आतंकावादः कः ? सम्यक् व असम्यक्
साधनेन स्वात्मानस्य अभीष्ट-साधनम्
आतंकवादः कथ्यते । यथा-परधनहरणं-परस्त्रीहरणम्-परक्षेत्रहरणम्
अन्यस्य
सर्वस्य-हरणेन स्वन्नोति-साधनम् । अनुचितसाधनानाम् उपयोगेन परस्य
हत्या,परस्य धन-हरणम् इत्यादिकं क्रियते ।
आतंकवादस्य
कारणानि- संक्षेपतः
एतानि कारणानि सन्ति-स्वार्थपरता स्वार्थनिबद्धा संकुचिता दृष्टिः वा, आतंकवादस्य
मूलं कारणं वर्तते । एषैव स्वार्थदृष्टिः साधनरूपेण आतंकवादं पोषयति प्रसारयति च ।
यथा –क्षेत्रवादः,भाषावादः,धर्मान्धता,आर्थिकी विषमता,समन्वयस्य अभावः । न्यायपालिकाया
दुर्बलत्वम्, नैतिक-मूल्यानां ह्रासः, प्रशासनस्य निष्क्रयत्वम्, राजनीतिकं वा
कारणम् ।
अद्यत्वे क्षेत्रवादो विशेषरुपेण
वैमनस्यं जनयति । भारते वर्गविशेषः स्वीयां सांस्कृतिकीं श्रेष्ठतां साधयतुं
सांप्रदायिकं संघर्षं प्रेरयति । चौर्यादि-कार्येषु आतंकवादस्य मूलकारणम् आर्थिकं
वर्तते । शिक्षितेषु अवृति-समस्या चौर्यादिकस्य कारणं वर्तते । ते धनार्थकम्
अपराधवृत्तिम् आश्रयन्ते ।
आतंकवादस्य
कुप्रभावः- आतंकवादस्य
कुप्रभावः सांस्कृतिकम् आर्थिकं सामाजिकं धार्मिकं च पक्षं दूषितं करोति ।
आतंकवादस्य कारणेन समाजे हिंसा, अनैतिकता अराजकता च वर्धते । जनताया मनोबलं क्षीयते, असामजिकानाम्
उत्साहः वर्धते ।
आतंकवादस्य
निरोधोपायाः-
आतंकवादस्य निरोधार्थं राष्ट्रे नैतिक-शिक्षा अनिवार्या स्यात् । नैतिकं शिक्षणं
मनुष्ये कर्तव्याकर्तव्यस्य ज्ञानं प्रसारयति । आतंकवादस्य निरोधार्थं राष्ट्रीय-प्रशासनस्य
महती भूमिका वर्तते । प्रशासनम् असामाजिकं तत्वं समूलं विनाशयेत् । स्वदण्डनीति
कठोरां कुर्यात् , दण्डः शास्ति प्रजाः सर्वाः, दण्ड एवाभिरक्षति । यदि दण्डव्यवस्था
कठोरा स्यात् ,तदा असाजिकानां तत्वानां मनोबलं क्षीयते । शिक्षणालयेषु अपि
आतंकवादस्य विरुद्धं प्रशिक्षणं स्यात् ।
शिव त्रिपाठी
दिनाङ्क
०३/०४/१८


कोई टिप्पणी नहीं:
एक टिप्पणी भेजें