संस्कृतभाषा परिमार्जिता,
परिष्कृता, परिशुद्धा, व्याकरणसम्मतसम्बन्धि –
- दोषादिरहिता भाषा संस्कृतभाषेति
कथ्यते । सर्वविधशून्त्वादियं भाषा देवभाषा,
गीर्वाणगीः इत्यादिभिः शब्दैः
जनाः संबोध्यन्ते । अतोऽन्या भाषा
प्राकृतपदवीं प्राप्ता ।
वयं सर्वे जानन्त्येव संस्कृतभाषा ,
सर्वासु भाषासु अत्यन्तमा प्राचीनतमा सर्वोत्तमसमृद्धमसाहित्यसंयुक्ता चास्ति । संस्कृतभाषाया उपयोगिता एतस्मात् कारणाद् वर्तते यद एषैव सा भाषाऽस्ति यतः सर्वासां
भारतीयानाम् आर्याभाषाणाम्
उत्पत्तिर्बभूव । सर्वासामेतासां भाषाणाम्
इयं जननी । सर्वभाषाणां मूलरुपज्ञानाय एतस्या आवश्यकता भवति । प्राचीन समये एषैव भाषा सर्वसाधारणाऽसीत
, सर्वे जनाः संस्कृतभाषाम् एव वदन्ति सम । अतः ईसवीयसम्वत्सरात्पूर्वं प्रायः
समग्रमपि साहित्यं संस्कृतभाषायामेव उपलभ्यते।
संस्कृतभाषायाः सर्वे जनाः
प्रयोगं कुर्वन्ति स्म , इति
तु निरुक्तमहाभाष्यादिग्रन्थेभ्यः सर्वथा सिद्धमेव ।
आधुनिकं भाषाविज्ञानमपि एतदेव
सानिश्चयं प्रमाणयति । संस्कृतभाषायेव
विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति , येषां महत्वमद्यापि
सर्वोपरि वर्तते । वेदेषु
मनुष्याणां कर्तव्याकर्तव्यस्य सम्यक्तया
निर्धारणं वर्तते । वेदानां
व्याख्यानभूता ब्रह्मणग्रन्थाः सन्ति । तदनन्तरमं आध्यात्मविषयप्रतिपादिका उपनिषद
सन्ति, यासां महिमा पाश्चात्यैरपि निःसंकोचं गीयते । ततश्च भारतगौरवभूताः षड्दर्शनग्रन्थाः सन्ति , ये विश्वसाहित्येऽद्यापि सर्वमान्याः सन्ति ।
एवञ्च श्रौतसूत्राणां, गृहसूत्राणां,
धर्मसूत्राणां , वेदस्य व्याख्यानभूतानां
षड्ङ्गानां च गणना भवति ।
महर्षिवाल्मीकिकृतरामायणस्य , महर्षिव्यासकृतमहाभारतस्य च रचना
विश्वसाहित्येऽपूर्वा घटना आसीत् । सर्वप्रथमं विशदस्य कवित्वस्य, प्रकृतसौन्दरस्य, नीतिशास्त्रस्य, अध्यात्मविद्यायाः तत्र दर्शनं भवति । तदनन्तरमं कौटिल्यसदृशाः अर्थशास्त्रकाराः ,
भासकालिदास-अस्वघोष-भवभूति-दण्डि-सुबन्धु-बाण-जयदेवप्रभृतयो महाकवयो नाट्यकाराश्च
पुरतः समायान्ति , येषां जन्मलाभेन न केवलं भारतभूमिरेव, अपितु समस्तं विश्वमेतद् धन्यमस्ति । एतेषां
कविवराणां गुणगणस्य वर्णने
महाविद्वान्सोऽपि असमर्थाः सन्ति , का गणना साधारणानां जनानाम् । भगवतगीता, पुराणानि, स्मृतग्रन्थाः,
अन्यद्विषयकं च सर्वं साहित्यं संस्कृतस्य महात्म्यमेवोद्घोषयति ।
संस्कृतभाषैव
भारत्सय प्राणभूता भाषाऽस्ति । एषैव
समस्तं भारतवर्षमेकसूत्रे बध्नाति । भारतीयगौरवस्य रक्षणाय एतस्याः प्रचारः ,
प्रसारश्च सर्वैरेव कर्तव्यः ।
शिव त्रिपाठी
शुक्रवासरः २०/०४/२०१८

कोई टिप्पणी नहीं:
एक टिप्पणी भेजें