऽपि बहूनि प्रकल्पानि स्त्रीशिक्षाया कृते निर्मितानि सन्ति, यथा बेटी पढाओ बेटी बढाओ इत्यादयः अनेकानेक माध्यमेन तासां शिक्षाया स्तरः उन्नयनयतुं कार्याणि क्रियमाणाः सन्ति ।

    विवाहे संजाते कन्याः गृहस्थाश्रमः प्रविशन्ति । यदि पुरुषो विद्वान् स्त्री विद्याशून्या भवति तदनु तयोः दाम्पत्यजीवनं सुखकरं कदापि न भवति . विद्याया अभावात् स्त्री स्वकीयं कर्तव्यं न जानाति । अतएव बहवो रागा व्याधयश्च तत्र स्थानं ग्रह्णन्ति । अतः स्त्रीणामपि शिक्षा पुत्राणां शिक्षावदेव आवश्यकी वर्तते । स्त्रयो मातृशक्तेः प्रतीरभूताः सन्ति ,अतः तासां सदा सम्मानः करणीयः । यस्मिन् देशे समाजे च स्त्रीणामदरो  भवति , स देशः  समाजश्चोन्नतिं प्राप्नुतः ।
 उक्तं च मनुना-

                             ‘यत्र नार्यस्तु पूज्यन्ते,रमन्ते तत्र देवताः’।।

बलिकानां शिक्षा बालकैः सहैव स्यात्, पृथग् व, इत्येष विषयः साम्प्रतं यावद् विवादास्पदमेवास्ति । स्त्रीशिक्षाया भारते प्रथमं बहुविरोधोऽभवत् । साम्प्रतं स समाप्तप्राय एव । स्त्रीशिक्षायाः काश्चन हानयोऽपि दृश्यते, तासां परिमार्जनऽपि स्यात् ।शिक्षिताः स्त्रियः प्रायोऽधिकं सुकुमार्यो भवन्ति । तासां चेतो गृहकार्यसम्पादने न तथा संलग्नं भवति यथा विलासे आमोदे प्रमोदे च रमते । एतस्त्रुटयः परिमार्जीयाः । स्त्रीणां सा शिक्षाऽद्यत्वे विशेषतो लाभप्रदा विद्यते, यथा ताः गृहकर्मप्रवीणाः कुलाङ्गनाः सत्यः  पतिव्रताः साध्व्यो विदुष्यो मातरश्च भवन्ति । यथा ता देशस्य समाजस्य च कल्याणसम्पादने प्रवृता भवन्ति ,सैव शिक्षा हितकरी लाभप्रदा वर्तते । देशस्य समाजस्य चोन्नत्यै श्रीवृद्धये च स्त्रीशिक्षायाऽत्यावश्यकी वर्तते ।

                                                                 


                                                                                                                 शिव त्रिपाठी
                                                                                                            दिनाङ्क-०६/०४/२०१८


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

समासशक्तिविमर्शः यस्मिन् समुदाये पदद्वयं   वा पदत्रयं   वा परस्परं समस्यते स   सम ु दायः   समासः    इति । प्राक्कडारा समासः [i] - समासस...